आबन्ता दङ्गादुत्तरस्य ङितः प्रत्ययस्य याडागमो भवति। खट्वायै। बहुराजायै। कारीषगन्ध्व्यायै। खट्वायाः। कारीषगन्ध्यायाः। बहुराजायाः। अतिखट्वाय इत्यत्र अकृते दीर्घे ङ्याब्ग्रहणे अदीर्घः इति वचनाद् याडागमो न भवति, कृते तु लाक्षणिकत्वात्।
आपो ङितो याट्। वृद्धिः। रमायै। रमाभ्याम्। रमाभ्यः। रमायाः। रमयोः। रमाणाम्। रमायाम्। रमासु। एवं दुर्गाम्बिकादयः॥
"खट्वायाम्()" इति। "वृद्धिरेचि"
६।१।८५ इति वृद्धिः। खट्वाया इत्यत्राकः सवर्णे
६।१।९७ दीर्घोच्चारणम्()--वृद्धिसवर्णदीर्घत्वे यथा स्याताम्(), पररूपत्वं मा भूदित्येवमर्थम्()।
अकारोच्चारणसामथ्र्यान्न भविष्यतीति चेत्()? न; अस्ति ह्रन्यदकारोच्चारणस्य प्रयोजनम्()।
किं तत्()? ज्ञायै, ज्ञाया इत्यत्र "सावेकाचस्तृतीयादिर्विभक्तिः"
६।१।१६२ इत्यनेनोदात्तत्वं मा भूत्(), आगमनुदात्तत्वं यथा स्यादिति।
अथ खट्वामतिक्रान्तायातिखट्वायेत्यत्र कस्मान्न भवति,
उपसर्जनह्यस्वत्वे कृते तस्य स्थानिवद्भावादाव्ग्रहणेन ग्रहणे सति प्राप्नोति? इत्यत आह--"अतिखट्वाय" इत्यादि।
यदा तावत्? "सुपि च"
७।३।१०२ इति दीर्घत्वं न क्रियते, तदा ङ्याव्ग्रहणेन दीर्घग्रहणमित्येतद्ववचनान्न भवति। यदा दीर्घत्वं तदा लाक्षणिकत्वान्न भवति; "लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्()" (व्या।प।३) इति वचनात्()॥
यडापः। "आप" इति पञ्चमी। "धेर्ङिती"त्यतो डितीत्यनुवृत्तं षष्ठ()आ विपरिणम्यते। तदाह--आपः परस्येत्यादिना। टित्त्वादाद्यवयवः। वृद्धिरेचीति। या-ए इति स्थिते आकारस्य एकारस्य च स्थाने ऐकार एकादेश इति भावः। सवर्णेति। ङसिङसोः रमा अस् इति स्थिते याडागमे "अकः सवर्णे दीर्घः" इति सवर्णदीर्घ इति भावः। "य"डित्येव सुवचम्। "अतो गुणे" इति पररूपं तु न, अकारोच्चारणसामथ्र्यात्। रमयोरिति। "आङि चापः" इत्यात्त्वेऽयादेश इति भावः। रमाणामिति। "ह्यस्वनद्यापः" इत्यत्राऽऽब्ग्रहणन्नुटि पर्जन्यवल्लक्षणप्रवृत्त्या "नामी"ति दीर्घे "अट्कुप्वा" ङिति णत्वमिति भावः। रमायामिति। "रमा-इ" इति स्थिते "ङेराम्नद्याम्नीभ्यः" इत्यामादेशे याडागमे सवर्णदीर्घ इति भावः। "न विभक्तौ" इति मस्य नेत्त्वम्। सर्वशब्दाट्टापि सर्वाशब्दः। सोऽपि प्राये रमावत्। ङित्सु "याडापः" इति प्राप्ते-।
याडापः। "घेर्ङिती"त्यतोऽनुवृत्तं "ङिति"ति सप्तम्यन्तमाप इति पञ्चम्यनुरोधेन षष्ट()न्तं विपरिणम्यत् इत्याह---ङिद्वचनस्येति। अत्र "सुपि चे"त्यतः "सुपी"त्यमुवर्तनात्सुप एव याट्। तेन अपित्सार्वधातुकस्य ङित्त्वेऽपि मालेवाचरतो "मालात"इत्यादौ तसादेर्न भवति। एतच्च "अचः परस्मि"न्नित्यत्र पूर्वस्यविधिः पूर्वविधिरिति षष्ठीसमासपक्षाभ्युपगमेनोक्तम्। पञ्चमीसमासपक्षाभ्युपगमे तु शपः स्थानिवत्त्वेन व्यवधानात् "मालात्ित्यादौ याटः प्रसङ्ग एव नास्तीत्याहुः।
"य"डित्येव वक्तव्ये दीर्घोच्चारणं स्पष्टप्रतिपत्त्यर्थम्। न च "अतो गुणे"इति पररूपापत्तिः, अकारोच्चारणसामथ्र्यादेव तद्बाधात्। वृद्धिरेचीति। प्राचा तु "आटश्चे"त्युपन्यस्तंतदुपेक्षितम्। याट्स्याटोष्टकारस्य समुदायानुबन्धत्वेनेह आटोऽभावात्।