पूर्वम्: ७।३।७५
अनन्तरम्: ७।३।७७
 
सूत्रम्
क्रमः परस्मैपदेषु॥ ७।३।७६
काशिका-वृत्तिः
क्रमः परस्मैपदेषु ७।३।७६

क्रमः परस्मैपदपरे शिति परतो दीर्घो भवति। क्रामति, क्रामतः, क्रामन्ति। परस्मैपदेसु इति किम्? आक्रमते आदित्यः। इह उत्क्राम, सङ्क्राम इति हेर्लुकि कृते न लुमताङ्गस्य १।१।६५ इति प्रत्ययलक्षणप्रतिषेधात् दीर्घो न प्राप्नोति? न एष दोषः। लुमताशब्देन लुप्ते य दङ्गं तस्य कार्ये स प्रतिषेधः। न च हौ क्रमिरङ्गम्, किं तर्हि, शपि।
लघु-सिद्धान्त-कौमुदी
क्रमः परस्मैपदेषु ४८८, ७।३।७६

क्रमो दीर्घः परस्मैपदे शिति। क्राम्यति, क्रामति। चक्राम। क्रमिता। क्रमिष्यति। क्राम्यतु, क्रामतु। अक्राम्यत्, अक्रामत्। क्राम्येत्। क्रामेत्। क्रम्यात्। अक्रमीत्। अक्रमिष्यत्॥ पा पाने॥ १६॥
न्यासः
क्रमः परस्मैपदेषु। , ७।३।७६

"क्रामति" इति। "क्रमु पादविक्षेपे" (धा।पा।४७३)। "आक्रमते" इति। आङ्पूर्वः। "आङ उद्गमने" १।३।४० इत्यात्मनेपदम्()। "इहोत्क्राम, सङ्क्राम" इत्यादिना चोद्यम्()। उत्पूर्वात्? सम्पूर्वाच्च क्रमेर्लोट "सेह्र्रपिच्च" ३।४।८७ इति हिरादेशः, तस्य "अतो हेः" ६।४।१०५ इति हेर्लुकि कृते "न लुमताङ्गस्य" (१।१।६३) इति प्रत्ययलक्षणनिषेधात्? उत्क्राम सङ्क्राम" इत्यत्र दीर्घत्वं न प्राप्नोति; न ह्रसति प्रत्ययलक्षणे हौ लुप्ते क्रमः परस्मैपदपरता सम्भवति। "नैष दोषः, इत्यादि परीहारः। स्यादेतत्? लुमता लुप्ते क्रमः प्रत्यये हावेव करमिरत्राङ्गमित्याह--"न च क्रमिरङ्गम्()" इति। शपा व्यवहितत्वात्()। "किं तर्हि? "शपि" इति। शप एव ततो व्यवहितस्य विद्यमानत्वात्()॥
बाल-मनोरमा
क्रम परस्मैपदेषु १६२, ७।३।७६

क्रमः। दीर्घः स्यादिति। "शमामष्टाना"मित्यतस्तदनुवृत्तेरिति भावः। शितीति। "ष्ठिवुक्लम्वाचमा"मित्यतस्तदनुवृत्तेरिति भावः। क्रामत्विति। मध्यमपुरुषैकवचने क्रमेत्यत्र तु "क्रमः परस्मैपदेष्वि"ति दीर्घो भवत्येव। नच दीर्घस्याङ्गाधिकारस्थत्वान्नलुममेति निषेधः शङ्क्यः, लुमता लुप्ते प्रत्यये यदङ्गं तस्य कार्य एव तस्य प्रवृत्तेः। शिति परतः क्रमेरङ्गस्य दीर्घस्तु न लुप्तप्रत्यये परस्मैपदे परे अङ्गस्य कार्यं, किंतु शिति परे अङ्गस्य कार्यमिति बोध्यम्।

तत्त्व-बोधिनी
क्रम परस्मैपदेषु १३६, ७।३।७६

क्रमः। "ष्ठिवुक्लमुचमा"मित्यतोऽनुवर्तनादाह-परस्मैपदे शतीति। परस्मैपदे किम्?। उपक्रमते। पराक्रमते।