ऋदन्तस्य संयोगादेरङ्गस्य गुणो लिटि। उपधाया वृद्धिः। जह्वार। जह्वरतुः। जह्वरुः। जह्वर्थ। जह्वरथुः। जह्वर। जह्वार, जह्वर। जह्वरिव। जह्वरिम। ह्वर्ता॥
"सस्वरतुः, सस्वरुः" इति। "स्वृ शब्दोपतापयोः" (धा।पा।९३२), "उरत्()"
७।४।६६ इत्यभ्यासस्यात्त्वम्(), रपरत्वम्(), हलादिशेषः। "दध्वरतुः, दध्वरुः" इति। "ध्वृ हूच्र्छने" (धा।पा।९३९)। "सस्मरतुः, सस्मरुः" इति। "स्मृ आध्याने" (धा।पा।८०७)। ननु च सर्वत्रैव साभ्यासमङ्गम्(),
न च तत्? संयोगादि? नैष दोषः, "द्विष्प्रयोगो द्विर्वचनम्()" इत्येषोऽत्र पक्षः, तत्र परस्याप्यङ्गसंज्ञा भवत्येव। अथापि "स्थाने द्विर्वचनम्()" इत्यप्यदोषः; सर्वत्रैव हि लिट()भ्यासः संयोगादित्वं विहन्ति, उच्यते चेदं वचनम्(),
तत्रैवं विज्ञास्यामः--प्राग्द्विर्वचनात्? संयोगादित्वमस्ति,
इह च द्विर्वचनात्? प्राक् संयोगादित्वमस्ति। "चिक्षिपतुः, चिक्षिपुः" इति। "क्षि क्षये" (धा।पा।२३६), इयङादेशः।
"प्रतिषेधविषयेऽपि" इत्यादि। यः "क्ङिति च" (१।१५) इत्यसय प्रतिषेधस्य विषयो न भवति थलादिः, तत्र "सार्वधातुकार्धधातुकयोः"
७।३।८४ इत्येवं गुणः सिद्धः। तस्माद्गुणप्रतिषेधविषयेऽपि यथा स्यादित्ययमारम्भः वृद्धिविषयेऽपि परत्वाद्गुणेन भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्(), अतस्तां निराकर्तुमाह--"वृद्धिविषये तु" इत्यादि। गुणस्यावकाशः--सस्वरतुः, सस्वरुरिति; ञ्णिति वृद्धेरवकाशः--स्वारकः, ध्वारक इति; सत्त्वार, दध्वारेत्यत्रोभयप्रसङ्गे पूर्वविप्रतिषेधेन वृद्धिरेव भवति।
अथ तपरकरणं किमर्थम्(),
दीर्घस्यापि मा भूदित्येवमर्थं चेत्()? नैतदस्ति;
भवितव्यमेव हि दीर्घस्योत्तरसूत्रेण--"स्तृञ्? आच्छादने" (धा।पा।१४८४), आतस्तरतुः, आतस्तरुरिति।
ननु चैतस्मात्? तपरकरणान्न प्राप्नोत,
सावकाशं चोत्तरवचनमसंयोगादौ--"कृ? विक्षेपे" (धा।पा।१४०९) निचकरतुः,
निकरुरिति? यद्येवम्(), एवे तर्हि न चेदं तपरकरणम्(), किं तर्हि तसिनायं निर्देशः।
"संयोगादेः" इत्यादि। इहाङ्गप्रकरणादङ्गं संयोगादित्वेन विशिष्यते। न च करोतेः संयोगाद्यङ्गमिति न प्राप्नोति,
तस्मात्? संयोगोपधग्रहणं कत्र्तव्यमिति करोतेरपि यथा स्याद्गुणः। "सञ्चस्करतुः, सञ्चस्करुः" इति। "सम्पर्युपेभ्यः करोतौ भूषणे"
६।१।१३२ इति सुट्(), स च "अडभ्यासव्यवायेऽपि"
६।१।१३१ इति वचनादभ्यासव्यवायेऽपि भवति। किं पुनः कारणमिह गुणो न सिध्यति, यावता सुटि कृते "तन्मध्यपतितस्तद्ग्रहणेन गृह्रते" (व्या।प।
२१) इति करोतिः संयोगादर्भवति? इत्यत आह--"अत्र हि" इत्यादि। अनेन सुटो बहिरङ्गतां प्रतिपादयति। बहिरङ्गत्वे हि तस्य "असिद्धं बहिरङ्गमन्तरङ्गे" (व्या।प।
४२) इत्यन्तरङ्गे गुणे कत्र्तव्ये बहिरङ्गस्य सुटोऽसिद्धत्वात्? संयोगादित्वं करोतेर्नोपपद्यते।
पूर्वं धातुरुपसर्गेण युज्यते पश्चात्? साधनेन" (जै।प।वृ।९८) इत्यस्मिन्दर्शने धातूपसर्गयोः कार्यमन्तरङ्गमिति सुटोऽपि धातूपसर्ययोः कार्यत्वादन्तरङ्गता स्यात्()। "पूर्व धातुः साधनेन युज्यते पश्चादुपसर्गेण" (सी।प।
१२८) इत्यस्मिन्? दर्शने सुड्बहिरङ्गो भवति।
तथा हि--अस्मिन्? दर्शने निरुपसर्गस्यैव धातोरर्थः साधनेन युज्यत इति साधनाभिधायी पूर्व तावल्लिट्? कत्र्तव्यः; तत्र कृते तदाश्रये द्विर्वचने कृते पश्चादुपसर्गयोगे "अडभ्यासवयवायेऽपि" (६।१।
१३६) इति सुट्? क्रियते। एवञ्च क्रियमाणे ह्रनेकपदाश्रितत्वात्(), बह्वपेक्षत्वाच्च सुटो बहिरङ्गता प्रतिपाद्यते। गुणस्तु लिडुत्पत्तिसमनन्तरकालमेव प्राप्नोति, नापरं किञ्चिदपेक्षते; एकपदापेक्षत्वादल्पापेक्षत्वाच्चान्तरङ्गः,
ततश्च तस्मिन्? कत्र्तव्ये सुटोऽसिद्धत्वात्? करोतिः संयोगाद्यङ्गं न भवति। तस्मादसौ न प्राप्नोति। "एवञ्च कृत्वा" इत्यादि। यत एवं सुड्बहिरङ्गः,
एवञ्च कृत्वाऽन्तरङ्ग इटि कत्र्तव्ये तस्यासिद्धत्वादसंयोगादित्वात्? करोतेरुपस्कृषीष्ट, संस्कृषीष्ट--इत्यतर "ऋतश्च संयोगादेः"
७।२।४३ इतीडागमो न भवति। एतेन बहिरङ्गतैव सुटः प्रतिपादिता।
ननु चाङ्गाधिकारात्? प्रत्यासत्तेरङ्गावयव एव संयोगो गृह्रते, कात्पूर्वग्रहणेन तत्र ज्ञापितमभक्तत्वं सुटः,
ततश्चाभक्तत्वादेवासंयोगादित्वात्? करोतेरिण्न भविष्यति,
किमत्र बहिरङ्गत्वेनासिद्धत्वेनोपन्यस्तेन? सत्यमेतत्(); एवं मन्यते--भवतु नाम करोतिभक्तत्वं सुटः,
तथाप्यसिद्धत्वात्? तस्य संस्कृषीष्ट--इत्यत्रेट्प्रसङ्गो न भविष्यतीति संयोगोपधग्रहणं कत्र्तव्यमिति।
अस्यायमर्थः--संयोगोपधः करोतिरङ्गं गृह्रते येन तत्? संयोगोपधग्रहणव्याख्यानं कत्र्तव्यमित्यर्थः। तत्रेदं व्याख्यानं कत्र्तव्यम्()--चकारोऽत्र क्रियते, स च करोतेः संयोगोपधस्य समुच्चयार्थः। तेन तस्यापि सुटि कृते संयोगोपधस्य गुणो भविष्यतीति॥