पूर्वम्: ७।४।२३
अनन्तरम्: ७।४।२५
 
सूत्रम्
एतेर्लिङि॥ ७।४।२४
काशिका-वृत्तिः
एतेर् लिगि ७।४।२४

एतेरङ्गस्य उपसर्गादुत्तरस्य लिङि यकारादौ क्ङिति परतो ह्रस्वो भवति। उदियात्। समियात्। अन्वियात्। आशिषि लिङि अकृत्सार्वधातुकयोः इति दीर्घत्वे कृते ह्रस्वो ऽनेन भवति। उपसर्गातित्येव, ईयात्। अणः इत्येव, आ ईयातेयत्। समेयात्।
लघु-सिद्धान्त-कौमुदी
दीर्घ इणः किति ५८४, ७।४।२४

इणोऽभ्यासस्य दीर्घः स्यात् किति लिटि। ईयतुः। ईयुः। इययिथ, इयेथ। एता। एष्यति। एतु। ऐत्। ऐताम्। आयन्। इयात्॥एतेर्लिङि॥ उपसर्गात्परस्य इणोऽणो ह्रस्व आर्धधातुके किति लिङि। निरियात्। उभयत आश्रयणे नान्तादिवत्। अभीयात्। अणः किम्? समेयात्॥
न्यासः
एतेर्लिङि। , ७।४।२४

"उदियात्()" इति। "इण्? गतौ" (धा।पा।१०४५), आशिषि लिङ, "स्कोः संयोगाद्योरन्ते च" ८।२।२९ इति सकारलोपः। "अभीयात्()" इति। सवर्णदीर्घत्वेऽकृते ह्यस्वः। "आशिषि लिङि" इत्यादिना सूत्रस्य विषयं दर्शयति। सार्वधातुके हि लिङि दीर्घत्वमिणो न सम्भवतीति नात्रास्योपयोगः। यत्राकृत्सार्वधातुकयोर्दीर्घत्व ७।४।२५ मापद्यते; तत्र दीर्घत्वे कृतेऽनेन ह्यस्वो भवति।
बाल-मनोरमा
एतेर्लिङि २८८, ७।४।२४

एतेर्लिङि। "उपसर्गाद्ध्रस्व ऊहते"रित्यत "उपसर्गाद्ध्रस्व" इति , "केऽणः"इत्यतोऽण इति, "अयङ्यि क्ङिती"त्यतः कितीति चानुवर्तते। तदाह--उपसर्गात्परस्येत्यादि। इह आद्र्धधातुके इति प्रामादिकं, पूर्वसूत्रेषु तदभावादनुवृत्तेरसंभवात्, किति लङीत्येव सिद्धेश्च। ङितीति तु नानुवर्तते, इण आद्र्धधातुकलिङो ङित्त्वाऽभावात्। नन्वमीयादित्यत्रापि ह्यस्वः स्यादित्यत आह-- उभयत इति। अत्र एकादेशस्य ईकारस्य पूर्वान्तत्वे उपसर्गानुप्रवेशादिणधातुत्वं न सम्भवति, परादिवत्त्वेन इण्धातुत्वाश्रयणे तु न उपसर्गात्परत्वम्, उपसर्गैकदेशस्य इकारस्य ईकारात्मना सत्त्वेन "अभ्" इत्यस्य उपसर्गत्वाऽभावात्। एकादेशस्य आदिवत्त्वमाश्रित्य इण्धातुत्वम्, अन्तवत्त्वमाश्रित्य तस्य उपसर्गानुप्रवेशश्चेत्यपि न संभवति, पूर्वपरशब्दाभ्यामन्तादिशब्दाभ्यां च विरोधस्य पुरः स्फूर्तिकतया विरुद्धातिदेशद्वयस्य युगपदसंभवादित्यर्थः। इदं च अन्तादिवत्सूत्रे भाष्ये स्पष्टम्। न च "अभ्" इति भान्तस्य एकदेशविकृतन्यायेन उपसर्गत्वदीकारस्य परादिवत्त्वे ह्यस्वो दुर्वार इति वाच्यं, लक्ष्यानुसारेण क्वचिदेकदेशविकृतन्यायानाश्रयणादिति शब्देन्दुशेखरे विस्तरः। सम#एयादिति। आ-इयात् एयात्। समेयादित्यत्र एकारस्य अनण्त्वान्न ह्यस्वः। ग्रहणकसूत्रादन्यत्र पूर्वेणैव णकारेण प्रत्याहाराश्रयणादिति भावः। तर्हि क्वचित् "समीया"दिति प्रयोगः कथमित्याशङ्क्याह-- समीयादिति प्रयोगस्तु भौवादिकस्येति। "इट किट कटी गतौ" इति प्रश्लिष्टस्य इधातोराशीर्लिङि "अकृत्सार्वधातुकयोर्दीर्घः" इति दीर्घो बोध्य इति भावः। लुङि विशेषमाह--

तत्त्व-बोधिनी
एतेर्लिङिः २५०, ७।४।२४

एतेर्लिङि। इहाद्र्धधातुक इति स्वरूपकथनार्थं प्रक्षिप्तम्। किति लिङीत्येतावतैवेष्टसिद्धेः। उभयत आश्रय इति। अन्तादिशब्दाववयवविशेषवाचिनौ। तत्र यदि पूर्वस्यावयवबुद्ध्या एकादेश आश्रीयते तदा तस्यैव परस्य कथमादिवद्भावः स्यात्। एवं परस्यादित्त्वात् पूर्वस्यान्तवद्भावो न स्यात्, एकस्योभयापेक्षया पारतन्त्र्यविरोधादिति भावः। नन्वेवं रामौ इत्यस्य "सुप्तिङन्त"मिति पदत्वं न स्यात्, परादित्वे रामेति प्रकृतेरभावात्। "यस्मादत्प्रत्ययविधिस्तदादेस्तदन्तस्य ग्रहण"मिति स्वीकाराद्रामित्यस्याऽप्रकृतित्वात्। पूर्वान्तत्वे तु परत्र प्रत्ययाऽभावात्। अत्राहुः-- पूर्वं पदसंज्ञा पश्चादेकादेश इति नोक्तदोषः। इह च ज्ञापकं [तु] "सुपिसूतिसमाः" इति। विध्यादौ समीयादिति न भवत्येव। आशीर्लिङि तु "अकृत्सार्वे"ति दीर्घे कृतेऽपि ह्यस्वत्वेन भाव्यमित्याङक्याह--- समीयादिति प्रयोगस्तु भौवादकस्येति। "इटकटी"त्यत्र प्रश्लिष्टस्य इधातोराशीर्लिङि इदं रूपम्। "वीगती"त्यत्र ईकारोऽपि धात्वन्तरं प्रश्लिष्यते इति मते तु विध्यादिलिड()पि भवत्येवेति बोध्यम्।