पूर्वम्: ७।४।५०
अनन्तरम्: ७।४।५२
 
सूत्रम्
रि च॥ ७।४।५१
काशिका-वृत्तिः
रि च ७।४।५१

रेफादौ च प्रत्यये परतः तासस्त्योः सकारास्य लोपो भवति। कर्तारौ। कर्तारः। अध्येतारौ। अध्येतारः।
लघु-सिद्धान्त-कौमुदी
रि च ४०९, ७।४।५१

रादौ प्रत्यये तथा। भवितारौ। भवितारः। भवितासि। भवितास्थः। भवितास्थ। भवितास्मि। भवितास्वः। भवितास्मः।
न्यासः
रि च। , ७।४।५१

"कत्र्तारौ, कत्र्तारः" इति। लुट्(), तस्(), झिः, "लुटः प्रथमस्य डारौरसः" २।४।८५ इति तसो झेश्च यथाक्रमं रौरसौ भवतः। "अध्येतारौ, अध्येतारः" इति। इङो ङित्त्वादत्मनेपदम्? आताम्(), झः तयोश्च पूर्ववद्रौरसौ। अस्ते रेफादिप्रत्ययो न सम्भवतीति नास्त्युदाहरणम्()। केचित्तु--"व्यतिरे" इत्युदाहरणं दर्शयन्ति; एतच्च च्छब्दस्येवं प्रयोगो यद्यसति ततो युक्तम्(), अथ तु नास्त्येवं सत्ययुक्तम्()। "इरयो रे" ६।४।७६ इति रेभावश्छन्दसि विधीयते, "यथादृष्टानुविधिश्छन्दसि" (व्या।प।६८) इति। चकारः पूर्वापेक्षया समुच्चयार्थः॥
बाल-मनोरमा
रि च ४१, ७।४।५१

प्राग्वदिति। तासेर्लोप इत्यर्थः। अस्तिस्तु नेह संबध्यते, ततो रादिप्रत्ययस्याऽसंभवात्।

तत्त्व-बोधिनी
रि च ३२, ७।४।५१

प्राग्वदिति। तासेर्लोप इत्यर्थः। अस्तिस्तु नेह संबध्यते,ततो रादिप्रत्ययस्याऽसंभवात्॥