अभ्यासस्य हलादिः शिष्यते, अनादिर् लुप्यते। जग्लौ। मम्लौ। पपाच। पपाठ। आट, आटतुः, आटुः। आदिशेषनिमित्तो ऽयम् अनादेर् लोपो विधीयते, तत्र अभ्यासजातेः आश्रयणात् क्वचिदपि वर्तमानो हलादिः अनदेः सर्वत्र निवृत्तिं करोति। अपरे तु ब्रुवते, शेषशब्दो ऽयं निवृत्त्या विशिष्टम् अवस्थानम् आह। तदवस्थानम् उक्तितो यद्यपि प्रधानम्, अविधेयत्वात् तु तदप्रधानम्। निवृत्तिरेव तु विधेयत्वात् प्रधानम्। तत्र अयम् अर्थो ऽस्य जायते, अभ्यासस्य अनादेर् हलो निवृत्तिः भवति इति। सा किम् इति आदेरविधेयां सतीम् अनिवृत्तिम् अपेक्षिष्यते इति।
"हलादिः" इति।
हल्? चासावादिश्चेति हलादिः--कर्मधारयोऽयम्(), न तु षष्ठीसमासः--हलामादिर्हलादिः। यदि षष्ठीसमासः स्यात्(), तदायमर्थः स्यात्()--अभ्यासस्य यै हलस्तेषामादिः शिष्यत इति। तथा च--आनक्षतुः, आनक्षुरित्यत्र "अक्षू व्याप्तौ" (धा।पा।
६५४) इत्यस्याजादित्वाद्()द्वितीयस्यैकाचोऽभावात्? प्रथमस्यैकाचो द्विर्वचने कृते यद्यप्यभ्यासादिः ककारो न भवति, तथापि हलादिर्भवति, तस्य शेषः प्रसज्येत। कर्मधारये तु न दोषः, तत्राभ्यासापेक्षं हलादित्वं विधीयते, न चात्र ककारोऽभ्यासादिः।
तस्मात्? कर्मधारयोऽयम्()। "जग्लौ" "मम्लौ" इति। "ग्लै हर्वक्षये" (धा।पा।९०३), "म्लै गात्रविनामे" (धा।पा।९०४), "आदेच उपदेशेऽशिति"
६।१।४४ इत्यात्त्वम्(), "आत औ णलः"
७।१।३४ इत्यौत्त्वम्()। "आटतुः" आटुः" इति। "अत आदेः"
७।४।७० इत्यभ्यासस्य दीर्घत्वे कृते सवर्णदीर्घत्वम्()।
ननु च शेषोऽवस्थानम्(), तच्चानेः सिद्धमेव,
तत्किमर्थ विधीयते? इत्याह--"आदिशेषनिमित्तोऽयम्()" इत्यादि। आदिशषो निमित्तं यस्य लोपस्य स तथोक्तः। न ह्रत्रादेः शेषो विधीयते,
किं तर्हि? तन्निमित्तोऽयमनादेर्लोपो विधीयते। सिद्ध एव ह्रादेरवस्थाने हलादिशेष इतीदं विधीयमानं नियमार्थं विज्ञायते--आदेरेव हलोऽवस्थानं भवति, त्वनादेरिति एवमादिशेषनिमित्तमनादेरदर्शनं विहितं भवति। यदि तह्र्रादिशेषनिमित्तोऽयमनादेर्लोपो विधीयते, एवं सत्यादुतुराटुरित्यत्र लोपो न भवति; निमित्ताभावात्(), अभ्यासस्य हलेव तावदादिर्नास्ति,
कुतः पुनस्तस्य शेषः? इत्यत आह--"तत्र" इत्यादि। अनादिलोपे कत्र्तव्येऽभ्यासजातिराश्रीयते, नाभ्यासव्यक्तिः। तेन यद्यपि सर्वास्वभ्यासव्यक्तिषु हलादिर्न वत्र्तते, तथापि क्वचिदपि पपाचेत्यादौ वत्र्तमानो हलादिरनादेः सर्वत्राटतुः, आटुरित्येवमादावपि निवृतिं()त करोति; अभ्यासजातेरभिन्नत्वात्()। यैव हि पपाचेत्यादावभ्यासजातिः, सैवाटतुः आटुरित्यादावपि।
"अपरे तु" इत्यादि। आटतुः, आटुरित्यादावनादेर्लोपं प्रतिपादयितुमपरे ब्राउवत इति। शेषशब्दोऽयं नावस्थानमात्रमाह,
किं तर्हि? निवृत्त्या विशिष्टमवस्थानम्(), यद्येवम्(),
अवस्थानस्य विशेष्यत्वात्? प्राधान्यम्(), निवृत्तेस्तु विशेषणावादप्राधान्यम्()। तथा च--परधानानुयायित्वादप्राधान्यं गुणानाम्()। यत्रैवाभ्यासस्य हलादेरवस्थानं पपाचेत्यादौ, तत्रैदानादेर्हलो निवृत्त्या भवितव्यम्(); ततः स एव दोषः--आटतुः,
आटुरित्यादावनादेर्हलो निवृत्तिर्न प्राप्नोतीति? अत आह--"तदवस्थानम्()" इत्यादि।
यद्यपि निशेष्यभूतं तदवस्थानं शेषशब्देनाभिधीयत इत्युक्तितः प्रधानम्? तथाप्यविधेयत्वादप्रधानम्()। अविधेयत्वं तु तस्य सिद्धत्वात्()।
निवृत्तरेव विशेषणभूतापि विधेयत्वात्? प्रधानम्()। तथा चोक्तम्()--सिद्धमुपकारकं परार्थमङ्गम्(), साध्योऽनुपकारकस्त्वङ्गीति कृत्वा प्रधानम्()।
तत्र निवृत्तौ विधेयत्वात्? प्रधानभूतायामयमस्य सूत्रस्यार्थो जायते--"अभ्यासस्यानादेर्हलो निवृत्तिर्भवति" इति।
ततश्चासौ विधेयत्वात्? प्राधान्यमापन्ना सती किमित्यादेरविधेयामप्रधानभूतामनिवृत्तिमपेक्षिध्यते।
केन कारणेनापेक्षिष्यते? न केनचिदित्यर्थः। न हि प्रधानस्य गुणानुय#आयित्वं युक्तम्()। तस्मादसत्यपि हलादेरवस्थानेऽवादेर्लोपेन भवितव्यमिति भावः॥