पूर्वम्: ८।३।४३
अनन्तरम्: ८।३।४५
 
सूत्रम्
इसुसोः सामर्थ्ये॥ ८।३।४४
काशिका-वृत्तिः
इसुसोः सामर्थ्ये ८।३।४४

षः इति सम्बध्यते। इसुसित्येतयोः विसर्जनीयस्य अन्यतरस्यां षकारादेशो भवति सामर्थ्ये कुप्वोः परतः। सर्पिष्करोति, सर्पिः करोति यजुस्करोति, यजुः करोति। सामर्थ्ये इति किम्? तिष्ठतु सर्पिः, पिव त्वमुदकम्। सामर्थ्यम् इह व्यपेक्षा, न पुनरेकार्थीभावः, उभयं वा।
न्यासः
इसुसोः समर्थ्ये। , ८।३।४४

यदि "अचिंशुचिहुसृयिच्छादिच्छृदिभ्य इसिः" (द।उ।९-३०), "जनेरुसिः" (द।उ।९-३७) इत्यनुवत्र्तमाने "अतिं()तपृ()वपियजितनिधानितपिभ्यो नित्()" (द।उ।९।३९) इत्येषं सपिं#ः, यजुरादयः शब्दा इसुस्प्रत्ययान्ता व्युत्पाद्यन्ते--इति दर्शनम्(), ततश्च केनचिदप्राप्त एव षत्वे "कुप्वोः" ८।३।३७ इत्यादिना जिह्वामूलीयादिषु प्राप्तेष्विदं वचनम्()। अथ "अथादयोऽव्युत्पन्नानि प्रातिपदिकानि" (पु।प।वृ।७०) इति दर्शनम्()। ततोऽप्रात्ययविसर्जनीयत्वात्? "इदुदुपधस्य चाप्रत्ययस्य" ८।३।४१ इति नित्ये षत्वे प्राप्तेऽयमारम्भः। "सामर्थ्ये सति" इति। कुप्वोर्निमित्तत्वेनाश्रयणात्? तदादिनैव शब्दान्तरेण सह सामथ्र्यं वेदितव्यम्()। सर्पिष्करोतीत्यत्र सर्पिः साधनं करोतीत्येवं साध्यां क्रियामपेक्षते, करोतीत्यर्थोऽपि[करोत्यर्थोऽपि--करोत्यर्थोऽपि--प्रांउ।पाठः] साध्यः। साधनं सर्पिरित्यस्ति सामथ्र्यम्()। "तिष्टतु सर्पिः पिब त्वमुदकम्()" इति। अत्र सर्पिरित्यत्र पिबेत्यनेन सामथ्र्यं नास्ति। तथा हि--पिबेत्ये तदुदुकमपेक्षते, सर्पिरित्येतत्तु तिष्टत्विति। अथ परमसपिःकुण्डिकेत्यत्र विभाषया षत्वं समासे कस्मान्न भवति? इत्याह--"सामथ्र्यमिह" इत्यादि। दाशब्दोऽप्यर्थे वत्र्तते; अनेकार्थत्वादव्ययस्य। "न पुनः" इत्यस्यैकार्थीभाव इत्यनेन, उभय इत्येनेन च सम्बन्धः। अवधारणं चात्र द्रष्टव्यम्(); व्यवच्छेदफलकत्वात्? सर्ववाक्यानाम्()। तदयमत्रार्थः--सामथ्र्यमिह व्यपेक्षैवाश्रयते, उभयं तु कथं नाश्रयितुं युक्तम्(); न हि सामान्यशब्दाः प्रकरणादिकमन्तरेण विशेषेष्ववतिष्ठन्ते, न चेह प्रकरणादिकमस्ति तथाविधं किञ्चिद्येन व्यपेक्षालक्षणमेव सामथ्र्य ग्रहीतव्यम्()? नैषः दोषः; "कार्यकालं संज्ञापरिभाषम्()" (व्या।प।५८) इति, इह "पदस्य" इति वत्र्तते, तत्र पदाधिकारादेव समर्थपरिभाषाया उपस्थानात्? सामर्थ्ये लब्धे यतः सामथ्र्यग्रहणं क्रियगते तस्येदं प्रयोजनम्()--इष्टसामथ्र्यस्य परिग्रहो यथा स्यात्()। इह च व्यपेक्षालक्षणमेवेष्टं सामथ्र्यमिति तदेवाश्रयितुं युक्तम्(); नैकार्थीभावः, नाप्युभयमिति॥
तत्त्व-बोधिनी
इसुसोः सामर्थ्ये १२८, ८।३।४४

व्यपेक्षाविरहेऽपीति। "तिष्ठतु सर्पिष्कुण्डिकामानाये"त्यादावित्यर्थः।