इण्कोः इत्येतदधिकृतं वेदितव्यम्। इत उत्तरं यद् वक्ष्यामः, इणः कवर्गाच् च इत्येवं तद् वेदितव्यम्। वक्ष्यति आदेशप्रत्यययोः
८।३।५९। सिषेव। सुष्वाप। अग्निषु। वायुषु। कर्तृषु। हर्तृषु। गीर्षु। धूर्षु। वाक्षु। त्वक्षु।
इण्कोः इति किम्? दास्यति। असौ।
"इण्कोः" इति द्वन्द्वैकवद्भावं कृत्वैकवचनेन निर्देशः। नुमागमस्तु सत्यपि नपुंसकत्वे "अनित्यमागमशासनम्()" (व्या।प।९९) इति न क्रियते। इणिति परेण णकारेण प्रत्याहारग्रहणम्()। "कु" इति कवर्गस्य। कुतः पुतरेत दवसितम्()--अनयोग्र्रहणम्(),
न पुनरिकारककारोकाराणामिति? व्याख्यानात्()। सर्वसन्देहेष्विदमुपतिष्ठते--भवति हि व्याच्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणमिति (व्या।प।७५)। "वाक्षु, त्वक्षु" इति। "चोः कुः"
८।२।३० इति कुत्वम्()।
"दास्यति" इति। कथं पुनरिवं प्रत्युदाहरणमुपपद्यते, यावता "अणुदित्सवर्णस्य चाप्रत्ययः"
१।१।६८ इत्यत्र हकारेण गृह्रमाणेन आकारो गृह्रत इति; अस्ति ह्रकारस्य हकारेण सह सवर्णत्वम्(); तुल्यस्थानप्रयत्नत्वात्(); स्थानमस्ति ह्रनयोस्तुल्यमिति "अकुहविसर्जनीयाः कण्ठ्याः" इति। प्रयत्नोऽपि तुल्यः--विवृतं करणमूष्मणाअं स्वराणाञ्चेति;
तस्मात्? सत्यपीण्कोरिति प्राप्नोत्येव मूर्धन्यः; "नाज्झलौ"
१।१।६८ इत्यत्र हकारेण गृह्रमाणेन आकारो गृह्रत इति; अस्ति ह्रकारस्य हकारेण सह सवर्णत्वम्(); तुल्यस्थानप्रयत्नत्वात्(); स्थानमस्ति ह्रनयोस्तुल्यमिति "अकुहविसर्जनीयाः कण्ठ्याः" इति। प्रयत्नोऽपि तुल्यः--विवृतं करणमूष्मणां स्वराणाञ्चेत्();
तस्मात्? सत्यपीण्कोरिति प्राप्नोत्येव मूर्धन्यः; "नाज्झलौ"
१।१।१० इति सवर्णसंज्ञाप्रतिषेणादिति चेत्(); न;[अयं भागा कांउ।पाठे नास्ति] अगुहीतसवर्णानां प्रतिवेधात्()यं भागः कांउ।
पाठे नास्ति]? नैष दोषः; यदयं "वयस्यासु मूध्र्नो मतुप्()"
४।४।१२६ इतयत्राकारादुत्तरस्य सकारस्य मूर्घन्यमकृत्वा निर्देशं करोति, ततोऽवसीयते--मूध्र्नो मतुप्()"
४।४।१२६ इत्यत्राकारादुत्तरस्य सकारस्य मूर्धन्यमकृत्वा निर्देशं करोति, ततोऽवसीयते--हकारो गृह्रमाणो नाकारं ग्राहयति; अन्यथा "वयस्यासु" इति निर्देशं न कुर्यात्()। "असौ" इति। "तदोः सः सावनन्त्ययोः"
७।२।१०६ इति दकारस्य सकारः, "अदस औ सुलोपश्च"
७।२।१०७ इत्यौत्वं सुलोपश्च॥