न इति वर्तते। तवर्गस्य षकारे यदुक्तं तन् न भवति। अग्निचित्षण्डे। भवान्षण्डे। महान्षण्डे।
"अग्निचित्? षण्डे" इति। "अग्नौ चेः"
३।२।९१ इति क्विप्()। "सोमसुत्षण्डे" [नास्तीदमुदाहरणं--काशिका] इति। "सोमे सुञः"
३।२।९० इति क्विप्()।
अत्र "पि" इति सप्तमीनिर्देशात्? पूर्णभूतेन सन्निपातेन भवत्येव ष्टुत्वामिति--पेष्टा, पेष्टुमिति।