पूर्वम्: १।१।२२
अनन्तरम्: १।१।२४
 
प्रथमावृत्तिः

सूत्रम्॥ ष्णान्ता षट्॥ १।१।२३

पदच्छेदः॥ ष्णान्ता १।१ षट् १।१ २४ सङ्ख्या १।१ २२

समासः॥

षश्च नश्च ष्णौ, ष्णौ अन्ते यस्याः सा ष्णान्ता, द्वन्द्वगर्भो बहुव्रीहिः।

अर्थः॥

षकारान्ता नकारान्ता च या सङ्ख्या सा षट्संज्ञिका भवति।

उदाहरणम्॥

षकारान्ता - षट् तिष्ठन्ति, षट् पश्य। नकारान्ता - पञ्च सप्त नव दश॥
काशिका-वृत्तिः
ष्णान्ता षट् १।१।२४

स्त्रीलिङ्गनिर्देशात् सङ्ख्य इति सम्बध्यते। षकारान्ता नकारान्ता च या सङ्ख्या सा षट्संज्ञा भवति। षकारान्ता तावत्षट् तिष्ठन्ति। षट् प्श्ये। नकारान्तःपञ्च। सप्त। नव। दस। अन्तग्रहणम् औपदेशिकार्थम्। तेनैह न भवति शतानि, सहस्राणि। अष्टानाम् इत्यत्र नुड् भवति। षट्प्रदेशाःषड्भ्यो लुक् ७।१।२२ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
ष्णान्ता षट् २९९, १।१।२३

षान्ता नान्ता च संख्या षट्संज्ञा स्यात्। पञ्चन्शब्दो नित्यं बहुवचनान्तः। पञ्च। पञ्च। पञ्चभिः। पञ्चभ्यः। पञ्चभ्यःंउट्॥
न्यासः
ष्णान्ता षट्। , १।१।२३

"स्त्रीलिङ्ग निर्देशात्" इत्यादि। ष्णान्तेति स्त्रीलिङ्गनिर्देशः क्रियते, न चेह किञ्चित् स्त्रीलिङ्गं श्रूयते, नापि प्रकृतमन्यत् संख्यायाः। तस्मात् स्त्रीलिङ्गनिर्देशात् संख्यैव "ष्णान्ता" इत्यनेन विशेषणेन विशिष्यते। "षट्" इति चानया संज्ञया सम्बध्यते। यदि ष्णान्तेत्यत्र स्त्रीलिङ्गनिर्देशो न क्रियते, सर्वं ष्णान्तं शब्दरूपं षट्संज्ञं स्यात्। ततः "पामानः" विप्रुषः" इत्यादावपि "ष ड्भ्यो लुक्" ७।१।२२ इति लुक् प्रसज्येत। ननु च संख्येत्यनुवर्त्तिष्यते, तत् कुतोऽतिप्रसङ्गः? सत्यमेतत्; सैवानुवृत्तिः स्त्रीलिङ्गनिर्देशेन स्पष्टीक्रियते। यदि संख्येत्यनुवत्र्तते, सामथ्र्यादेव तदन्ता विज्ञास्यते, न हि षकारमात्रं वा नकारमात्रं वा संख्यास्ति, तदपार्थकमन्तग्रहणम्, नैतदस्ति; उपदेशावस्थायां या ष्णान्ता सा षट्()संज्ञा यथा स्यादित्येवमर्थत्वादन्तग्रहणस्य। असति तस्मिन् शतानि सहरुआआणीति नुमि कृते षट्संज्ञा स्यात्। इह च अष्टानाम्? इत्यष्टन आत्वे कृते षट्संज्ञा न स्यात्। ततश्च "षट्()चतुभ्र्यश्च" ७।१।५५ इति नुण् न भवति।
बाल-मनोरमा
ष्णान्ता षट् , १।१।२३

पञ्चन्शब्दो नित्यं बहुवचनान्तः। तस्य षट्संभाकार्यं लुकं विधास्यन् षट्संज्ञामाह--ष्णान्ता षट्। ष्च नश्च ष्णौ। ष्टुत्वेन णः। ष्णौ अन्तौ यस्याः सा ष्णान्ता। "बहुगणवतुडति सङ्ख्या" इत्यतः सङ्ख्येत्यनुवर्तते। तच्च पूर्वसूत्रे बहुगणवतुडतिपरमपि शब्दाधिकारादिह पञ्च षडित्यादिप्रसिद्धसङ्ख्याबोधकशब्दपरमाश्रीयते, बहुगणवतुडतिषु ष्णान्तत्वाऽसम्भवात्। तदाह--षान्तेत्यादिना। षड्भ्यो लुगिति। "अनेन जश्शसोर्लु"गिति शेषः। पञ्च पञ्चेति। जश्शसोर्लुकि नलोप इति भावः। सङ्ख्या किमिति। सङ्ख्याग्रहणानुवृत्तेः किं फलमिति प्रश्नः। विप्रुषः पामान इति विप्रुष्शब्दस्य पामन्शब्दस्य च ष्णान्तत्वेऽपि सङ्ख्यावाचकत्वाऽभावेन षट्संज्ञाविरहात्ततः परस्य जसो लुगिति भावः। ननु शतशब्दाज्जश्शसोः शिभावे "नपुंसकस्य झलचः" इति नुमि "सर्वनामस्थाने चे"ति दीर्घे शतानीति रूपम्। एवं सहरुआआणीत्यपि रूपम्। तत्र "अट्कुप्वाङि"ति णत्वं विशेषः। इह "तदागमाः" इति न्यायेन नुमोऽङ्गभक्तत्वाच्छतन्शब्दसहरुआन्शब्दयोर्नान्तसङ्ख्याशब्दत्वात् षट्संज्ञायां सत्यां "षड्भ्यो लु"गिति जश्शसोर्लुक् स्यादत आह--शतानीत्यादि। सर्वनामेति। सर्वनामस्थानं परत्वेन उपजीव्य प्रवृत्तस्य नुमः सन्निपातपरिभाषया सर्वनामस्थानभूतजश्शसोर्लुकं प्रति निमित्तत्वाऽभावादित्यर्थः। पञ्चभिः पञ्चभ्य इति। नलोपे रूपम्।

तत्त्व-बोधिनी
ष्णान्ता षट् ३३०, १।१।२३

ष्णान्ता षट्। स्त्रीलिङ्गनिर्देशः सङ्ख्यां विश्षयितुम्, तत्सामाथ्र्याच्च पूर्वत्र संज्ञापरमपि सङ्ख्याग्रहणमिह संज्ञिपरं संपद्यत इत्यदाशयेनाह--सङ्ख्येति। प्राचा तूपदेशकाले षान्ता नान्ता चेत्युक्तम्, तत् "पञ्चेत्यत्र नलोपे कृतेऽपी"त्यादिवक्ष्यमाणस्वग्रन्थविरुद्धम्। संप्रत्यनान्तत्वेऽप्युपदेशे नान्तत्वमासीदिति किमसिद्धत्वेनेति दिक्। संनिपातेति। तथा चोपदेशकाले इति व्याख्यानं निष्पलमपीति भावः। यत्त्वहुः--परिभाषाया अनित्यत्वाल्लक् स्यादिति, तत्साहसमात्रम्। इष्टस्थलेऽप्यप्रवृत्तौ परिभाषाया अकिञ्चित्करत्वापत्तेः। यदप्याहुः--"उपदेशग्रहणमिह कुतः समागत"मित्याशङ्क्य "ष्णान्ते"त्यन्तग्रहणसामथ्र्यादौपदेशिकत्वं लभ्यत इति। तदपि न। "सङ्क्ये"त्यस्याकर्षणेन संज्ञपरत्वसंपादनेन च सामर्थ्यो पक्षयात्।