पूर्वम्: १।१।२३
अनन्तरम्: १।१।२५
 
प्रथमावृत्तिः

सूत्रम्॥ डति च॥ १।१।२४

पदच्छेदः॥ डति १।१ षट् १।१ २३ सङ्ख्या १।१ २२

अर्थः॥

डति प्रत्ययान्ता सङ्ख्या षट्-संज्ञिका भवति।

उदाहरणम्॥

कति तिष्ठन्ति, कति पश्य॥
काशिका-वृत्तिः
डति च १।१।२५

डत्यन्ता या सङ्ख्या सा षट्संज्ञा भवति। कति तिष्ठन्ति। कति पश्य।
लघु-सिद्धान्त-कौमुदी
डति च १८७, १।१।२४

डत्यन्ता संख्या षट्संज्ञा स्यात्॥
न्यासः
डति च। , १।१।२४

"डत्यन्ता या संख्या सा षट्संज्ञा भवति" इति। संख्याग्रहणेनेहापि संख्यानुवत्र्तत इति दर्शयति। किमर्थं पुनः सेहानुवत्र्तते? पातेर्डतिः पतय इत्यत्र मा भूत्। अथ संख्यानुवृत्तावपि कस्मादेवात्र न भवति, यावतायमपि संख्यासंज्ञ एव, सामान्येन हि पूर्वं डतेः संख्यासंज्ञा विहिता? नैतदस्ति; वतुना साहचर्यात् तद्धितस्यैव डतेस्तत्र ग्रहणम्, न कृतः; कृच्चायम्।
बाल-मनोरमा
डति च २५७, १।१।२४

डति च। "डती"त्यविभक्तिको निर्देशः। प्रत्ययत्वात्तदन्तग्रहणम्। पूर्वसूत्रा "त्संख्ये"त्यनुवर्तते। "ष्णान्ता षट्" इत्यतः "ष"डिति च। तदाह--डत्यन्तेति। संक्येति किम्। पतिः। अथ षट्संज्ञाकार्यं लुकं वक्ष्यन्नाह-प्रत्ययस्य लुक्। "अदर्शनं लोप" इत्यतोऽदर्शनमित्यनुवर्तते। प्रत्ययस्याऽदर्शनं लुक्श्लुलुप्संज्ञकं स्यादित्यर्थः प्रतीयते। एवं सति एकस्यैव प्रत्ययाऽदर्शनस्य तिरुआओऽपि संज्ञाः स्युः। ततश्च "हन्ती"त्यत्र शब्लुकि "श्लौ" इति द्वित्वं स्यात्। "जुहोती"त्यत्र श्लौ सति "उतो वृद्धिर्लुकि हली"ति वृद्धिः स्यात्।

तत्त्व-बोधिनी
डति च २१८, १।१।२४

डति च। "ष्णान्ता ष"डित्यतः "ष"डित्यनुवर्तते। "सङ्ख्ये"ति पर्कृतं, "डती"त्यनेन विशेष्यते तदाह--डत्यन्ता सङ्ख्येति। सङ्ख्येति किम्? पतयः।