पूर्वम्: १।१।३४
अनन्तरम्: १।१।३६
 
प्रथमावृत्तिः

सूत्रम्॥ अन्तरं बहिर्योगोपसंव्यानयोः॥ १।१।३५

पदच्छेदः॥ अन्तरम् १।१ बहिर्योगोपसंव्यानयोः ७।२ विभाषा १।१ ३१ जसि ७।१ ३१ सर्वनामानि १।३ २६

समासः॥

बहिर्योगश्च उपसंव्यानं च, बहिर्योगोपसंव्याने, तयोः बहिर्योगोपसंव्यानयोः, इतरेतरद्वन्द्वः

अर्थः॥

बहिः इत्यनेन योगः, बहिर्योगः, संव्यानस्य समीपम् उपसंव्यानम्। बहिर्योगे, उपसंव्याने च गम्यमाने अन्तरशब्दस्य जसि विभाषा सर्वनामसंज्ञा भवति।

उदाहरणम्॥

बहिर्योगे - अन्तरे गृहाः, अन्तराः गृहाः। उपसंव्याने - अन्तरे शाटकाः, अन्तराः शाटकाः।
काशिका-वृत्तिः
अन्तरं बहिर्योगौपसंव्यानयोः १।१।३६

अत्र अपि पूर्वेण नित्या सर्वनामसंज्ञा प्राप्ता सा जसि विभाष्यते। अन्तरम् इत्येतच्छब्दरूपं विभाषा जसि सर्वनामसंज्ञं भवति बहिर्योगे उपसंव्याने च गम्यमाने। अन्तरे गृहाः, अन्तराः गृहाः। नगरबाह्याश्चाण्डालादिगृहा उच्यन्ते। उपस्ंव्यानेअन्तरे शाटकाः, अन्तराः शाटकाः। उपसंव्यानं परिधानीयम् उच्यते, न प्रावरणीयम्। बहिर्योगौपसंव्यानयोः इति किम्? अनयोः ग्रामयोरन्तरे तापसः प्रतिवसति। तस्मिन्नन्तरे शीतान्युदकानि। मध्यप्रदेशवचनो ऽन्तरशब्दः। गणसूत्रस्य चैदं प्रत्युदाहरणम्। अपुरि इति वक्तव्यम्। अन्तरायां पुरि वसति। विभाषाप्रकरणे तीयस्य वा ङित्सु सर्वनामसंज्ञा इत्युपसंख्यानम्। द्वितीयस्मै, द्वितीयाय। तृतीयस्मै, तृतीयाय।
न्यासः
अन्तरं बहिर्योगोपसंव्यानयोः। , १।१।३५

"बर्हिर्योगे" इति। बहिरित्यनेनानावृतदेश उच्यते। तेन योगो बर्हिर्योगः। स चानावृतस्य बाह्रस्य वस्तुनो भवति। "उपसंव्याने च" इति। उपसंवीयते परिधीयते यत् तदुपसंव्यानम्- "कृत्यल्युटो बहुलम्" ३।३।११३ इति कर्मणै ल्युट्। अथ वा, संवीयते पिधीयतेऽनेनेति संव्यानम्- "करणाधिकरणयोश्च" ३।३।११७ इति ल्युट्। संव्यानस्य समीपमुपसंख्यानम्। अबहिर्योगे सामथ्र्यात् तदेव वेदितव्यम्। "नगरबाह्राः" इति। अनेन बहिर्योगं दर्शयति- "परिधानीयमुच्यते" इति। उपसंव्यान्सयेदमुदाहरणमुपन्यस्तम्। वस्त्रान्तरावृतवस्तु वस्त्वन्तरेणापिहितमुच्यते। अविशेषाभिधानऽपि यद्वस्त्रान्तरेणावृतम्, सामथ्र्यात् तदेवोपसंव्यानमुच्यते, नेतरत्। "न प्रावरणीयम्" इति। प्राव्रियतेऽपिधीयते-नेनेति प्रावरणीयम्, तन्नभिधीयते। तदभिधाने तस्य बहिर्योगत्वात् बहिर्योग एवेदमुदाहरणं स्यादित्याभिप्रायः। "अन्तरे तापसः प्रतिवसति" इति। अत्र संज्ञाया अभावात् सप्तम्याः स्मिन्नादेशो न भवति। ननु च जसीत्यनुवत्र्ते, तत् कस्मात् सप्तम्यन्तं प्रत्युदाह्मतमित्यत आह-"गुणसूत्रस्य च" इत्यादि। "अपुरीति वक्तव्यम्" इति अनन्तरं "गणसूत्रस्य च" इत्यभिधानाद् गणसूत्रमेवैतद् वक्तव्यमिति गम्यते। यद्यपि गणसूत्रेऽन्तरशब्द पठ()ते,तथापि "प्रतिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्" (व्या।प।२९) इति प्राकाराद्ब-हिर्वर्त्तिनी या पूस्तस्या अपि बहिर्योगोऽस्तीति तत्र वत्र्तमानस्य टाबन्तस्याप्यन्तराशब्दस्य सर्वनामसंज्ञा प्राप्नोति, तेनापुरीति वक्तव्यम्। तेनान्तरायामित्यत्र स्याण् न भवति। "विभाषाप्रकरणे" इत्यादि। उपसंख्यानशब्दस्येह प्रतिपादनमर्थः। अस्मिन् विभाषाप्रकरणे तीयप्रत्ययान्तस्य सर्वनामसंज्ञायाः प्रतिपादनं कत्र्तव्यमि- त्यर्थः। तत्रेदं प्रतिपादनम् "विभाषा जसि" १।१।३१ इत्यत्र "विभाषा" इति योग- विभागः क्रियते, तत्र च "सर्वादीनि" "द्वन्द्वे" इति च निवृत्तम्, तेन तीयस्य विभाषा सर्वनामसंज्ञा भविष्यतीति। न चैवं सत्यतिप्रसङ्गः; योगविभागदिष्टसिद्धेः नापि "विभाषा द्वितीयतृतीयाभ्याम्" ७।३।११५ इत्यस्य वैयथ्र्यापत्तिः; प्रपञ्चार्तत्वात्। ततः "जसि" द्वितीयो योगः। अत्र विभाषाग्रहणम्, सर्वादिग्रहणम्, द्वन्द्व ग्रहणं चानुवत्र्तते।
बाल-मनोरमा
अन्तरं बहिर्योगोपसंव्यानयोः २१८, १।१।३५

अन्तरम्। अत्रापि "सर्वनामानी"ति "विभाषा जसी"ति चानुवर्तते। बहिः=अनावृतप्रदेशः, तेन योगः=सम्बन्धः यस्य स बहिर्योगः=बहिर्विद्यमानोऽर्थ इति यावत्। उपसंवीयते=परधीयते इति उपसंव्यानम्न्तरीयं वस्त्रम्। तदाह--बाह्रा इत्यादिना।

तत्त्व-बोधिनी
स्वमज्ञातिधनाख्यायाम् १८२, १।१।३५

स्वमज्ञाति। आत्माऽ‌ऽत्मीयज्ञातिधनवाची स्वशब्दः, तत्र ज्ञातिधनयोः पर्युदासादात्मात्मीयौ परिशिष्टावित्याशयेन व्याचष्टे--आत्मीया इत्यर्थः। आत्मान इति वेति। यत्वाहुः - आत्मनि स्वशब्दो नपुंसकः, ते "स्वे" "स्वा" इत्युदाहरणं तत्राऽयुक्तमिति। तद्रभसात्। "स्वो ज्ञातावात्मनि, स्वं त्रिष्वात्मीये, स्वोऽस्त्रियां धने" इत्यमरसिंहोक्तेरात्मन्यपि स्वशब्दस्य पुंस्त्वात्। न च "स्वौ ज्ञातौ" इत्यमरकोशे "आत्मनी"त्यस्य "स्व"मित्युत्तरेणान्वयादात्मवाची स्वशब्दो नपुंसक एवेति वाच्यम्, "स्वः स्य्तापुंस्यात्मनि ज्ञातौ त्रिष्वात्मीयेऽस्त्रियां धने" इति मेदिनीकोशविरोधेनात्मनीति पूर्वान्वयि, न तूत्तरान्वयीति व्याख्यातुमुचितत्वात्। किंच "विभाषा जसी"ति प्रकरणे "स्वमात्मीये" इत्येव वक्तव्ये गुरुनिर्देशं कुर्वन्सूत्रकारोऽप्यात्मवाचिस्वशब्दस्य पुंस्त्वे प्रमाणम्। तस्मात् "स्वे" "स्वा" इत्यस्य आत्मान इति विवरणं सम्यगेवेति स्थितम्। ज्ञातिधनवाचिनस्त्विति। ताच्छीस्येन णिनिना ज्ञातिधनयोरप्यात्मीयत्वं पुरस्कृत्य प्रवृत्तौ सर्वनामताऽस्त्येवेति ध्वनयति। एतदर्थमेव हि सूत्रे आख्याग्रहणं कृतम्। "स्वमात्मात्मीयाख्याया"मिति वक्तव्ये ज्ञातिधनयोः पर्युदासाश्रयणं मात्रालाघवाय। न च "स्वमात्मात्मीययोः" इत्युच्यमाने आख्याग्रहणं नापेक्षितिमिति वाच्यम्; वस्तुतस्तु आत्मीयस्यापि ज्ञातित्वेन धनत्वेन विवक्षायां सर्वनामता मा भू"दिति तस्यावश्यकत्वात्।

तत्त्व-बोधिनी
अन्तरं बहिर्योगोपसंव्यानयोः १८३, १।१।३५

अन्तरं बहिर्योगोपसंव्यानयोः। "बहि"रित्यनावृतो देशो, बाह्रं चोच्यते। तत्राद्यमर्थं गृहीत्वाह--बाह्रा इत्यर्थ इति। द्वितीये त्वाभ्यन्तरा इत्यर्थो बोध्यः। बाह्रेन ह्रभ्यन्तरस्य योगोऽस्ति। अर्थद्वयमप्याकरे स्थितम्। इदमेवार्थद्वयं मनसि निधाय "अन्तरायां पुरी"त्यत्र प्राकाराद्बाह्रायां तदन्तर्वर्तिन्यां वेति व्याख्यातम्। "उपसंव्यान" शब्दोऽपि करणव्युत्पत्त्या उत्तरीयपरः, कर्मव्युत्पत्त्यात्वन्तरीयपरः।