पूर्वम्: ३।३।११२
अनन्तरम्: ३।३।११४
 
सूत्रम्
कृत्यल्युटो बहुलम्॥ ३।३।११३
काशिका-वृत्तिः
कृत्यल्युटो बहुलम् ३।३।११३

भावे, अकर्तरि च कारके इति निवृतम्। कृत्यसंज्ञकाः प्रत्ययाः ल्युट् च भौलम् अर्थेषु भवन्ति। यत्र विहितास् ततो ऽन्यत्र अपि भवन्ति। भावकर्मणोः कृत्या विहिताः कारकान्तरे ऽपि भवन्ति। स्नानीयं चूर्णम्। दानीयो ब्राह्मणः। करणाधिकरणयोः भावे च ल्युट्। अन्यत्र अपि भवति। अपसेचनम्। अवस्रावणम्। राजभोजनाः शालयः। राजाच्छादनानि वासांसि। प्रस्कन्दनम्। प्रपतनम्। बहुलग्रहणादन्ये ऽपि कृतः यथाप्राप्तम् अभिधेयं व्यभिचरन्ति। पादाभ्यां ह्रियते पादहारकः। गले चोप्यते गलेचोपकः।
लघु-सिद्धान्त-कौमुदी
कृत्यल्युटो बहुलम् ७७५, ३।३।११३

क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव।विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति॥ १॥स्नात्यनेनेति स्नानीयं चूर्णम्। दीयतेऽस्मै दानीयो विप्रः॥
न्यासः
कृत्युल्युटो बहुलम्। , ३।३।११३

"यत्र विहितास्ततोऽन्यत्रापि भवन्ति" इति। यद्येवम्(), "तयोरेव कृत्यक्तखलर्थाः" (३।४।७०) इत्येवमादेरर्थनिर्देशस्यानर्थकत्वं जायते? नैतदस्ति; योगतो हि कृत्यादयो भावादिष्वर्थेष्विष्यन्ते, कारकान्तरे त्वल्पः। सा च तथा तेषां वृत्तिरनर्थनिर्देशे सति सिध्यतीति कुतस्तस्यानर्थक्यम् ! "स्नानीयम्" इति। करणे कृत्यः। "दानीयः"इति। दीयते तस्मै इति सम्प्रदाने। "अपसेचनम्" इति। अपसिच्यते तदिति कर्मणि ल्युट्। "अवरुआआवणम्" इति। "अवरुआआव्यते तदिति "सृ गतौ" (धा।पा।९३५) इत्यस्माण्ण्यन्तात् कर्मणि ल्युट्। भुज्यतैति "भोजनाः"। आच्छाद्यन्त इति "आच्छादनानि"। कर्मण्येव ल्युट्। राज्ञो भोजना राज्ञ आच्छादनानीति षष्ठीसमासः। "प्रस्कन्दनम्, प्रपतनम्िति। प्रस्कन्दति, प्रपतत्यस्मादित्यपादाने ल्युट्। अथ बहुलग्रहणं किमर्थम्? यावता सूत्रारम्भसामथ्र्यादेव कृत्युल्युटो यत्र विहिता स्ततोऽन्यत्रापि प्रायेण भवन्तीत्येषोऽर्थो विज्ञायत एवेत्यत आह-- "बहुलग्रहणात्" इत्यादि। एतेनान्येऽपि कृतो यत्र विहितास्ततोऽन्यत्राप्यभिधेय इष्यन्ते, तच्च बहुलग्रहणात् सिध्यति। अतो बहुलग्रहणं कृतमिति सूचयति। "पादहारकः"इति। कत्र्तरि ण्वुल् विहितो बहुलग्रहणादिह कर्मणि भवति॥
बाल-मनोरमा
कृत्यल्युटो बहुलम् ६६२, ३।३।११३

कृत्यल्युटो। याभ्यः प्रृतिभ्यो येष्वर्थेषु विहितास्ततोऽन्यत्रापि स्युरित्यर्थः।स्नानीयमिति। करणे अनीयर्। दानीय इति। संप्रदाने अनीयर्। भाष्ये तु "कृतो बहुलमिति वक्तव्य"मित्युक्त्वा पादाभ्यां ह्यियते पादहारकः। कर्मणि ण्वुल्। ()आओऽग्नीनाधास्यमानेन। अनद्यतने भविष्यति लृडित्युदाह्मतम्।