अव्ययीभावसमासो ऽव्ययसंज्ञो भवति।
किं प्रयोजनम्? लुङ्मुखस्वरौपचाराः। लुक् उपाग्नि, प्रत्यग्नि शलभाः पतन्ति। मुखस्वरः उपाग्निमुखः, प्रत्यग्निमुखः। मुखं स्वाङ्गम्
६।२।१६६ इत्युत्तरपदान्तौदात्तत्वं प्राप्तम्, नाव्ययदिक्शब्द
६।२।१६७ इति प्रतिषिध्यते। तस्मिन् प्रतिषिद्धे पूर्वपदप्रकृतिस्वर एव भवति। उपचारः उपपयःकारः, उपपयःकामः। विसर्जनीयस्थानिकस्य सकारस्य उपचारः इति संज्ञा। तत्र अव्ययीभावस्य अव्ययत्वे अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य
८।३।४६ इति पर्युदासः सिद्धो भवति। सर्वम् इदं काण्डं स्वरादावपि पठ्यते। पुनर् वचनम् अनित्यत्वज्ञापनार्थम्। तेन अयं कार्यनियमः सिद्धो भवति। इह च पुरा सूर्यस्योदेतोराधेयः, पुरा क्रूरस्य विसृपो विरप्शिनिति न लौउकाव्ययनिष्ठाखलर्थतृनाम्
२।३।६९ इति षष्ठीप्रतिषेधो न भवति।
"उपाग्नि" इति। "अव्ययं विभक्ति"
२।१।६ इत्यादिना सामीप्येऽव्ययीभावः।
"अव्ययात्"
२।४।८२ इत लुक्। अग्नेः समीपे उपाग्नीति। उपाग्नि मुखं यस्येत्यव्ययी-भावगर्भो बहुव्रीहिः।तत्र "मुखं स्वाङ्गम्"
६।२।१६६ इत्युत्तरपदान्तोदात्तत्वे
प्राप्ते"नाव्यय"
६।२।१६७ इति प्रतिषिद्धम्। "तस्मिन् प्रतिषिद्धे पूर्वपदप्रकृतिस्वरः" इति। "बहुव्रीहौ प्रकृत्या"
६।२।१ इत्यादिना तत् पुनरन्तोदात्तत्वम्ुपाग्निशब्दस्य समासस्वरेणान्तोदात्तत्वात्। "उपपयःकारः"इति। "कर्मण्यण्"
३।२।१ एवम्,
"उपपयः कामः" इत्यत्रापि। उपपयः कामो यस्येति बहुव्रीहिर्वायम्। काम्यत इति कामः, "अकत्र्तरि च कारके संज्ञायाम्"
३।३।१९ इति कर्मण्यपि घञ्। "अनव्ययस्य" (वा।९३९) इति सत्त्वे प्रतिषिद्धे "कुप्वो क पौ च"
८।३।३७ जिह्वामूलीयो भवति, विसर्जनीयो वा। अत्र मुखस्वरोपचारौ निर्वत्र्यमानौ प्रयोजनम्, न तु विधीयमानौ; लुक् पुनर्विधीयमानः। ननु चावययनिबन्धनमकजादिकार्यमस्त्येव,तत् कुतोऽयं कार्यनियमो लभ्यत इत्याह-
"सर्वम्" इत्यादि। "इदम्" इति। "तद्धितश्चासर्वविभक्तिः"
१।१।३७इत्यादिकम्।
किञ्चित् स्वरूपेणैव पठ()ते, कस्यचित् पर्यायान्तरेणार्थः। स त्वभिधेयधर्मेणोपचारा-दित्युच्यते। तत्र "कृम्भकारसन्ध्यरान्तः" इति "कृन्मेजन्तः"
१।१।३८ इत्यस्यार्थःपठ()ते। क्त्वातोसुन्कसुनोऽव्ययीभावश्चेति स्वरूपेणैव। तसिलादिस्तद्धित एधाच्पर्य-
न्त इति यावत्। च्व्यर्थाश्चेति। असिमौणादिकं वर्जयित्वा। तद्धितश्चासर्वविभक्तिरि-
त्यस्यार्थः। "अनित्यत्वज्ञापनार्थम्" इति। प्रकृतत्वात् "संज्ञायाः" इति लभ्यते।
तेनाकजादौ कत्र्तव्ये संज्ञा न भवतीति। अज्ञाताद्यर्थविवक्षायामुपाग्निकमित्यत्रा-
कज् न भवति, क एव तु भवति। इह च उपकुम्भमात्मानं मन्यत उपकुम्भम्मन्यः,
"आत्ममाने खश्च"
३।२।८३ इत खशि कृते "खित्यनव्ययस्य"
६।३।६५
इत्यनुवत्र्तमाने "अरुर्द्विषदजन्तस्य मुम्"
६।३।६६ इति मुमः प्रतिषेधो न भवति।
"इह च" इत्यादिना "अव्ययप्रतिषेधे तोसुन्कसुनोरप्रतिषेधः" इति यद्वक्ष्यति तस्यात्रावक्तव्यतां दर्शयति। सूर्यस्येत्यत्र "कर्तृकर्मणोः कृति"
२।३।६५ इति षष्ठी॥
अव्ययीभावश्च। अव्ययसंज्ञः स्यात्। इह "लुकि मुखस्वरोपचारयोर्निवृत्तौचे"ति परिगणनं कर्तव्यम्। लुक्युदाहरमम्---उपग्नि। "अव्यया"दिति सुपो लिक्। मुखस्वरनिवृत्तौ उदाहरणम्---उपग्निमुखः। प्रत्यग्निमुखः। "मुखं स्वाङ्ग"मित्युत्तरपदान्तोदात्तत्वे प्राप्ते "नाव्ययदिक्शब्दे"त्यदिना प्रतिषेधः। तथाच "बहुव्रीहौ प्रकृत्ये"ति पूर्वशब्दप्रकृतिस्वर एव भवति, पूर्वपदं च समासस्वरेणाऽन्तोदात्तम्। विसर्गस्थानिकस्य सकारस्य "उपचार"इति प्राचां संज्ञा, तन्निवृत्तावुदाहरणम्---उपपयःकारः।उपपयःकामः। इह "अतः कृकमी"ति प्राप्तं सत्वम् "अनव्ययस्ये"ति पर्युदस्यते। परिगणनं किम्()। उपागन्धीयान। इह "सुबामन्त्रिते"इति पराङ्गवद्भावेन याने"त्यादौ मा भूदिति। तथा "उपाग्निक"मित्यादौ अव्ययसर्वनाम्ना"मित्यकच्[च]न। उपकुम्भंमन्यः। "खित्यनव्ययस्ये"ति वर्तमाने "अरुर्द्विषदजन्तस्येति विहितो यो मुस्तस्येह प्रतिषेधो न। उपकुम्भीभूतः। इह "अस्य च्वौ" इतीत्त्वस्य"प्रतिषेधो न। ईस्वविधौ हि "अव्ययस्य च्वावितीत्वं ने"ति प्रतिषे उच्यते, दोषाभूतमाहः दिवाभूता रात्रिरित्यत्र मा भूदिति। स्यादेतत्--स्वारादित्वेनैव सिद्धत्वात्। "तद्धितश्चे"त्यादि चतुःसूत्री व्यर्था। तत्र हि "तसिलादिस्तद्धित एदाच्पर्यन्तः"इत्यादिना "च्व्यर्थाश्चे"त्यन्तेनाऽऽसिप्रत्ययमौणादिकं वर्जयित्वा "तद्धितश्चासर्वविभक्तिः" इत्यस्याऽर्थः सङ्गृह्रते। "कृन्मकारसन्ध्यक्षरान्तः"इत्यनेन "कृन्मेजन्तः"इत्यस्यार्थः सङ्गृह्रते। "त्त्कातोसुन्कसुनः""अव्ययीभावश्चे"ति सूत्रद्वयं तु स्वरूपेणैव पट()त इति। अत्राहुः--पुनर्वचनमनित्यत्वज्ञापनार्थम्। तेन प्रागुक्तं "लुङ्मुखस्वरोपचाराः"इति परिगणनं लभ्यते। "पुरा सूर्यस्()योदेतोराधेयः"। "पुरा क्रूरस्य विसृपो विरप्श"न्नित्यासिद्धये "न लोकाव्यये"त्यत्र "अव्ययप्रतिषेधे तोसुन्कसुनोरप्रितषेधः"इति वक्ष्यते तदप्यनेनैव लभ्यत इति।