पूर्वम्: १।१।५०
अनन्तरम्: १।१।५२
 
प्रथमावृत्तिः

सूत्रम्॥ अलोऽन्त्यस्य॥ १।१।५१

पदच्छेदः॥ अलः ६।१ ५३ अन्त्यस्य ६।१ ५२ षष्ठी १।१ ४८

अर्थः॥

षष्ठीनिर्दिष्टः आदेशः अन्त्यस्य अलः स्थाने भवति।

उदाहरणम्॥

द्यौः। सः। पञ्चगोणिः।
काशिका-वृत्तिः
अलो ऽन्त्यस्य १।१।५२

षष्ठीनिर्दिष्टस्य य उच्यते आदेशः, सो ऽन्त्यस्य अलः स्थाने वेदितव्यः। इद् गोण्याः १।२।५० पञ्चगोणिः। दशगोणिः।
लघु-सिद्धान्त-कौमुदी
अलोऽन्त्यस्य २१, १।१।५१

षष्ठीनिर्दिष्टाऽन्त्यस्याल आदेशः स्यात्। इति यलोपे प्राप्ते - (यणः प्रतिषेधो वाच्यः)। सुद्ध्युपास्यः। मद्धरिः। धात्रशः। लाकृतिः॥
न्यासः
अलोऽन्त्यस्य। , १।१।५१

अल्ग्रहणमन्त्यस्य विशेषणम्, नादेशस्य; अन्यथा ह्रलन्त्यस्येत्येवं ब्राऊयात्। आदेशः पुनरत्रैकाल्लभ्यते। अन्यस्य "अनेकाल्शित् सर्वस्य" १।१।५४ इति सर्वादेशतां वक्ष्यति। "षष्ठीनिर्दिष्टस्य" इति। सामान्यवचनेऽपि "षष्ठी स्थानेयोगा" (१।१४९) इत्यधिकारात् स्थानषष्ठ()आ निर्दिष्टस्येति वेदितव्यम्; अन्यथा टित्किन्मितोऽप्यवयवसम्बन्धषष्ठीनिर्दिष्टा विधीयमाना अन्त्यस्य स्युः। "इद् गोण्याः" १।२।५० इति। येयं षष्ठी सान्त्यमलं नीयते- अन्त्यस्याल इत्त्वमिति। "पञ्चगोणिः" इति। पञ्चभिर्गोणीभिः क्रीत इति "तद्धितार्थोत्तरपदसमाहारे च" २।१।५० इति समासः। "तेन क्रीतम्" ५।१।३६ इति "प्राग्वहतेष्ठक्" ४।४।१ "अध्यर्धपूर्वद्विगोर्लुगसंज्ञा-याम्" ५।१।२८ इति तस्य लुक्। यद्यलोऽन्त्यस्य षष्ठीनिर्दिष्टस्यादेशो भवति," इदोऽय् पुंसि" ७।२।१११ इत्यतः "इदः" इत्यनुवृत्तेः "हलि लोपः"७।२।११३ विधीयमान इद्रूपस्य योऽन्त्यस्तस्य स्यात्। तथा च - आभ्यामिति न सिध्येत्, नैष दोषः; "नानार्थकेऽलोऽन्त्यविधिरनभ्यासविकारेषु" (व्या।प।६२) इति परिभाषया न भविष्यति॥
बाल-मनोरमा
अलोऽन्त्यस्य ४४, १।१।५१

अलोऽन्त्यस्य। "अ"लिति प्रत्याहारो वर्णपर्यायः। "अल" इति षष्ठ()न्तम्। "षष्ठी स्थानेयोगा" इत्यतः "षष्ठी स्थाने इत्यनुवर्तते। तच्च षष्ठीति प्रथमान्तं तृतीयान्ततया विपरिणम्यते। "निर्दिष्टस्ये"ति शेषः। "स्थाने" इत्यनन्तरं "विधीयमान" इति शेषः। स्थाने विधीयमान आदेशः षष्ठीनिर्दिष्टस्य योऽन्त्योऽल् तस्य स्यादित्यर्थः। तदाह--षष्ठीत्यादिना। "त्यदादीनामः"-यः सः। आदेश इति किम्?, "आर्धधातुकस्येट्" तृच ऋकारात् पूर्वो मा भूत्। अल इति किम्?। पदस्येत्यधिकृत्य विधीयमानं वसुरुआंस्विति दत्वं परमानडुभ्द्यामित्यत्राऽन्त्यस्य कृत्स्नस्य पदस्य मा भूत्।

तत्त्व-बोधिनी
अलोऽन्त्यस्य ३८, १।१।५१

अलोऽन्त्यस्य। स्थानषष्ठीनिर्दिष्टस्य य उच्यते सोऽन्त्यस्यालः स्थाने स्यादित्यर्थः। "त्यदादीनामः"। सः, यः। स्थानषष्ठीति किम्?, "आर्धधातुकस्यैट्" तृच् ऋकारात्पूर्वो मा भूत्। इदं च "षष्ठी स्थाने" इत्यनुवृत्त्या लभ्यते। अल इति किम्?, "पदस्ये"त्यधिकृत्य विधीयमानं "वसुरुआंसु" इति दत्वं परमानडुद्भयामित्यादावन्त्यस्य पदस्य मा भूत्।