पूर्वम्: १।२।३६
अनन्तरम्: १।२।३८
 
प्रथमावृत्तिः

सूत्रम्॥ न सुब्रह्मण्यायां स्वरितस्य तूदात्तः॥ १।२।३७

पदच्छेदः॥ सुब्रह्मण्यायाम् ७।१ स्वरितस्य ६।१ ३८ तु उदात्तः १।१

काशिका-वृत्तिः
न सुब्रह्मण्यायां स्वरितस्य तु उदात्तः १।२।३७

सुब्रह्मण्या नाम निगदस् तत्र यज्ञकर्मणि इति विभाषा छन्दसि १।२।३६ इति च एकश्रुतिः प्राप्ता प्रतिषिद्यते। सुब्रह्मण्यायाम् एकश्रुतिर् न भवति। यस् तु लक्षणप्राप्तः स्वरितस् तस्यौदात्त आदेशो भवति। सुब्रह्मन्योम्। इन्द्रागच्छ, हरिव आगच्छ, मेधातिथेर्मेष वृषणश्वस्य मेने। गौरावस्कन्दिन्नहल्यायै जार कौशिकब्राह्मण गौतमब्रुवाण श्वः सुत्यामागच्छ मघवन्। अत्र सुब्रह्मण्योम् इत्योकारस् तित्स्वरेण स्वरितस् तस्यौदात्तो विधीयते। इन्द्र आगच्छ इत्यामन्त्रितम् आद्युदत्तम्। द्वितीयो वर्णो ऽनुदात्तः। उदात्तादनुदातस्य स्वरितः इति स्वरितः प्रसक्तस् तस्य अनेनौदात्तः त्रियते। तदेवम् इन्द्र आगच्छ इति चत्वार उदात्ताः। पश्चिम एको ऽनुदात्तः। हरिव आगच्छ इत्यनयैव प्रक्रियया चत्वार उदात्ताः द्वावनुदात्तौ। मेधातिथेः इति षष्ट्यन्तं परमामन्त्रितम् अनुप्रविशति सुबामन्त्रिते पराङ्गवत्स्वरे २।१।२ इति। ततः सकलस्या मन्त्रिताद्युदात्तत्वे इऋते द्वितीयम् अक्षरम् अनुदात्तं, तस्य उदात्तादनुदात्तस्य स्वरितः ८।४।६५ इति स्वरितत्वे प्राप्ते इदमुदात्तत्वं विधीयते। तेन द्वावप्युदात्तौ भवतः। शेषमनुदात्तम्। वृषणश्वस्य मेने इति समानं पूर्वेण। गौरावस्कन्दिनिति तथैव द्वे आद्ये अक्षरे उदात्ते, शेषम् अनुदात्तम्। अहल्यायै जार इति सुबन्तस्य अमन्त्रितानुप्रवेशात् तद्वदेव स्वरः। द्वावुदात्तौ शेषम् अनुदात्तम्। कौशिकब्रह्मण इति समस्तमामन्त्रितमाद्युदात्तं तत्र पूर्ववद् द्वावुदात्तौ शेषम् अनुदात्तम्। एवम् गौतमब्रुवाण इति द्वावुदात्तौ शेषम् अनुदात्ताम्। श्वः सुत्यामागच्छ मघवनिति श्वःशब्द उदात्तः सुत्याम् इत्यन्तोदात्तः। संज्ञायां समजनिषदनिपतमनविदषुञ् शीङ्भृञिणः ३।३।९९ इति क्यपो विधाने उदात्तः इति वर्तते। अगच्छ इति द्वौदात्तौ। अन्त्यो ऽनुदत्तः। मघवनिति पदात् परमामन्त्रितं निहन्यते।
न्यासः
न सुब्राहृण्ययां स्वरितस्य तूदात्तः। , १।२।३७

"सुब्राहृण्या नाम निगदः" इति। अपादबन्धे गदतिर्वर्तते। अपादबन्धं हि गद्यमुच्यते। निशब्दः प्रकर्षे। यदुच्चैरविच्छिन्नमपादबन्धं मन्त्रवाक्यं निगद इति तस्य व्यपदेशः। तस्य च सुब्राहृण्योपलक्षमत्वात्, "सुब्राहृण्या" इति स्त्रीलिङ्गनिर्देशः। "सुब्राहृण्योम्" इति। सुब्राहृणि साधुः।"तत्र साधुः" ४।४।९८ इति यत्। "तत् स्वरितम्" ६।१।१७९ इति स्वरितत्वम्, "प्रणवष्टेः" ८।२।८९ इत्योङ्कार आदेश इति केचित्, तदयुक्तम्; "पादस्य वाद्र्धर्चस्य वान्त्यमक्षरमुपसंह्मत्य तदाद्यक्षरशेषस्य स्थाने? त्रिमात्रमोकारमोङ्कारं वा विदधति तं प्रणवमित्याचक्षते" इति {काशिका-८।२।८९}वक्ष्यति। न च निगदे पादव्यवस्था, नाप्यद्र्धर्चव्यवस्था। तस्मादोशब्दोऽस्ति निपातोऽनर्थकः। तस्य स्वरितेन सहैकादेशः स्वरितः। "आमन्त्रितमाद्युदात्तम्" इति। "आमन्त्रितस्य च" ६।१।१९२ इत्यनेन षाष्ठिकेन। "त्सयानेनोदात्तः क्रियते" इति। ननु चासिद्धोऽसौ स्वरितः; वचनात् तस्यासिद्धत्वं न भवति। ननु च वचनस्य सुब्राहृण्योमिति प्रयोजनं वक्तुं शक्यम्? न हि समस्ते निगदे सुब्राहृण्याशब्दनोपलक्षिते सतीदमेकमुदाहरणं युक्तम्। "अकार उदात्तः" इति। निपातस्वरेण। "ततः परोऽनुदात्तः स्वरितः" इति। "तिङङतिङ" ८।१।२८ इति निघाते कृते, "उदात्तादनुदात्तस्य स्वरितः" ८।४।६५ इत्यनेन। "पश्चिम एकः" इति। छकाराकारः। "चत्वार उदात्ताः" इति। वकारच्छाकाराभ्यामन्ये। "द्वावनुदात्तौ" इति। वकारच्छकारौ। "द्वितीयमक्षरम्" इति। मेधाशब्दाकारः। "शेषमनुदात्तम्" इति। मेधाशब्दे यावचौ ताभ्यामन्यत्। "पूर्वेण" इति। मेधातिथेर्मेषेत्यनेन। "तथैव द्वे आद्ये अक्षरे उदात्ते" इति। "यदि गौरावस्कन्दिन्" इति समस्तमामन्त्रितमाद्युदात्तमिति। अथापि गौरेति शब्दान्तरमामनन्ति, तथापि तस्यापि प्रवेशे कृते सकलस्यामन्त्रितस्याद्युदात्तत्वे "उदात्तादनुदात्तस्य" ८।४।६५ इत्यादिना पूर्वोक्तेन विधिना द्वे उदात्ते भवतः। "अहल्यायै जार" इति। षष्ठ()र्थे चतुर्थी, "बहुलं छन्दसि" २।३।६२ इत्यत्र "षष्ठ()र्थे चतुर्थी वक्व्या" (वा।१४२) इत्युपसङ्ख्यानात्; "व्यत्ययो बहुलम्" ३।१।८५ इति व्यत्ययेन वा। "समस्तमामन्त्रितमाद्युदात्तम्" इति। कौशिकशब्दस्य परामन्त्रितानुप्रवेशात्। "एवं गौतमब्राउवाण" इति। एतदपि कौशिकब्राआहृणेत्यनेन तुल्यमित्यर्थः। "द्वावुदात्तौ" इति। अनन्तरयोरुदाहरणयोः प्रत्येकमाद्यवित्यर्थः। "()आः शपब्द उदात्तः" इति। प्रातिपदिकस्वरेण। "उदात्त इति वर्तते" इति। "मन्त्रे वृष" ३।३।९६ इत्यादेः सूत्रात्। "द्वावुदात्तौ" इति। तौ पुनरादी आगच्छेत्यत्र दर्शितौ। "पदात् परमामन्त्रितं निहन्यते" इति। "आमन्त्रितस्य च" ८।१।१९ इत्यनेन।