पूर्वम्: ६।१।१९१
अनन्तरम्: ६।१।१९३
 
सूत्रम्
आमन्त्रितस्य च॥ ६।१।१९२
काशिका-वृत्तिः
आमन्त्रितस्य च ६।१।१९८

आमन्त्रितस्य आदिरुदात्तो भवति। देवदत्त, देवदत्तौ, देवदत्ताः। अत्र कारकाद् दत्तश्रुतयोरेव आशिषि ६।२।१४७। इति प्राप्तिर् बाध्यते। लुमता ऽपि लुप्ते प्रत्ययलक्षणम् अत्र इष्यते, सर्पिरागच्छ, सप्तागच्छ इति।
न्यासः
आमन्त्रितस्य च। , ६।१।१९२

"देवदत्त्" इति। ददातेः "क्तिच्क्तौ च संज्ञायाम्()" ३।३।१७४ इत्याशिवि क्तः, "वो वद्? घोः" ७।४।४६ इति धातोर्ददादेशः। दत्तशब्दस्य देवशब्देन "कर्त्तृकरणे कृता बहुलम्()" २।१।३१ इति समासः। "सपिरागच्छ" इति। "स्वमोर्नपुंसकात्()" ७।१।२३ इति विभक्तेर्लुक्()। "सप्तागच्छत" इति। अत्रापि "षङ्भ्यो लुक्()" ७।१।२२ इति च॥