पूर्वम्: १।४।५५
अनन्तरम्: १।४।५७
 
प्रथमावृत्तिः

सूत्रम्॥ प्राग्रीश्वरान्निपाताः॥ १।४।५६

पदच्छेदः॥ प्राक् रीश्वरात् ५।१ निपाताः १।३ ९७

अर्थः॥

{अधिरीश्वरे (१।४।९६)} इत्येतस्मात् प्राक् निपातसंज्ञाः भवन्ति, इति अधिकारः वेदितव्यः॥
च, वा, ह, अह इत्यादयः {चादयोऽसत्त्वे (१।४।५७)} इत्यस्मात् निपातसंज्ञा भूत्वा, {स्वरादिनिपातम् अव्ययम् (१।१।३६)} इत्यस्मात् अव्ययसंज्ञा भवति। ततः {अव्ययादाप्सुपः (२।४।८२)} इत्यस्मात् सुप् इत्यस्य लोक् (लोपः) भवति। तथा यत्र यत्र निपातसंज्ञा।

उदाहरणम्॥

च, वा, ह, अह॥
काशिका-वृत्तिः
प्राग्रीश्वरान् निपाताः १।४।५६

अधिरीश्वरे १।४।९६ इति वक्ष्यति। प्रागेतस्मादवधेर्यानित ऊर्ध्वम् अनुक्रमिष्यामः, निपातसंज्ञास्ते वेदितव्याः। वक्ष्यति चादयो ऽसत्त्वे १।४।५७, च, वा, ह, अह। प्राग्वचनं संज्ञासमावेशार्थम्। गत्युपसर्गकर्मप्रवचनीय। संज्ञाभिः सह निपातसंज्ञा समाविशति। रेफोच्चारणम् इश्वरे तोसुन्कसुनौ ३।४।१३ इत्ययम् अवधिर्मा विज्ञायि इति। रीश्वराद्वीश्वरान् मा भूत् कृन्मेजन्तः परो ऽपि सः। समासेष्वव्ययीभावो लौकिकम् च अतिवर्तते।
न्यासः
प्राग्री�आरान्निपाताः। , १।४।५६

च,वा,ह, अह इत्यत्र निपातसंज्ञायां सत्याम् "स्वरादिनिपातमव्ययम्" १।१।३६ इत्यव्ययसंज्ञा भवति। "निपाता आद्युदात्ता भवन्ति" (फि।सू।४।८०) इत्याद्युदात्तत्वञ्च। अथ किमर्थं प्राग्ग्रहणम्? यावता पञ्चम्युच्चारणसामथ्र्यादेव प्रागित्यस्य दिक्छब्दस्याध्याहारो भविष्यति। न च "पराम्" इत्ययमपि दिक्छब्दोऽस्ति। अतो नाध्याहार आशङ्कनीयः। तदध्याहारे हि "चादयोऽसत्त्वे" १।४।५७ इत्येवमादयो योगा निपातसंज्ञासम्बन्धाभावादसम्बद्धाः स्युः। तस्मात् प्रागित्येतदेवाध्याहरिष्यते। तत् किं प्रागवचनेन? इत्याह-- "प्राग्वचनम्" इत्यादि। एका संज्ञेत्यनुवत्र्तते। निपातसंज्ञा चादिषु प्रादिषु वा क्रियायोगे चरितार्था। तत्रासति प्राग्वचने निपातसंज्ञाया उपसर्गादिसंज्ञाभिरनवकाशाभिर्बाध्यमानत्वात् ताभि) सह तस्याः समावेशो न स्यात्। इष्यते चात्र, तदर्थं प्राग्वचनम्, तस्मिन् सत्येवं सम्बन्धः क्रियते-- री()आरात यावन्तः प्राग्व्यवस्थितास्ते सर्वे निपातसंज्ञका भवन्ति, निपाताश्च सन्त उपसर्गादिसंज्ञका इति। तेन निमित्तमेव निपातसंज्ञोपसर्गसंज्ञानां भवति। न च निमित्तिना निमित्तं व्याहन्यते, अन्यथा हि तस्य निमितत्वमेव न स्यात्। अध्याह#ऋते तु प्राक्शब्दे री()आराद्ये प्राग्व्यवस्थितास्ते सर्वे निपातसंज्ञका भवन्तीत्येषोऽर्थोऽभिमतः स्यात्, न तु निपाताः सन्त उपसर्गादिसंज्ञका इत्येषोऽप्यर्थो लभ्यते। सूत्रोपात्तो तु प्राक्()शब्द एषोऽर्थो लभ्यत एव; अन्यथा तस्य वैयथ्र्यं स्यात्। अथ किमर्थं रेफादिक ई()आरशब्दो गृह्रते-- प्राग्री()आरादिति, न च प्राग्री()आरादित्येवोच्येत, प्रत्यासत्तेरनन्तर एव ही()आरशब्दो ग्रहीष्यत इत्यत आह-- "री()आराद्वी()आरात्मा भूत" इति। रेफसहित ई()आरो री()आरः। शाकपार्थिवादित्वान्मयूरव्यंसकादित्वाद्वा समासः। री()आरादित्युच्यमाने वी()आरान्मा भूत्, "अधिरी()आरे" १।४।९६ इत्यस्यैवे()आरशब्दस्य ग्रहणं यथा स्यात्। "ई()आरे तोतुन्कसुनौ" ३।४।१३ इत्यत्र यो वी()आरशब्दस्तस्य ग्रहणं मा भूत्। यस्य ग्रहणे बहूनां संज्ञा भवत्यतो व्याप्तेन्र्यायादस्यैव ग्रहणं स्यात। ननु च वकारस्तत्र नास्त्येव, तत् किमुच्यते वी()आरान्मा भूदिति? एवं मन्यते-- यदा सूत्राणि संहितया पठ()न्ते-- "शकि णमुल्कमुलावी()आरेतोसुन्कसुनौ" (३।४।१२,१३) इति तदा लौशब्दस्य ग्रहणे न प्रयोजकम्। यद्यपि परस्ये()आरशब्दस्य ग्रहणे तन्निबन्धना व्याप्तिरस्ति, तथाप्यनन्तरस्यैवे()आरशब्दस्य ग्रहणं भविष्यति, न परस्य; कथम्? ज्ञापकात्; यदयं "कन्मेजन्तः" १।१।३८ इति कृतो मान्तस्यैजन्तस्याव्ययसंज्ञा शास्ति तज्ज्ञापयति-- अनन्तरस्ये()आरशब्दस्य ग्रहणं नेतरस्येति; अन्यथा हि णमुलादीनां निपातत्वादेवाव्यव्यसंज्ञा सिद्धेति "कृन्मेजन्तः" १।१।३८ इति वचनमर्थकं स्यात्, नैतदस्ति ज्ञापकम्; यस्मात् "ई()आरे तोसुन्कसुनौ" ३।४।१३ इत्यस्मात् परोऽपि कृदेजन्तो मान्तश्चास्ति। "कृत्यार्थे तवैकेन्केन्यत्वनः" ३।४।१४ "आभीक्ष्ण्ये णमुल च" ३।४।२२ इत्येवमादिः। तत्कथं "कृन्मेजन्तः" (१।१।३९) इत्येत ज्ञापकं स्यात्? एवं तर्हि यदयमव्ययीभावस्य "अव्ययीभावश्च" १।१।४० इत्यव्ययसंज्ञां शास्ति, तज्ज्ञापयति-- अनन्तरो य ई()आरशब्दस्तस्य ग्रहणमिति। अन्यथा हि "अव्ययीभावश्च" १।१।४० इत्येदपार्थकं स्यात्; निपातत्वादेवाव्ययीभावस्याव्ययसंज्ञायाः सिद्धत्वात्। अस्यापि ज्ञापकतामपाकर्त्तुमहा-- "समासेष्वव्ययीभावः" इति। सर्वेषां समासानां निपातत्वादव्ययसंज्ञायां प्राप्तायां "अव्ययीभावश्च" १।१।३८ इत्येतद्वचनं नियमार्थं स्यात्-- समासेषु तत्पुरुषादिषु मध्येऽव्ययीभाव एवाव्ययसंज्ञो भवति, नान्य इति। एवं तर्हि लौकिकन्यायादनन्तरस्यैवे()आरशब्दस्य ग्रहणं भविष्यति। लोके हि "ओदकान्तं प्रियं प्रोथमनुव्रजेत्" इति य एवानन्तर उदकान्तस्तमेव गत्वा तत एव बान्धवा निवत्र्तन्ते, न व्यवहितात्। तस्मादिहाप्यनेनैव न्यायेनानन्तरादेव()आरशब्दान्निपातसंज्ञा निवर्तिष्यत इत्यत आह-- "लौकिकं चातिवत्र्ततते" इति। लौकिकमपि न्यायं लोकोऽतिक्रम्य वत्र्तते, यस्मात् द्वितीयमप्यदकान्तं स्नेहात् कथाप्रसङ्गद्वा गत्वा निवत्र्तन्ते बान्धवाः। तदेवं रेफाधिक ई()आरशब्द उच्चार्यते। तेन वी()आरान्मा भूदिति स्थितमेतत्॥
बाल-मनोरमा
प्राग्री�आरान्निपाताः २१, १।४।५६

प्रागी()आरान्निपाताः। प्रथमस्य चतुर्थपादे "तत्प्रयोजको हेतुश्चे"त्यनन्तकमिदं सूत्रम्। "री()आर"शब्दः "अधिरी()आरे" इति सूत्रैकदेशस्य अनुकरणम्। अनुकरणत्वान्नापशब्दः। अत एव "प्रत्यक्षोपजीव्यत्वा"दिति चिन्तामणिवाक्यस्य "प्रत्यक्षविती"ति प्रतीकग्रहणं तद्व्याख्याने दृश्यते। "इतः प्रभृति अधिरी()आर इति एतत्पादीयोपरितनसूत्रे री()आरशब्दात् प्राक्निपातसंज्ञकाः प्रत्येतव्या इत्यर्थः। निपातपदमनुवर्तत इति यावत्। रेफविशिष्टग्रहणं किम्?। "ई()आरे तोसुन्कसुनौ" इति तृतीयाध्यायस्थस्यावधित्वं मा भूत्। यदि तु प्रथमातिक्रमणे कारणाभावादधिरी()आर इत्यस्यैवावधित्वं तदा सरेफग्रहणं स्पष्टार्थम्।

तत्त्व-बोधिनी
प्राग्री�आरान्निपाताः २०, १।४।५६

प्राग्री()आरात्। रेफविशिष्टग्रहणं किम्?,ी()आरे तोसुन्कसुनौ" इत्यस्य व्याप्तिन्यायेनावधित्वं मा भूत्। यदि तु प्रत्यासत्त्यैव "अधिरी()आरे" इत्यस्यावधित्वसिद्धिरित्युच्यते तर्हि स्पष्टप्रतिपत्त्यर्थमेवास्तु।