पूर्वम्: ३।१।१२४
अनन्तरम्: ३।१।१२६
 
सूत्रम्
ओरावश्यके॥ ३।१।१२५
काशिका-वृत्तिः
ओरावश्यके ३।१।१२५

अवश्यं भावः आवश्यकम्। उवर्णान्ताद् धातोः ण्यत् प्रययो भवति आवश्यके द्योत्ये। यतो ऽपवादः। लाव्यम्। पाव्यम्। अवश्यके इति किम्? लव्यम्। आवश्यके द्योत्ये इति वेत्, स्वरसमासानुपपत्तिः, अवश्यलाव्यम्, अवश्यपाव्यम् इति? नैष दोषः। मयूरव्यं सकादित्वात् समासः। उत्तरपदप्रकृतिस्वरे च यत्नः करिष्यते।
न्यासः
ओरावश्यके। , ३।१।१२५

"अवश्यम्भाव आवश्यकम्" इति। मनोज्ञादित्वाद्()वुञ्। एतदेव ज्ञापकम्-- अव्ययानां भमात्रे टिलोपो भवतीति। अत्र द्वयं सम्भाव्यते-- उपपदत्वम्, आवश्यक उपपद इति; उपाधिकत्वञ्च, आवश्यके द्योत्य इति। तत्र यद्येवं ज्ञाप्यते-- आवश्यकौपपद इति, तदोपपदरहितादावश्यके द्योत्ये न स्यात्()। "लाव्यं पाव्यम्" इति। आवश्यके द्योत्य इत्येवं विज्ञायत इत्याह-- "आवश्यके द्योत्ये" इति। एतच्च प्रत्यासत्या लभ्यते। उपाधिर्हि प्रत्ययान्तद्योत्यत्वादन्तरङ्गः, उपपदेन च सम्बन्धो बहिरङ्गः, तदर्थस्य पदान्तरवाच्यत्वात्। "स्वरसमासानुपपत्तिः" इति। उपपदे ह्रावश्यके विज्ञायमाने "उपपदमतिङ" २।२।१९ इति समासो भवति। त()स्मश्च सति "गतिकारकोपपदात् कृत्" ६।२।१३८ इत्युपपदाश्रय उत्तरपदप्रकृतिस्वरत्वम्, न तित्स्वरो भवति। द्योत्यपक्षे तु समासो न स्यात्; लक्षणाभावात्। अथापि कथञ्चिदुपपदसमासादन्यः समासः स्यात्? एवमप्युपपदसमासाश्रयः स्वरो न स्यात्; ततश्च तित्स्वरो न लभ्येत्, समासान्तोदात्तत्वं हि स्यात्। "अवश्यलाव्यम्" इति। "लुम्पेदवश्यमः कृत्ये" इति मलोपः। "मयूरव्यंसकादित्वात्" इत्यादि। मयूरव्यंसकादेराकृतिगणत्वादवश्यलाव्यप्रभृतलाव्यप्रभृतयस्तत्र द्रष्टव्या इति दर्शयति। स्वरः कथमित्याह-- "उत्तरपदप्रकृतिस्वरत्वे च" इत्यादि। तत्रायं यत्नः-- "गतिकारकोपपदात् कृत्" ६।२।१३८ इत्यत्र "षट् च काण्डादीनि" ६।२।१३४ इत्यतश्चकारोऽनुवर्त्तिष्यते, स चानृक्तसमुच्चयार्थः। तेनावश्यलाव्यमित्यादावपि प्रकृतिस्वरो भवतीति॥
तत्त्व-बोधिनी
ओरावश्यके ५८४, ३।१।१२५

लाव्यमिति। "आवश्यके उपपपदे" इति व्याख्याने तु नेदं सिध्यतीति भावः। क्वचित्तु लाघवं प्रत्यनादराद्व्यतिसे इत्यादौ व्यतिशब्दवद्द्()योतितार्थस्याऽपि प्रयोगो दृश्यते। अवश्यलाव्यम्। अत्रोपपदसमासाऽसंभवेऽपि मयूरव्यंसकादेराकृतिगणत्वात्समासः।