पूर्वम्: ६।२।१३७
अनन्तरम्: ६।२।१३९
 
सूत्रम्
गतिकारकोपपदात् कृत्॥ ६।२।१३८
काशिका-वृत्तिः
गतिकारकौपपदात् कृत् ६।२।१३९

तत्पुरुषे इति वर्तते, न बहुव्रीहौ इति। गतेः कारकातुपपदात् च कृदन्तम् उत्तरपदं तत्पुरुषे समासे प्रकृतिस्वरं भवति। प्रकारकः। प्रकरणम्। प्रहारकः। प्रहरणम्। कारकात् इध्मप्रव्रश्चनः। पलाशशातनः। श्मश्रुकल्पनः। उपपदात् ईषत्करः। दुष्करः। सुकरः। सर्वत्र एव अत्र लित्स्वरः। गतिकार कोपपदातिति किम्? देवदत्तस्य कारकः देवदत्तकारकः। देवदत्तस्य इति शेषलक्षण षष्ठी। कृद्ग्रहणं विस्पष्टार्थम्। प्रपचतितराम्, प्रपचतितमाम् इत्यत्र तरबाद्यन्तेन समासे कृते पश्चादाम्। तत्र सति शिष्टत्वादाम एव स्वरो भवति इत्येके। प्रपचतिदेश्याद्यर्थं कृद्ग्रहणं दृश्यत एव।
न्यासः
गतिकारकोपपदात्कृत्?। , ६।२।१३८

"प्रकारकः, प्रहारकः" इति। ण्वुल्()। "प्रकरम्()" इत्यादिषु ल्युट्()। "ईषत्करः" इत्यादिषु "ईषद्()दुःसुषु" इति खल्()। यदत्राव्ययपूर्वपदं तत्र "तत्पुरुषे तुल्यार्थ" २।२।१७ इति समासः। "कारकात्()" इति। षष्ठी तु "कर्त्तुकर्मणोः कृति" २।३।६५ इति कर्मणि कारके वेदितव्या। इध्मादयो हि व्रश्चनक्रियाया व्याप्तुमिष्टतमत्वात्? कर्मबावमनुभवन्ति। "ईषत्करः" इत्यादौ तु "उपपदमतिङ्()" २।२।१९ इति समासः। तत्र प्रशब्दः "उपसर्गाश्चाभिवर्जम्()" (फि।सू।४।८१) इत्याद्युदात्तः। इध्मशब्दो हि "इषियुधीन्धि" (द।उ।७।३१) इत्यादिना मक्प्रत्ययान्तत्वादन्तोदात्तः। "शो तनूकरणे" (दा।पा।११४५), पलं श्यतोति [श्यतोति--मुद्रीतः पाठः] "आतोऽनुपसर्गे कः" ३।२।३। पलाशः कृत्स्वरेणथाथादिस्वरेण ६।२।१४३ वान्तोदात्तः। शदेर्णिजन्तस्य "शदेरगतौ तः ७।३।४२ इति तकारे कृते ल्युटि "शातनः" इति भवति। "श्मनि श्रयतेर्डन्()" (द।उ।१।१६१) इति लत्वे कृते "कल्पनः" इति भवति। ईषच्छब्दोऽन्तोदात्तः; स्वरादिषु तथाभूतेषु तथांभूतस्यैव पाठात्()। सुदुरावाद्युदात्तौ; प्रादिषु तथाभूतयोः पाठात्()। "सर्वत्रैवात्र लित्स्वरः" इति। स पुनः प्रत्ययात्? पूर्वस्योदात्तत्वम्()। "देवदत्तस्येति सेषलक्षणा षष्ठी" इति। कर्मणि षष्ठीत्वं निराकरोति। कर्मषष्ठ()आं ह्रस्यां कारकमेव देवदत्तः स्यात्(), तथा च प्रत्युदाहरणं नोपपद्यते। अथ कारकग्रहणं किमर्थम्(), निर्गतः कौशाम्ब्या निष्कौशाम्बिरित्यत्र मा भूदिति चेत्()? नैतदस्ति; तथा हि--यात्क्रियायुक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञा भवन्ति (जै।प।वृ।९९), न हि कौशाम्बीशब्दः क्रियावाची, तत्? कुतस्तं प्रति निसोऽत्र गतिसंज्ञा? इत्यत आह--"कृद्ग्रहणं विस्पष्टार्थम्()" इति। यदि तर्हि कृद्ग्रहणं क्रियते, प्रपचतितरामित्यत्र परकृतिसवरो न प्राप्नोति। ततश्च समासस्वरं बाधित्वाव्ययस्वर एव स्यात्()? इत्यत आह--"प्रपचतितराम्()" इत्यादि। अत्र हि पचतिशब्दादतिशयविवक्षायां तरप्तपमौ। ततसतरबाद्यन्ते "कुगतिप्रादयः" २।२।१८ इति प्रशबदस्य समासः। समासे तु कृते पूर्वपदस्य "तत्पुरुषं तुल्यार्थ" ६।२।२ इत्यादिना प्रकृतिस्वरः। पश्चात्? "किमेत्तिङ्व्यय" ५।४।११ इत्यादिनामुः। आमन्तसय च "आद्युदात्तश्च" ३।१।३ इति प्रत्ययसवरः प्राप्रः, सोऽव्ययसवरे सति सतिशिष्टः, सतशिष्टस्य च बलीयस्त्वमुक्तम्()। तेन यद्यप्यनेनामन्तस्य कृद्ग्रहणे क्रियमाणे सति प्रकृतिस्वरो भवति, तथाप्याम्स्वरो भवत्येव; तस्य सतिशिष्टत्वात्()। अथ कथं तरवाद्यन्तेन समासः? कथं च न स्यात्()? "गतिकारकोपपदादीनां कृद्धिः सह समासवचनं प्राक्सुब#उत्पत्तेः" (है।प।पा।८८) इति वचनात्()? नैष दोषः; अत्र हि द्वे दर्शने गतिकारकोपपदात्? कृद्भिरेव समासो भवति, स च प्राक्? सुबुत्पत्तेरित्येकं दर्शनम्(); गतिकारकोपपदानामविशेषेण समासो भवति, कृद्भिस्तु प्राक्? सुबुत्पत्तेरिति द्वितीयम्()। तत्र द्वितये दर्शने युज्यत एव तरबाद्यन्तेन समासः। तत्र कृद्ग्रहणं विस्पष्टार्थमित्यनेन सम्बद्धम्()। एक आचार्याः कृद्ग्रहणं विस्पष्टार्थमित्येव व्याचक्षत इत्यर्थः। "प्रपचति देश्याद्यर्थ तु" इत्यादि। तुशब्दः पूर्वस्माद्? व्याख्यानाद्विशेषद्योतनाय। प्रपचतिदेश्य आदिर्यस्य स प्रपचतिदेश्यादिः। आदिशब्देन प्रपचतिदेशीय इत्यस्य ग्रहणम्()। प्रपचतिदेश्यादावर्थः प्रयोजनं यस्य तत्? प्रपचतिदेश्याद्यर्थम्()। "कृद्ग्रहणं दृश्यते" इति। एवं "ईषदसमाप्तौ कल्पब्देश्यदेशीयरः" ५।३।६७ इत्यत्र "तिङ्श्च" (५।३।५६) इत्यनुवृत्तेः प्रपचतिशब्दाद्? देश्यदेशीयरौ। तदन्तेन च प्रशब्दस्य गतिसमासे कृद्ग्रहणं न क्रियेत। तथा प्रपचतिदेश्यः, प्रपचति वेशीय इत्यत्राप्युत्तरपदस्य प्रकृतिस्वरः स्यात्(), न चेष्यते। तस्मादिह मा भूदित्येवमर्थं कृद्ग्रहणं दृश्यत एव। तस्मादेतन्न विस्पष्टार्थम्()। तदपि तु प्रपचतिदेश्य इत्यादौ विषये मा भूदित्येवमर्थ मित्यभिप्रायः॥