पूर्वम्: ३।१।२६
अनन्तरम्: ३।१।२८
 
सूत्रम्
कण्ड्वादिभ्यो यक्॥ ३।१।२७
काशिका-वृत्तिः
कण्ड्वादिभ्यो यक् ३।१।२७

कण्डूञित्येवम् आदिभ्यो यक् प्रत्ययो भवति। द्विवधाः कण्ड्वादयो, धातवः प्रातिपादिकानि च। तत्र धात्वधिकाराद् धतुभ्यः एव प्रत्ययो विधीयते, न तु प्रातिपदिकेभ्यः। तथा च गुणप्रतिषेधार्थः ककारो ऽनुबध्यते। धातुप्रकरणाद् धातुः कस्य चासञ्जनादपि। आह च अयम् इमं दीर्घं मन्ये धतुर् विभाषितः। कण्डूञ् कण्डूयति, कण्डूयते। ञित्वात् कर्त्रभिप्राये क्रियाफले १।३।७२ इत्यात्मनेपदम्। कण्डूञ्। मन्तु। हृणीङ्। वल्गु। अस्मनस्। महीङ्। लेट्। लोट्। इरस्। इरज्। इरञ्। द्रवस्। मेधा। कुषुभ। मगध। तन्तस्। पम्पस्। सुख। दुःख। सपर। अरर। भिषज्। भिष्णज्। इषुध। चरण। चुरण। भुरण। तुरण। गद्गद। एला। केला। खेला। लिट्। लोट्।
लघु-सिद्धान्त-कौमुदी
कण्ड्वादिभ्यो यक् ७३३, ३।१।२७

एभ्यो धातुभ्यो नित्यं यक् स्यात्स्वार्थे। कण्डूञ् गात्रविघर्षणे॥ १॥ कण्डूयति। कण्डूयत इत्यादि॥
लघु-सिद्धान्त-कौमुदी
इति कण्ड्वादयः ७३३, ३।१।२७

लघु-सिद्धान्त-कौमुदी
अथात्मनेपदप्रक्रिया ७३३, ३।१।२७

न्यासः
कण्ड्वादिभ्यो यक्। , ३।१।२७

किं पुनरिमे कण्ड्वादयो धातवः? उत प्रातिपदिकानि? तत्र यदि धातवः, यकि कृते कण्डूरिति न सिध्यति। कण्डूयेति प्राप्नोति। ननु च वेत्यनुवर्तिष्यते, ततर् यदा यङ नास्ति तदा कण्डूरिति भविष्यति? नैतदस्ति; न हि धातोः सुब्विभक्तिरुत्पत्तुमुत्सहते; तस्याः प्रातिपदिकाद्विधानात्। स्यादेतत्-- यगन्तात् "अन्यभ्योऽपि" ३।२।१७८ इति क्विपि कृते अतो लोपे ६।४।४८ वलि यकारलोपे (६।१।६६) च कण्डूरिति भविष्यति? असदेतत्; कत्र्तरि क्विब् विधीयते, कण्डूरिति च वेदनामात्रमुच्यते, न कर्ता; तथापि सम्पदादेराकृतिगणत्वात् भावे क्विपं विधाय कण्डूरिति व्युत्पाद्यते। एवमपि मन्तुः, वल्गुरिति न सिध्येत्। यदि तावद्वेत्यनुवृत्त्या मनुवल्गुशब्दाभ्यां पक्षे यग्न भवति तदा विभक्तिस्ताभ्यां नोपपद्येत, तथा च मन्तु, वल्गु इत्यविभक्तिकं रूपं स्यात्। अथापि ताभ्यां यकं विधाय क्विप् क्रियते? एवमपि मन्तूर्वल्गुरित्यनिष्टं रूपं स्यात्। अवश्यं यकि कृते "अकृत्सार्वधातुकयोः" ७।४।२५ इति दीर्घत्वेन भवितव्यम्। अथ प्रातिपदिकानि कण्डवादयस्तदा यकः करारोऽनर्थकः स्यात्, स हि "सार्वधातुकार्धधातुकयोः" ७।३।८४ इति प्राप्तस्य गुणस्य "क्ङिति च" १।१।५ इति प्रतिषेधो यथा स्यादित्येवमर्थं क्रियते। प्रातिपदिकत्वे तेषामेतत्प्रयोजनं नोपपद्यते, न हि प्रातिपदिकाद्विहितः प्रत्यय अर्धधातुकसंज्ञां लभत इति यो देशयेत्, तं प्रत्याह-- "द्विविधाः" इत्यादि। तत्रेति निर्धारणे सप्तमी। तेषु धातुप्रातिपदिकेषु मध्ये ये धातवः कण्ड्वादयस्तेभ्यो यक्। "धात्वधिकारात्" इत्यत्रवोपपत्तिः। एवमेवार्थं द्रढयितुमाह-- "तथा च" इत्यादि। यत एवं धातुभ्यः प्रत्ययो विधीयते; धात्वधिकारात् , प्रातिपदिकेभ्यः। एवञ्च कृत्वा यकः ककारोऽनुबध्यते गुणप्रतिषेधात्। यदि तु प्रतिपदिकेभ्यो यक् स्यात् तस्यानार्धधातुकत्वाद्()गुणस्य प्राप्तिरेव नास्ति, तत्प्रतिषेधार्थं ककारानुबन्धकरणमनर्थकं स्यात्। "धातुप्रकरणाद्धातुः" इति। प्रत्ययमुत्पादयतीति शेषः। "धातोरेकाचः" ३।१।२२ इत्योत धातुग्रहणमनुवर्तते। तेन धातुरेव कण्ड्वादिशब्दः प्रत्ययमुत्पादयति, न प्रातिपदिकम्। "कस्य" इत्यादि। यच्चेदं ककारानुबन्धासञ्जनमतोऽपि हेतोरेव धातुः प्रत्ययमुत्पादयति। अन्यथा ककारानुबन्धकरणं पूर्वोक्तया रीत्या निरर्थकमेव स्यात्। अतएव धातुभूतेभ्यः कण्डवादिभ्यो यग्विधानात् ककारानुबन्धासञ्जनाच्च तेषां धातुत्वं विज्ञायते। न ह्रधातुभूतेभ्यो यग्विधानमुपपद्यते, नापि ककारानुबन्धकरणम्; प्रयोजनाभावात्। अथ प्रातिपदिकत्वं कण्ड्वादीनां कथमवसीयते? इत्याह-- "आह चायम्" इत्यादि। चकारो हेतौ। यद्येते धातव एव स्युस्ततो यकि कृते "अकृत" ७।४।२५ इति दीर्घत्वस्य सिद्धत्वात् कण्डूञ्, ह्मणीङ्, महीङिति दीर्घं नोच्चारयेत्, उच्चारयति च दीर्घम्, अतोऽवसीयते-- "धातुर्विभाषितः" इति। धातुत्वमेषां विकल्पितमित्यर्थः। ननु च पक्षे यत्र यङ नास्ति तत्रायगन्तेभ्यः क्विबादौ प्रत्यय उत्पन्ने कण्डूः, कण्डूतिः, कण्डूतवानिति दीर्घस्य श्रवणं यथा स्यादित्येवमर्थं दीर्घोच्चारणं स्यात्। तत् कुतस्तस्यानर्थक्यम्! कथं पुनरयगन्तेभ्यः क्विबादयो भवन्ति, यकः पाक्षिकत्वात्, तदपि कुतः? वेत्यनुवृत्तेः, नैतत्; नित्यत्वादस्य विधेः। नित्यत्वन्तु वाग्रहणस्य निवर्तितत्वात्। कुतः पुनस्तन्निवृत्तिरवीसयते? "आयादयः" ३।१।३१ इत्यादेः सूत्रारम्भात्। यद्यत्र वेत्यनुवृत्तिस्तदोत्तरत्राप्यनुवत्र्तनादायादयो वा भविष्यन्तीत्येतन्नारभेत। न च तदनारम्भे सार्वधातुकेऽप्यायादयो विकल्पेन प्राप्नुवन्ति; वाग्रहणस्य व्यवस्थितविभाषात्वात्। तस्मादायादय इत्यादेरारम्भाद्वाग्रहणनिवृत्तिरवसीयत इति नित्यं यका भवितव्यम्। ततश्च यद्येषां पक्षे प्रातिपदिकत्वं न स्याद्दीर्घोच्चारणमनर्थकं स्यात्। तस्माद्दीर्घोच्चारणसामथ्र्यात् प्रातिपदिकत्वमेषामस्तीत्येकान्त एष पक्षः। तत्र धातुपक्षे कण्डूयत इत्यादयः सिध्यन्ति, प्रातिपदिकपक्षे त्वसति यकि कण्डूर्मन्तुर्वल्गुरित्यादयः। मगध इत्यादयो येऽकारान्ताः कण्ड्वादिषु पठ()न्ते तेषां "अतो लोपः" ६।४।४८ इत्यकारलोपः--- मगध्यति, सुख्यति, दुःख्यति। लेट्()लोटौ शब्दौ पठ()एते, तयोः ल्वरूपेणैव ग्रहणम्, न तु प्रत्ययत्वेन, कण्ड्वादिभिः स्वरूपशब्दैः साहचर्यात्॥
बाल-मनोरमा
कण्ड्वादिभ्यो यक् ५२४, ३।१।२७

अथ कण्वादिप्रक्रिया निरूप्यन्ते। कण्ड्वादिभ्यो यक्। धातुभ्य इति। "धातोरेकाचः" इत्यतस्तदनुवृत्तेरिति भावः। नित्यमिति। वाग्रहणं तु निवृत्तमिति भावः। अन्यथा कण्डवतीत्याद्यपि स्यादिति भावः। द्विधा हीति। एतच्च भाष्ये स्पष्टम्। तेन कण्डूरित्याद्यविगृहीतरूपसिद्धिः। लेटितेति। "यस्य हलः" इति यलोपः। मेधा आशुग्रहणे इति। आशुग्रहणँ त्वरया बोधः। "सुग्रहणे" इति पाठान्तरम्। सुख्यतीति। यकि अतो लोपः। प्रातिपदिकेभ्यो यकि तु आद्र्धधातुकत्वाऽभावादल्लोपो न स्यादिति बोध्यम्। चौरादिकयोस्तु सुखयति दुःखयतीत्युक्तम्। अरर आराकर्मणीति। आरा = प्रतोदः, तत्करणकं कर्म- आराकर्म। भिषज् चिकित्सायाम्। जान्तोयऽयम्। भिषज्यति। लेखा स्खलने चेति। लेखायति।लेख्यतीति। अदन्ताद्यकि अतो लोपः। आकृतिगणोऽयमिति। कण्ड्वादिरित्यर्थः। तेन दुवस् संदीपने इत्यादिसङ्ग्रहः। "समिधाऽ()ग्न दुवस्यते"। इति कण्ड्वादयः।

अथ कारकप्रकरणम्।

---------------

तत्त्व-बोधिनी
कण्ड्वादिभ्यो यक् ४७१, ३।१।२७

कण्ड्वादिभ्यो यक्। "धातोरेकाच" इत्यस्माद्धातोरिति वर्तते। वेति निवृत्तम्। अन्यथा कण्डवतीति स्यात्तदाह--- धातोर्नित्यमिति। केचित्तु "नित्यं कौटिल्ये गतौ" इत्यतो नित्यमित्यनुवर्तत इत्याहुः। तच्चिन्त्यम्। तत्र हि नित्यग्रहणमेवकारार्थे वर्तते तक्रकौण्डिन्यन्यायस्याऽनित्यतां ज्ञापयितुमिति प्राग्व्याख्यातत्वात्।किं च "नित्यं कौटिल्ये गतौ" इत्यत्रापि वेत्यनुर्तते। अन्यथा गत्यर्थेभ्यो नित्यं यह् स्यादिति। स्वार्थे इति। इति कण्ड्वादिभ्यो यक्स्यात्कृञर्थे इति प्राचोक्तमयुक्तमिति भावः। द्विधा हीति। यकः कित्त्वेन धातव इति ज्ञायते। कण्डूञिति दीर्घपाठेन प्रातिपदिकान्यपीति। यदि तु धातव एव स्युस्तर्हि ह्यस्वान्ते पठितेऽपि यकि परे "अकृत्सार्वे"ति दीर्घेण कण्डूयतीत्यादिसिद्धेः किं तेन दीर्घपाठेन?। द्वैविध्ये तु धातुभ्यो यकि गुणनिषेधेन कित्त्वं सार्थकम्। "कण्डू"रित्यादियग्रहितरूपसिद्ध्या दीर्घपाठोऽपि सार्थकः। अत एवोक्तं भाष्ये--- धातुप्रकरणाद्धातुः कस्यचाऽसञ्जनादपि। आह चायमिममं दीर्घं मन्ये धातुर्विभाषितः"। इति।एतेन कण्डूं करोति कण्डूयतीति प्राचोक्तविग्रहोऽपि परास्तः। कण्ड्वादयः प्रातिपदिकान्येवेत्यनभ्युपगमात्। न च द्वैविध्याभ्युपगमेऽपि प्रातपदिकादेव यक् स्यादिति वाच्यं, तथाहि सति दातोर्लडादौ कण्डवतीत्याद्यनिष्टप्रसङ्गात्। सुखदुःखादिप्राप्तिपदिकेभ्यो यकि अल्लोपाऽसंभवन सुख्यतीत्याद्यसिद्धिप्रसङ्गाच्च। यत्तु कैश्चित् "शब्दवैरकलहे"ति सूत्रात्करणे इत्यनुर्तनात्कृञर्थे यगिति प्राचोक्तव्याख्यायां न किंचिद्बाधकमित्युक्तं,तच्चिन्त्यम्, अनुधृत्तौ मानाऽभावात्। अन्यथा णिजन्तेष्विव प्रकृतिप्रत्ययाभ्यां व्यापारद्वयापत्तेरिति दिक्। पूर्वभाव इति। पूर्वत्वमित्यर्थः। लेटितेति। "यस्य हलः" इति यलोपः। सुख्यतीति। चुरादौ तु "सुख दुःख तत्क्रियायां। सुखयती"त्याद्युदाह्मतम्। सपर। यगन्तात् "अ प्रत्ययात्" "गुरोश्च हलः" इत्यनेन वा अप्रत्यये टाप्। सपर्या। अरर। आरा = प्रतोदः। तत्करणकं कर्म आराकर्म। अदन्तोऽयमिति। लेख्यति। आदन्तपक्षे तु लेखायति। महीङ्। "प्रेत्य स्वर्गे महीयते" इति रामायणम्। प्रसृताविति। प्रसृतिः-- परिमाणविशेषः। प्रभतूभावे इति। बाहुल्य इत्यर्थः। "प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु"इत्यमरः। संभूयस्यति। असंभूयसीत्।नेह संशब्दसय् पृथक्कृतिः, यत्र प्रातिपदिकाद्धातुसंज्ञाप्रयोजकप्रत्ययस्य विधानं तत्रैव पृथक्कृतिरित्याहुः। आकृतिगण इति। तेन दुवस् सन्दीपने इत्यादि सिद्धम्। प्रयुज्यते च "समिधाऽग्नि दुवस्यते"त्यादि।

इति तत्त्वबोधिन्याम् कण्ड्वादिप्रक्रिया।