पूर्वम्: ३।१।९६
अनन्तरम्: ३।१।९८
 
सूत्रम्
अचो यत्॥ ३।१।९७
काशिका-वृत्तिः
अचो यत् ३।१।९७

अजन्ताद् धातोः यत् प्रत्ययो भवति। तकारो यतो ऽनावः ६।१।२०७ इति स्वरार्थः। गेयम्। पेयम्। चेयम्। जेयम्। अज्ग्रहणं किं यावता हलन्ताण् ण्यतं वक्ष्यति? अजन्तभूतपूर्वादपि यथा स्यात्, दित्स्यम्, धित्स्यम्। तकिशसिचतियतिजनीनाम् उपसङ्ख्यानम् तकि तक्यम्। शसि शस्यम्। चति चत्यम्। यति यत्यम्। जनि जन्यम्। हनो वा वध च। वध्यम्, घात्यम्।
लघु-सिद्धान्त-कौमुदी
अचो यत् ७७६, ३।१।९७

अजन्ताद्धातोर्यत् स्यात्। चेयम्॥
न्यासः
अतो यत्। , ३।१।९७

"तकारः "यतोऽनावः" इति {स्वरार्थः-- काशिका} विशेषणार्थः" इति। आद्युदात्तार्थः। "गेयम्" इति। "कै गै शब्दे" (धा।पा।९१६,९१७), "आदेच उपदेशेऽशिति" ६।१।४४ इत्यात्त्वम्, "ईद्यति" ६।४।६५ इतीत्त्वम्, गुणः। "यावता" इत्यादि। इह द्विविधा धातवः-- हलन्ता अजन्ताश्च; तत्र "ऋहलोण्र्यत्" ३।१।१२४ इति ण्यतं हलन्तादिच्छति।अतः परिशेष्यादेवाज्ग्रहणमन्तरेणाप्यजन्तादेव यद्()भविष्यतीत्यतोऽज्ग्रहणमपार्थकमित्यभिप्रायः। "अजन्तभूतपूर्वात्" इति। अजन्तश्चासौ भूतपूर्वश्चेति कर्मधारयः। यः प्रागजन्त आसीत् संप्रति तु हलन्तः, ततोऽपि यथा स्यादित्येवमर्थमज्ग्रहणम्। "दित्स्यम्"। "धित्स्यम्"। दाञो धाञश्च सन्, द्विर्वचनम्। "सनि मीमा" ७।४।५४ इतीस्। "अत्र लोपोऽभ्यासस्य" ७।४।५८ इत्यभ्यासलोपः। "सः स्यार्धधातुके" ७।४।४९ इति तत्त्वम्। अनुत्पन्न एवार्धधातुके विषयभावेन विवक्षिते "अतो लोपः" ६।४।४८ इत्यकारलोपः। अस्यामवस्थायामसत्यज्गर्हणे न स्यात्; अनजन्तत्वात्। त()स्मस्तु सति भूतपूर्वमजन्तत्वमाश्रित्य भवति। पाक्षिकञ्चैतत् प्रयोजनं वेदितव्यम्। क्व तस्मिन्पक्षे? यदार्धधातुके विषयभावन विवक्षिते "अतो लोपः" ६।४।४८ विधीयते। यदाऽ‌ऽर्धधातुकः, तदा नेदं प्रयोजनम्। विस्पष्टार्थं त्वज्ग्रहणं वेदितव्यम्। "तकिशसि" इत्यादि। "तक { सहने इति मुद्रितः पाठः} हसने(धा।पा।११७), "शसु हिंसायाम्" (धा।पा।७२७), "चते चदे याचने" (धा।पा।८६५,८६६) , "यती प्रयत्ने" (धा।पा।३०), "जनी प्रादुर्भावे" (धा।पा।११४९)--एषां यत्प्रत्ययस्योपसंख्यानम् = प्रतिपादनं कत्र्तव्यम्। प्रतिपादनं तु बहुलग्रहणमाश्रित्य कत्र्तव्यम्। "हनो वा वध च" इति। हन्तेर्धातोर्यत्प्रत्ययो भवति, ण्यतोऽपवादः। वावचनात् पपक्षे ण्यद्भवत्येव। यत्प्रत्ययस्तु तत एव बहुलवचनाल्लभ्यते। यदा यद्भवति तदा हन्तेर्बधादेशः। सोऽपि "हनो वध लिङि" २।४।४२ इत्यत्र "बहुलं छन्दसि" २।४।३९ इत्यतो बहुलग्रहणानुवृत्तेर्लभ्यते। घात्य इति। "हनस्तः" ७।३।३२ इति तत्वम्, "हो हन्तेः" ७।३।५४ इति कुत्वम्॥
बाल-मनोरमा
अचो यत् ६६३, ३।१।९७

अचो यत्। शक्यमकर्तुमिति। "ऋहलोण्र्य"दिति ऋहलन्ताद्विशिष्य ण्यतो विहितत्वेन हलन्तेभ्यो यत्प्रत्यस्याऽप्रवृत्तिरित्यर्थः। वासरूपविधिस्तु सरूपत्वान्न भवति। योगविभागोऽप्येवमिति। कर्तुमशक्य इत्यर्थः। कुत इत्यत आह-- तव्यदादिष्वेवेति। "तव्यत्तव्यानीयर्यतः इत्येकसूत्रत्वेनैव पठितुं शक्यत्वादित्यर्थः।

तत्त्व-बोधिनी
अचो यत् ५५२, ३।१।९७

अचो यत्। धातोरिति वर्तते। अज्ग्रहणं च धातोर्विशेषणं, विशेषणेन तदन्तविधिस्तदाह--अजन्तादिति। शक्यमकर्तुमिति। अत्र केचिदज्ग्रहणमजन्तभूतपूर्वादपि यथा स्यादित्येवमर्थपेक्षितम्। तेन दित्स्यं धित्स्यमित्त्र यति कृते "यतोऽनावः" इत्याद्युदात्तत्वं सिध्यति, ण्यति कृतेतु "तित्स्वरितम्" इति प्रसज्येत। न च दित्स्यं धित्स्यमित्यत्र "ऋहलोः" इति ण्यतः प्रसक्तिरेव नास्तीति वाच्यम्, आद्र्धदातुकविवक्षायामेव अतो लोपे कृते हलन्तत्वेन तत्संभवादित्याहुस्तदापाततः। आद्र्धधातुके विवक्षिते यद्यतो लोपः स्यात्तदा हीदं संभवेत्। लोपस्तु आद्र्धधातुके पर एवोचितः। अन्यथा परनिमित्तत्वाऽभावेन स्थानवत्त्वाऽभावे गणयतीत्यादावुपधावृद्धिप्रसङ्गादिति भावः। सुपठत्वादिति। द्वये धातवोऽजन्ता हलन्ताश्च। तत्र हलन्ताण्ण्यन्तं वक्ष्यतीति परिशेषादज्तादेव यद्भविष्यतीति भावः। तकिशसीति। तक हसने। शसु हिंसायाम्। चते याचने। यत्तु केचिच्छंसीति सानुस्वारं पठन्ति तदुपेक्ष्यम्, "ईडवन्दवृशंसदुहां ण्यत" इति सूत्राऽविरोधेन शंसेण्र्यत एव स्वीकर्तव्यत्वात्।