पूर्वम्: ३।२।१२९
अनन्तरम्: ३।२।१३१
 
सूत्रम्
इङ्धार्योः शत्रकृच्छ्रिणि॥ ३।२।१३०
काशिका-वृत्तिः
इङ्धार्योः शत्रकृच्छ्रिणि ३।२।१३०

इङो धारेश्च धात्वोः शतृप्रत्ययो भवति अकृच्छ्रिणि कर्तरि। अकृच्छ्रः सुखसाद्यो यसय् कर्तुर् धात्वर्थः सो ऽकृच्छ्री। अधीयन् पारायणम्। धारयन्नुपनिषदम्। अकृच्छ्रिणि इति किम्? कृच्छ्रेण अधीते। कृच्छ्रेण धरयति।
न्यासः
इङ्धार्योः शत्रकृच्छ्रिणि। , ३।२।१३०

"अकृच्छ्रिणि कत्र्तरि"इति। एतेनाकृच्छ्रिणीति प्रत्ययार्थस्य कर्त्तुरेतद्विशेषणमिति दर्शयति। "अकृच्छ्रः सुखसाध्यो यस्य धात्वर्थः सोऽकृच्छ्री" इति। "अत इनिठनौ" ५।२।११४ इतीनिः। "अधीयन्" इति। पूर्ववदियङ। "धारयन्" इति। "धृङ अवस्थाने" (धा।पा।१४१२) चुरादिणिच्॥
बाल-मनोरमा
इङ्घार्योः शत्रकृच्छ्रिणि ९१२, ३।२।१३०

इङ्धार्योः। शतृ- अकृच्छ्रिणीति छेदः। अकृच्छ्रम् = अदुःखम्, तदास्यास्तीति अकृच्छ्री। इङ्, धारि अनयोद्र्वन्द्वात् पञ्चम्यर्थे षष्ठी। अधीयन्निति। सुखमध्येतेत्यर्थः। धारयन्निति। सुखेन धारयितेत्यर्थः।

तत्त्व-बोधिनी
इङ्घार्योः शत्रकृच्छ्रिणि ७४९, ३।२।१३०

इङ्घार्योः। इङ आत्मनेपदित्वात् शता न सिध्यति, धारयतेरपि कर्तृगामिनि क्रियाफले न सिध्यति, लसार्वधातुकानुदात्तत्वं च प्राप्नोतीत्ययमारम्भः।