पूर्वम्: ५।२।११३
अनन्तरम्: ५।२।११५
 
सूत्रम्
अत इनिठनौ॥ ५।२।११४
काशिका-वृत्तिः
अत इनिठनौ ५।२।११५

अकारान्तात् प्रातिपदिकातिनिठनौ प्रत्ययौ भवतः। दण्डी, दण्डिकः। छन्त्री, च्नत्रिकः। अन्यतरस्याम् इत्यधिकारान् मतुबपि भवति। दण्डवान्। छत्रवान्। तपरकरणं किम्? श्रद्धावान्। एकाक्षरात् कृतो जातेः सप्तम्यां च न तौ स्मृतौ। एकाक्षरात् तावत् स्ववान्। खवान्। कृतः कारकवान्। जातेः व्याघ्रवान्। सिंहवान्। सप्तम्याम् दन्डा अस्यां सन्ति दण्डवती शाला इति। इतिकरणो विषयनियमार्थः सर्वत्र सम्बध्यते इत्युक्तम्, तेन क्वचिद् भवत्यपि, कार्यी, हार्यी, तण्डुली, तण्दुलिकः इति।
लघु-सिद्धान्त-कौमुदी
अत इनिठनौ ११९४, ५।२।११४

दण्डी। दण्डिकः॥
न्यासः
अत इनिठनौ। , ५।२।११४

अत इत्यकारस्तपरो गृह्रते। अत एवाह--"अकारान्तात्()" इत्यादि। अथाच्छब्दस्य स्वरूपग्रहणं कस्मान्न विज्ञायते--अच्छब्दात्? प्रातिपदिकादिति? अदित्ययुक्तं स्वरूपग्रहणं भवितुम्(); स्वरूपग्रहणे हि रसादिभ्यो मतुपो विधानमनर्थकं स्यात्()। स हीनिठनोर्बाधनार्थं विधीयते। न चेह स्वरूपग्रहणे तेभ्यस्तौ प्रत्ययौ प्राप्नुत इति किं तद्विधानार्थेन मतुपो विधानेन! "तपरकरणं किम्()? श्रद्धावान्()" (इति)। ननु च व्रीह्रादिषु मालादय आकारान्ताः पठ()न्ते, ते च नियमार्था भविष्यन्ति--एतेब्य एवाकारान्तेभ्य इति? नैतदस्ति; तुल्यजातीयस्यैवं नियमः स्यात्(), डाप्चाबन्ताभ्यां स्यातामेवेतीनिठनौ। तस्मादकारस्तपरः कत्र्तव्यः। "कार्यी, इति। कृत इनिः। "तण्डुलिकः" इति। जातेरिनिठनौ॥
बाल-मनोरमा
अत इनिठनौ १८९६, ५।२।११४

अत इनिठनौ। अदन्तान्मत्वर्थे इनि ठन् एतौ स्त इत्यर्थः। समुच्चयार्थकान्यतरस्याङ्ग्रहणानुवृत्तेर्मतुलपि भवति। एकाक्षरात्कृतो जातेः सप्तम्यां च न तौ स्मृतौ" इति भाष्यम्। एकाक्षरात्-स्बवान्, कृतः-कारकवान्, जातेः-वृक्षकवान्, सप्तम्यां--दण्जा अस्यां शालायां सन्ति दण्डवती। इदं प्रायिकम्। तेन कार्यी कार्यिकः, तण्डुली तण्डुलिक इत्यादि सिद्धमिति भाष्ये स्पष्टम्।

तत्त्व-बोधिनी
अत इनिठनौ १४५८, ५।२।११४

अत इनिठनौ। तपरकरणं किम्()। खट्वावान्। "एकाक्षरात्कृतोजातेः सप्तम्यां च न तौ स्मृतौ"। एकाक्षरात्---स्ववान्। कृतः---कारकवान्। जातेः ----व्याघ्रवान्, सिंहवान्। सप्तम्यां--- दण्ड अस्यां सन्ति दण्डवती शाला। "तदस्यास्ती"ति सूत्रस्थेतिकरणो विषयनियमार्थः सर्वत्रापि संबध्यत इति। क्वचित्कृतोऽपि भवति---कार्यी। कार्यिकः। क्वचित्तु जातेरपि---तण्डुली। तण्डुलिकः। एतच्च काशिकादौ स्पष्टम्ष