पूर्वम्: ३।२।१६७
अनन्तरम्: ३।२।१६९
 
सूत्रम्
सनाशंसभिक्ष उः॥ ३।२।१६८
काशिका-वृत्तिः
सनाशंसभिक्ष उः ३।२।१६८

सनिति सन्प्रत्ययान्तो गृह्यते न सनिर्धातुः, अनभिधानात् व्याप्तिन्यायाद् वा। सन्नन्तेभ्यो धातुभ्यः आशंसेर् भिक्षेश्च तच्छीलादिषु कर्तृषु उः प्रत्ययो भवति। चिकीर्षुः। जिहीर्षुः। आशंसुः। भिक्षुः। आङः शसि इच्छायाम् इत्यस्य ग्रहणं, न शंषेः स्तुत्यर्थस्य।
लघु-सिद्धान्त-कौमुदी
सनाशंसभिक्ष उः ८४३, ३।२।१६८

चिकीर्षुः। आशंसुः। भिक्षुः॥
न्यासः
सनाशंसभिक्ष उः। , ३।२।१६८

"सन्प्रत्ययो गृह्रते" इति। "गुप्तिज्किद्भ्यः" ३।१।५ इत्यादिना यो विहितः। "न सनिर्धातुः"इति। "षणु दाने" (धा।पा।१४६४) " वन षण सम्भक्तौ" (धा।पा।४६३,४६४) इति न गृह्रते। एतच्च गर्गादिषु जिगीषुशब्दपाठाद्विज्ञायते, स हि प्रत्ययग्रहणे चोपपद्यते, न तु धातुग्रहणे। "आङ शासि इच्छायाम्ित्यादि। एतदप्याङा सह निर्देशाद्विज्ञायते। इच्छार्थो ह्राङसहितः पठ()ते, न स्तुत्यर्थः। "आशंसु, भिक्षुः" इति। अत्र "अनुदात्तेश्च हलादेः" ३।२।१४९ इति युचि प्राप्त उप्रत्ययस्य विधानम्॥
बाल-मनोरमा
सनाशंसभक्ष उः ९५०, ३।२।१६८

सनाशंस। सन्, आशंस, भिक्ष एषां त्रयाणां द्वन्द्वात्पञ्चम्येकवचनम्। "स"निति सन्प्रत्ययान्तं गृह्रते। "षणु दाने", "षण संभक्तौ" इत्यनयोस्तु न ग्रहणं , गर्गादिषु विजिगीषुशब्दापाठाल्लिङ्गात्। एभ्य उप्रत्ययः स्यात्तच्छीलादिष्वित्यर्थः। आशंसुरिति। "आङः शसि इच्छाया"मित्यस्मादुः।

तत्त्व-बोधिनी
सनाशंसभिक्ष उः ७८०, ३।२।१६८

सनाशंस। "स"निति प्रत्ययग्रहणात्तदन्तग्रहणम्। षणु दाने, षण संभक्ताविति धात्वोस्तु नेह ग्रहणं, गर्गादिषु विजिगीषुशब्दस्य पाठात्। आशंसेत्याङः शसि इच्छायामित्ययं गृह्रते, न शंसु स्तुताविति, आङा सह निर्देशात्।