छन्द्सि इति वर्तते, सुपि उपसर्गे ऽपि इति च। आकारान्तेभ्यो धातुभ्यः सुपि उपप्दे छन्द्सि विषये मनिन् क्वनिप् वनिपित्येते प्रत्यया भवन्ति। चकरात् विच् भवति। सुदामा। अश्वत्थामा। क्वनिप् सुधीवा। सुपीवा। वनिप् भूरिदावा। घृतपावा। विच् खल्वपि कीलालपाः। शुभंयः। रामस्य उपदाः।
मनिनो नकार आद्युदात्तार्थः। क्वनिब्वनिपोः पकारानुदात्तार्थौ, इकार उच्चारणार्थः। क्वनिपः पकारः पित्कार्यार्थः, चकारो विचोऽनुकर्षणार्थः। शोभनं ददातीति "सुदामा"। "सर्वनामस्थाने च"
६।४।८ इत्यादिना दीर्घः। अ()आ इव तिष्ठतीत्य()आत्थामा। पृषोदरादित्वात् सकारस्य तकारः। शोभनं दधातीति "सुधीवा"। शोभनं पिबतीति "सुपीवा"। धुमादिनेत्त्वम्
६।४।६६। भूरि ददातीति "भूरिदावा"। घृतं पिबतीति "घृतपावा"। कीलालं पिबतीति "कीलालपाः"॥