पूर्वम्: ३।३।११३
अनन्तरम्: ३।३।११५
 
सूत्रम्
नपुंसके भावे क्तः॥ ३।३।११४
काशिका-वृत्तिः
नपुंसके भावे क्तः ३।३।११४

नपुंसकलिङ्गे भावे धतोः क्तः प्रत्ययो भवति। हसितम्। सहितम्। जल्पितम्।
न्यासः
नपुंसके भावे क्तः। , ३।३।११४

"तयोरेव कृत्यक्तखलर्थाः " ३।४।७० इति भावे क्तः सिद्धः। नपुंसके भावेऽपि क्तोऽयं विशेषविहितेन ल्युटा बाध्यत इति योगरम्भः॥
बाल-मनोरमा
नपुंसके भावे क्तः ८९३, ३।३।११४

नुपंसके भावे क्तः। कालसामान्ये इति। अस्य वर्तमानाद्यधिकारानन्तर्भावादिति भावः। अकर्मकेभ्य एव नपुंसके भावे क्तः, नतु सकर्मकादिति "णेरध्ययने वृत्त"मिति सूत्रे भाष्यकैयटयोः स्पष्टम्। तद्ध्वनयन्नकर्मकेभ्य एवोदाहरति-- जल्पितमित्यादि। गतं भुक्तमित्यादौ त्वविक्षितकर्मकत्वादकर्मककत्वं बोध्यम्। अत एव गतं हंसस्य, भुक्तमोदनस्येत्यादौ शेषत्वविक्षया षष्ठीति दिक्।