पूर्वम्: ४।१।९
अनन्तरम्: ४।१।११
 
सूत्रम्
न षट्स्वस्रादिभ्यः॥ ४।१।१०
काशिका-वृत्तिः
न षट्स्वस्रादिभ्यः ४।१।१०

षट्संज्ञाकेभ्यः स्वस्रादिभ्यश्च प्रातिपदिकेभ्यः स्त्रीप्रत्ययो न भवति। यो यतः प्राप्नोति स सर्वः प्रतिषिध्यते। पञ्च ब्राह्मण्यः। सप्त। नव। दश। स्वस्रादिभ्यः स्वसा। दुहिता। ननान्दा। याता। माता। तिस्रः। चतस्रः। षट्संज्ञानामन्ते लुप्ते टाबुत्पत्तिः कस्मान् न स्यत्। प्रत्याहाराच् चापा सिद्धं दोषस्त्वित्त्वे तस्मान् न उभौ।
लघु-सिद्धान्त-कौमुदी
न षट्स्वस्रादिभ्यः २३४, ४।१।१०

ङीप्टापौ न स्तः॥स्वसा तिस्रश्चतस्रश्च ननान्दा दुहिता तथा।याता मातेति सप्तैते स्वस्रादय उदाहृताः॥स्वसा। स्वसारौ॥ माता पितृवत्। शसि मातॄः॥ द्यौर्गोवत्॥ राः पुंवत्॥ नौर्ग्लौवत्॥
लघु-सिद्धान्त-कौमुदी
इत्यजन्तस्त्रीलिङ्गाः २३४, ४।१।१०

लघु-सिद्धान्त-कौमुदी
अथाजन्तनपुंसकलिङ्गाः २३४, ४।१।१०

न्यासः
न षट्स्वरुआआदिभ्यः। , ४।१।१०

यो यतः प्राप्नोति स सर्वः प्रतिषिध्यते" इति। ङीपोऽनन्तरत्वात् तस्यैवायं प्रतिषेध इत्याशङ्काया निरासार्थमिदमुक्तम्। ननु चात्र "टाबृचि" ४।१।९ इति टाबेवानन्तरः, तत् कुतो ङीपोऽनन्तरत्वम्? अस्वरितत्वात्। अस्य टापो ङीप एवानन्तर्यं युक्तम्। ननु च षट्संज्ञाः संख्याशब्दाः, संख्याश्च भेदमात्रं द्रव्यस्य प्रत्ययायन्ति, न स्त्रीत्वम्, या तु तस्य स्त्रीत्वप्रतीतिः सा शब्दान्तरेण सामानाधिकरण्याद्भवति, न च स्त्रीसमानाधिकरणपक्षः "स्त्रियाम्" ४।१।३ इति सूत्रे स्थितः, तथा च तेभ्यः स्त्रीप्रत्ययस्य प्राप्तिरेव नास्तीत्यपार्थकः प्रतिषेधः? नैतदस्ति; संख्या हि गुणः, "संख्या परिमाणानि पृथक्त्वं संयोगविभागौ" इति वैशेषिकाणां १।१।६ गुणसूत्रे पाठात्। गुणवचनानां चाश्रयतो लिङ्गवचनानि भवन्ति, यथा--शुक्ला शाटी, शुक्लः कम्बलः, शुक्लं वस्त्रम्; शुक्लः शुक्लौ शुक्लाः इति। तथा सति प्रतिषेधे यथा शुक्लादिशब्देभ्यः स्त्रीप्रत्ययो भवति तथा षट्()संज्ञकेभ्योऽपीति स्यात्, यथा-- पञ्च ब्राआहृण्य इति। "षड्भ्यो लुक्" ७।१।२२ इति जसो लुक्। "स्वसा" इति। "अनङ सौ" ७।१।९३ पूर्ववत् "नोपधायाः" ६।४।७ इति दीर्घः। तिसृचतसृशब्दावपि स्वरुआआदिषु पठ()एते, तयोः किमर्थः पाठः? यावता विभक्तौ परतः "त्रिचतुरोः स्त्रियां तिसृचतसृ" ७।२।९९ इति तिसृचतसृभ्यां भवितव्यम्, तत्र यदि तावृकारान्तलक्षमं ङीपं प्रति निमित्तभावं प्रतिपद्येयातां विभक्तेरानन्तर्यं ताभ्यां विहन्येत, एतच्च "सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य" (व्या।प।१२) इत्युक्तम्। तस्मात् सन्निपातलक्षणपरिभाषयैव ङीब्न भविष्यतीति किं प्रतिषेधेन? एवं तह्र्रेतज्ज्ञापयति-- अनित्यैषा परिभाषेति। तेन या, सेति सिद्धं भवति। अत्रापि हि विभक्तौ त्यदाद्यत्वमित्यकारष्टापो निमित्तं न स्यात्, टापि हि सति विभक्तेरानन्तर्यं विहन्यते। परिभाषायस्त्वनित्यत्वेनैव टाब्भवति। "षट्संज्ञानाम्" इत्यादि। पञ्च ब्राआहृण्य इत्यादौ "अवन्तरस्य विधिर्भवति प्रतिषेधो वा" (व्या।प।१९) इति ङीपोऽनन्तरस्य प्रतिषेधे कृते "नलोपः प्रातिपदिकान्तस्य" ८।२।७ इति नकारे लुप्ते सत्याकारान्ततायामुपजातायां टाबुत्पत्तिः कस्मान्न स्यात्?स्यादेव, निमित्तस्य सविधानात्। नलोपस्यासिद्धत्वान्न स्यादिति चेत्? नैतदस्ति; "नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति" ८।२।२ इति परिगणितेष्वेव विधिषु नलोपस्यासिद्धत्वमुच्यते। न च टाब्विधिस्तत्र परिगण्यते, तत् कुतस्तत्र नलोपस्यासिद्धत्वम्? टाब्विधिरपि तत्र परिगण्यत एवेति दर्शयन्नाह-- "प्रत्याहारात्" इत्यादि। चाबिति चाप्सम्बन्धिनं पकारमुपलक्षयति। तदेतदुक्तं भवति-- सुबिति। तत्र न सप्तमीबहुवचनसम्बन्धिना सुपः पकारेण प्रत्याहारो गृह्रते,किं तर्हि? "यङश्चाप्" ४।१।७४ इति चाप्सम्बन्धिना। तस्माट्टापो विधिरपि सुब्विधिरेव; टापोऽपि प्रत्याहारान्तर्भावात्। ततश्च टाब्विधावपि नलोपस्यासिद्धत्वेन भवितव्यमिति सिद्धं सर्वमिष्टम्। सिध्यत्येव। "दोषस्त्वित्त्ववे" इति। बहूनि चर्माण्यस्यां नगर्यामिति बहुव्रीहिः। "शेषाद्विभाषा" ५।४।१५४ इति कप्, टाप्, नलोपः। अत्रेदानीं "प्रत्ययस्थात्कात्" ७।३।४४ इत्यनेनेत्त्वमिष्यते बहुचर्मिकेति यथा स्यात्, तच्च न प्राप्नोति, न ह्रत्र कात् पूर्वोऽकारः; सिद्धत्वार्थं सर्वविभक्त्यन्तः समास आश्रितः। सुपो विधिः सुब्विधिः, सुपिवा विधिः सुब्विधिरिति। यदि च टाबपि सुप् स्यात्, ततस्त्रत्रापि परत्रावस्थित इत्त्वमुच्यत इति तदपि सुब्विधिः स्यात्-- सुपि विधिरिति कृत्वा। ततस्तस्मिन्नपि कर्त्त्व्ये नलोपस्यासिद्धत्वं स्यात्, तवयुक्तश्चापा प्रत्याहारः। "तस्मान्नोभौ" इति। यस्मादेवं चापा सह प्रत्याहारे दोषस्तमादुभावपि टाब्ङीपौ न भवत इति प्रतिषिद्धौ। कथमिह हि स्त्रियामित्यर्थोऽपेक्षते? अस्मिन्नर्थे यदुक्तं भवतीति स्त्र्यर्थे चोभौ ङीप्टापावुक्तावित्युभावपि भवतः॥
बाल-मनोरमा
न षट्स्वरुआआदिभ्यः ३०६, ४।१।१०

"ऋन्नेभ्यः" इति ङीपि प्राप्ते--न षट्। षट् इत्यनेन षट्संज्ञका गृह्रन्त इत्याह--षट्संज्ञकेभ्य इति। ङीप्टापाविति। "ऋन्नेभ्यः" इत्यतो "ङी"विति, "टावृचि" इत्यतष्टावित्यस्य चानुवृत्तेरिति भावः। स्वरुआआदीन् पठतिस्वसा तिरुआ इत्यादिना। अथ "तिसृचतसृ" इत्यनयोः पाठो न कर्तव्यः, "न तिसृचतसृ" इति नामि दीर्घनिषेधादेव लिङ्गान्ङीबभावसिद्धेरिति "कृन्मेजन्तः" इति सूत्रे कैयटः। न नन्दतीनि ननान्दा। "नञि च नन्देः" इति ऋन्, वृद्धिश्च। "ननान्दा तु स्वसा पत्युः" इत्यमरः। दोग्धीति दुहिता। "नप्तृनेष्टृत्वहोतृपोतृभ्रातृजामातृपितृदुहितृ" इति दुहेस्तृच्। इट् गुणाऽभावश्च निपातितः। मान्यते पूज्यते इति माता। मान पूजायाम्। तृचि नलोपश्च। यतते इति याता। "यतेर्वृद्धिश्च" इति ऋन्, उपधावृद्धिश्च। "भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम्" इत्यमरः। अतृन्नितीति। स्वसृशब्दात् सुः, "ऋदुशनस्" इत्यनङ्, तृप्रत्ययान्तत्वाऽभावेऽपि "अप्तृन्" इति सूत्रे स्वसृग्रहणाद्दीर्घ इति भावः। माता पितृवदिति। "अप्तृन्" इति सूत्रे औणादिकतृन्तृजन्तेषु नप्त्रादीनामेव दीर्घनियमनादिति भावा। इत्यृदन्ताः। अथ ओदन्ताः। द्यौर्गोवदिति। ओतो णित्" इति णिद्वत्त्वाऽतिदेशात्। "अचो ञ्णिति" इति वृद्धिः। "द्योदिवौ द्वे स्त्रियामभ्र"मित्यमरः। इत्योदन्ताः। अथ ऐदन्ताः। राः पुंवदिति। "रायो हली"त्यात्वम्। "राः स्त्रीत्येके" इति क्षीरस्वाम्युक्तेः स्त्रीलिङ्गोऽप्ययमिति भावः। इत्यैदन्ताः। अथ ओदन्ताः नौर्ग्लौवदिति। स्त्रियां नौस्तरणिस्तरिः" इत्यमरः। इत्यौदन्ताः।

*****इति बालमनोरमायामजन्ताः स्त्रीलिङ्गा*****

*****अथाजन्तनपुंसकलिङ्गप्रकरणम्।*****

तत्त्व-बोधिनी
न षट्स्वस्त्रादिभ्यः २६८, ४।१।१०

न षट्स्वस्त्रादिभ्यः। "स्त्रियां यदुक्तं तन्न भवती"ति व्याख्यानादनन्तरो ङीबिव व्यवहितष्टबपि निषिध्यत इत्याशयेनाह----ङीष्टापौ नेति। स्वस्त्रादीनां ङीप्प्राप्तः। षट्संज्ञकानां तूभौ। स्वसा तिरुआ इति। "न तिसृचतसृ"इति नामि दीर्घत्वप्रतिषेधाज्ज्ञापकादेव ङीबभावे सिद्धे स्वस्त्रादिषु तिसृचतसृशब्दपाठो न कर्तव्य इति "कृन्मेजन्तः"इति सूत्रे कैयटः। स्वसेति। "सावसेरृन्"। "ऋदुशन"इत्यनङ्। "ननान्दा तु स्वसा पतच्युः"। "भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम्"। द्यौर्गोवदिति। "गमेर्डोः"बाहुलकाद्दयुतेरपि। डित्त्वाट्टिलोपः। "ओतो णि"दिति णिद्व द्भावाद्वृद्धिः। राः पुंवदिति। यद्यपि पुंलिङ्गः एवायम्, अर्थरैविभवा अपि"इत्यमरोक्तेः। भिन्नलिङ्गानां न द्व"न्द्व इति तेन परिभाषितत्वात्, तथापि "रात्येनं राः। स्त्रीत्येके"इति क्षीरस्वामिनास्त्रीलिङ्गताया अप्यभ्युपगमादेवमुक्तम्। नौर्ग्लौवदिति। "ग्लानुदिभ्यां ङौः"। डित्वाट्टिलोपः। "स्त्रियां नौस्तरणिस्तरि"रित्यमरः।