सूत्रम्
कौमारापूर्ववचने॥ ४।२।१२
काशिका-वृत्तिः
कौमारापूर्ववचने ४।२।१३
कौमार इत्येतदण्प्रत्ययन्तं निपात्यते ऽपूर्ववचने। पाणिग्रहणस्य अपूर्ववचनम्। उभ्यतः स्त्रियाः अपूर्वत्वे निपातनम् एतत्। अपूर्वपतिं कुमारीं पतिरुपपन्नः कौमारः पतिः। कुमारीशब्दाद् द्वितीयासमर्थादुपयन्तरि प्रत्ययः। अपूर्वपतिः कुमारी पतिम् उपपन्ना कौमारी भार्या। प्रथमान्तादेव स्वार्थे प्रत्ययो ऽपूर्वत्वे द्योत्ये। कौमारापूर्ववचने कुमार्या अण् विधीयते। अपूर्वत्वं यदा तस्याः कुमार्यां भवति इति वा। कुमार्यां भवः कौमारः पतिः, तस्य स्त्री कौमारी भार्या इति सिद्धम्।
न्यासः
कौमारापूर्ववचने। , ४।२।१२
"अपूर्ववचने"इति। अपूर्वस्य वचन इति, अपूर्वाभिधान इत्यर्थः। कस्यापूर्ववचनमित्याह--"पाणिग्रहणस्य" इत्यादि। एतच्च सामान्योक्तावपि निपातनसामथ्र्याल्लभ्यते। यथैव हि निपातनसामथ्र्यादन्यदपि किञ्चिदलाक्षणिकं कार्यं लभ्यते,तथेदमपि। "उभयतः स्त्रियाम्" इत्यादि। यदि कौमार इति पुमानभिधीयते, एवमप्यस्यापूर्वत्वं यदा स्त्रिया एव विशेषणं भवति, न पुंसः एवमतन्निपात्यते नान्यथेत्यर्थः। "अपूर्वपतिम्" इति। नास्याः पूर्वः पतिरिति बहुव्रीहिः। पत्या सह यस्याः पाणिग्रहणं निवृत्तं साऽपूर्वपतिः। तां पतिरुपपन्नः प्राप्तवानित्यर्थः। "अपूर्वपतिः" इति। अयमपि बहुव्रीहिः।
"कौमारापूर्ववचने" इत्यादि। कौमार इत्येतन्निपात्यते, अपूर्ववचने। किं पुनरिह निपात्यत इत्याह-- "कुमार्या अण्विधीयते" इति। कुमारीशब्दादण् निपात्यत इत्यर्थः। कदेत्याह-- "अपूर्वत्वं यदा तस्याः" इति। इह हि निपातनेन पुमानभिधीयते, स्त्री वा,तत्र द्वयोरपि पक्षयोरपूर्वत्वम्। यदा तस्याः स्त्रिया विशेषणं भवति, न पुंसः, तदेतन्निपातनम्, नान्यथेत्यर्थः। "कुमार्या भवतीति वा" इति। अनेन योगः प्रत्याख्यायते। यो हि कुमारीं प्राप्तवानसौ तत्र भवति। ततस्च "तत्र भवः"
४।३।५३ इति शैषिके भवार्थेऽणन्तं कौमारशब्दं व्युत्पद्येत,ततः पुंयगोलक्षणे ङीषि सति हि कुमारीत्येतत् सिद्धम्। स्वरकृतो विशेषो नास्त्येव। तथा हि अणन्तान्ङीष्यपि कृते "यस्येति च"
६।४।१४८ इति लोपे च "अनुदात्तस्य च यत्रोदात्तलोपः"
६।१।१५५ इत्युदात्तेन ङीपा भवितव्यम्। ङीष् प्रत्ययस्वरेणाद्युदात्त एव।
ननु चैवं सति कौमारस्य याऽन्यापि स्त्रीकौमारव्यपदेशस्य कारणं सापि कौमारीति प्रसज्यते? नैष दोषः; प्रत्यासत्तेर्हि या तस् प्रत्यासन्ना सैव तस्य कौमारीति भविष्यति।
का पुनस्तस्य प्रत्यासन्ना? या कौमारे व्यपदेशस्य हेतुः। यस्यामसौ भवन् कौमार इत्युच्यते सैव, नान्या। यद्यपि व्यासादयोऽपि कुमार्या भवन्ति तथापि तेष्वण्, न भविष्यति; अनभिधानात्। एतच्चावश्यमनभिधानमाश्रयणीयमिति; इतरथा हि क्रियमाणेऽपि निपातने "तत्र भवः"
४।३।५३ इत्यनेनाण् स्यादेव॥
बाल-मनोरमा
कौमासऽपूर्ववचने ११९६, ४।२।१२
कौमारापूर्व। तेनेति परिवृतो रथ इति च निवृत्तम्। अविभक्तिक इति। लुप्तप्रथमाक इति भावः। अपूर्वशब्दो भावप्रधान इत्याह--अपूर्वत्वे निपातनमिदमिति। न पूर्व पतिर्यस्याः सा अपूर्वपतिः, तां कुमारीमुपयतवान् पतिरित्यर्थे द्वितीयान्तात्कुमारीशब्दादण् स्यादित्येकोऽर्थः। कुमारी अपूर्वपतिमुपपन्नेत्यर्थे प्रथमान्तात्कुमारीशब्दादण् स्यादित्यन्योऽर्थः। आद्यो उदाहरति--अपूर्वपतिमिति। द्वितीये उदाहरति--यद्वेत्यादि। आद्ये उपयन्तरि प्रत्ययः। द्वितीये उपयतायां स्वार्थे प्रत्यय इति विवेकः।
तत्त्व-बोधिनी
कौमाराऽपूर्ववचने ९८८, ४।२।१२
कौमारा। तेनेति निवृत्तम्। "अपूर्व"इति भावप्रधानो निर्देश इत्याह---अपूर्वत्वे इति। अपूर्वत्वं तु स्त्रिया एवेष्यते, पुरुषस्तु अपूर्वभार्योऽस्तु वा मा वेत्यनाग्रहः। अपूर्वपतिमिति। न पूर्वं पतिर्यस्या इति बहुव्रीहिः। कौमारः परिति। द्वितीयान्तात्कुमारीशब्दादुपयन्तरि प्रत्ययः। कौमारीति। इह कुमारीशब्दात्प्रथमान्तात्स्वार्थे प्रत्ययः, "टिढ्ढा"णिति ङीप्। तत्रोद्धृत। "सास्मिन्पौर्णमासी"ति सूत्रात्प्राक् "तत्रे"त्यधिकारः। पात्रवाचिभ्यः सप्तम्यन्तेभ्य उद्धृतमित्यर्थे यथाविहितं प्रत्ययाः स्युः।