पूर्वम्: ६।१।१५४
अनन्तरम्: ६।१।१५६
 
सूत्रम्
अनुदात्तस्य च यत्रोदात्तलोपः॥ ६।१।१५५
काशिका-वृत्तिः
अनुदात्तस्य च यत्र उदात्तलोपः ६।१।१६१

उदात्तः इति वर्तते। यस्मिन्ननुदात्ते परतः उदात्तो लुप्यते तस्य अनुदात्तस्यादिरुदात्तो भवति। कुमार ई कुमारी। कुमारशब्दो ऽन्तोदात्तः, तस्य ङीप्यनुदाते उदात्तो लुप्यते। अनुदात्तो ङीपुदात्तः। भस्य टेर्लोपः ७।१।८८। पथः। पथा। पथे। पथिन्शब्दो ऽन्तोदात्तः। कुमुदनडवेतसेभ्यो ड्मतुप्। कुमुद्वान्। नड्वान्। वेतस्वान्। कुमुदादयो ऽन्तोदात्ताः। ड्मतुबनुदात्तः। अनुदात्तस्य इति किम्? प्रासङ्गं वहति प्रासङ्ग्यः। प्रासङ्गशब्दस्थाथादिस्वरेण अन्तोदात्तः। तस्य यति तित्स्वरितम् इति स्वरिते उदात्तो लुप्यते? न एतदस्ति, स्वरिते हि विधीयमाने परिशिष्टम् अनुदात्तम्, तत् कुत उदात्तलोपः। तदेतदनुदात्तग्रहणमादेरनुदात्तस्य उदात्तार्थम्। अन्तः इति हि प्रकृतत्वादन्तस्य स्यात्, मा हि धुक्षाताम्, मा हि धुक्षाथाम्। यत्र इति किम्? भर्गवः, भार्गवौ, भृगवः। प्राक् सुबुत्पत्तेर् गोत्रप्रत्ययस्य लुक्। उदात्तग्रहणं किम्? बैदी और्वी।
न्यासः
अनुदात्तस्य च यत्रोदात्तलोपः। , ६।१।१५५

"कुमारौ" इति। "वयसि प्रथमे" ४।१।२० इति ङीप्(), "यस्येति च" ६।४।१४८ इत्यकारलोपः। "कुमारशब्दोऽन्तोदात्तः" इति। प्रातपदिकस्वरेण। एवमुत्तरत्राप्यन्तोदाततता वेदितव्या। "ङीप्()" इति। "अनुदात्तः" इति। पित्त्वात्()। "प्रासङ्ग्यः" इति। "तद्वहति" ४।४।७६ इत्यादिना प्राग्घितीयो यत्()। "प्रसङ्गशब्दः" इत्यादि। "षन्ज सङ्गे" (धा।पा।९८७) इत्यस्माद्घञमुत्पाद्य प्रासङ्गशब्दो व्युत्पाद्यते, तस्य "गतिकारकोपपदात्()" ६।२।१३८ इति "तत्पुरुषे" ६।२।१२२ इति वरत्तमाने "थाथघञ्क्ताजबित्रकाणाम्()" ६।२।१४३ इत्यन्तोदात्तत्वं विहितम्(), अतो।सावन्तोदात्तः। "नैतदस्ति" इति। "उदात्तो लुप्तते" इति यदुक्तं तस्य प्रतिषेधः। कस्मान्नैतदस्तीत्याह--"स्वरिते हि" इत्यादि। स्वरविधिसमकालमेव शिष्टस्यानुदात्तत्त्वं भवतीति प्रातिपदिकमेतत्()। तस्मात्? स्वरिते विधीयमाने परिशिष्टस्यानुदात्तत्वेन भवितव्यम्()। तत्? कुत उदात्तलोपः? न कुतश्चिदित्यर्थः। "तदेतत्()" इत्यादि। यस्मादेवमनुदात्तग्रहणस्य प्रत्युदाहरणं न सम्भवति, तस्मादनुदात्तग्रहणमेतदादेरनुदात्तस्योदात्तत्वं यथा स्यादित्येवमर्थम्(); अन्यथा ह्रस्यानर्थक्यमेव स्यात्()। किं पुनः कारणमादेरनुदात्तस्योदात्तो न सिध्यति, यतस्तदर्थमनुदात्तग्रहणं क्रियते? इत्यत आह--"अन्त इति हि" इत्यादि। अवधारणमात्रं द्रष्टष्यम्()। अन्तस्यैव स्यात्, नादेरित्यर्थः। क्व पुनरादेरुदात्तार्थमनुदात्तग्रहणं क्रियते? इत्याह--"मा हि धुक्षाताम्()" इत्यादि। दुहेर्लुङ्(), आत्मनेपदमातामाथाम्(), ततश्च "शल इगुपधादनिटः क्सः" ३।१।४५ इति च्लेः क्सादेशः, "तास्यानुदात्त" ६।१।१८० इत्यादिना लसार्वधातुकस्यानुदात्तत्वम्(), "क्सस्याचि" ७।३।७२ इत्यकारलोपः, क्सस्याकारः प्रत्ययस्वरेणोदात्तः, "दादेर्धातोर्घः" ८।२।३२ "खरि च" ८।४।५४ इति चत्र्वम्(), घकारस्य ककारः, षत्वम्()। अत्रासत्यनुदात्तग्रहण आतामाथामाकारस्यादिभूतस्यानुदात्तत्वं न स्यात्(), सति त्वस्मिन्नाकारस्यादिभूतस्योदात्तत्वं स्यात्()। हिशब्दस्य प्रयोगे "हि च" ८।१।३४ इति निघातप्रतिषेधो न स्यात्()। निघाते हि तिङ्न्तस्यासत्युदात्तलोपो न स्यात्()। माङ्प्रयोगोऽप्यटः "न माङ्योगे" ६।४।७४ इति प्रतिषेधो यथा स्यात्()। अटि हि तस्योदात्तत्वाच्छेषस्यानुदात्तत्वं स्यात्(), तथा च सत्यनुदात्तस्थाकारलोपः स्यात्(), नोदात्तस्य। "भृगवः" इति। भृगोरपत्यानि "ऋष्यन्धकवृष्णि" ४।१।११४ इत्यादिना ऋष्यण, तस्य "अत्रिभृगुकुत्स" २।४।६५ इत्यादिना बहुषु लुक्()। ननु चात्रापि विभक्तावुत्पन्नायामुदात्तस्य लोपः, तस्मादिहापि भवितव्यमेव? इत्यत आह--"प्राक्? सुबुत्पत्तेः" इत्यादि। न हि गोत्रप्रत्ययसय लुग्विधौ विभक्तिर्निमित्तत्वेनाश्रीयते। तस्मात्? प्रागेव गोत्रप्रत्ययस्य लुक्(), ततो नात्रानुवात्तत्वम्()। "बैदी, और्वी" इति। विदस्यापत्यम्(), उर्वस्यापत्यमिति "अनृष्यानन्तर्य्ये बिदादिभ्योऽञ्()" ४।१।१०४ इत्यञ्(), ञित्स्वरेणाद्युदात्तः "टिढ्ढाणञ्()" ४।१।१५ इति ङीप्()॥