पूर्वम्: ५।१।२१
अनन्तरम्: ५।१।२३
 
सूत्रम्
संख्याया अतिशदन्तायाः कन्॥ ५।१।२२
काशिका-वृत्तिः
सङ्ख्याया अतिशदन्तायाः कन् ५।१।२२

आर्हातित्येव। सङ्ख्याया अत्यन्ताया अशदन्तायाश्च कन् प्रत्ययो भवति आर्हीयेषु अर्थेषु। ठञो ऽपवादः। पञ्चभिः क्रीतः पञ्चकः पटः। बहुकः। गणकः। अतिशदन्तायाः इति किम्? साप्ततिकः। चात्वारिंशत्कः। अर्थवतस्तिशब्दस्य ग्रहणाड् डतेः पर्युदासो न भवति, कतिकः।
न्यासः
संख्याया अतिशदन्तायाः कन्?। , ५।१।२२

"पञ्चकः पटः" इति। लौकिक्याः संख्याया उदाहरणम्()। "बहुकः" इत्यादि। परिभाषितायाः। "चत्वारिंशत्कः" इति। "इसुसुक्तान्तात्? कः" ७।३।५१। "अर्थवर्तास्तशब्दस्य ग्रहणात्()" इति। अर्थवद्ग्रहणपरिभाषया (व्या।प।१।)। "डतेः पर्युदासो न भवति" इति। शब्दापेक्षयाऽवयवषष्ठीति। प्रत्ययस्य य एकदेशस्तिशब्दस्तस्य पर्युदासो न भवति, न ह्रयमर्थवान्()। "कतिकः" इति। किं परिमाणमेषामिति "किमः संख्यापरिमाणे डति च" ५।२।४१ इति डतिः, "टेः" ६।४।१४३ इति टिलोपः। कतिभिः क्रीतमिति विगृह्र कन्()। यद्यर्थवतस्तिशब्दस्य ग्रहणम्, नवतेर्यस्तिशब्दस्तस्यापि पर्युदासो न प्राप्नोति; नवतिशब्द एव हि समुदायः संख्याविशेषेणार्थवान्(), न तदेकदेशस्तिशब्दः? नैष दोषः; नवतिशब्दे यो नवशब्दः सोऽनेकार्थः। तथा च संख्याविशेषावगतमतो नवशब्दात्? परो यस्तिशब्दस्तत एत विज्ञायते; तद्भावे भावात्()। अशीतिशब्दस्य तर्हि तिशब्दस्य पर्युदासो न प्राप्नोति, नासावर्थवान्()? नापि ततः पूर्वो योऽशीशब्दस्तस्य कश्चिदर्थोऽस्ति, समुदाय एव तु संक्याविशेषेणार्थवान्? नैतदस्ति; यद्यप्यशी-इतिशब्दस्य न कश्चनार्थः प्रकाशते, तथापि प्रतिज्ञायते। अशीतिशब्दो ह्रेवं व्युत्पाद्यते--अष्टानां दशानामशीभावः, तिशब्दश्च प्रत्ययः। य एवाष्टानां दशानामार्थः सोऽशीशब्दस्य, यस्तु संखघ्याविशेषः सोऽयं तिशब्दस्यैवेति, ततस्तस्य नानर्थक्यम्()। एवमपि विशतेः प्रतिषेधो न सिध्यति? स ह्रेवं व्युत्पाद्यते--द्वयोर्दशतोर्विन्भावः, शतिंश्च प्रत्यः। तत्र शतिप्रत्ययात्? पूर्वस्य भागस्य द्वयोर्दशतोर्योऽर्थः स एव प्रतिज्ञायते शतिप्रत्यस्य, संखायविशेषः, तिशब्दस्य न कश्चित्()। इष्टमेव तत्()। संग्राहितः कन्? विंशतेः--"तदिं()वशतिकम्()" इति। अथ "अतिशदन्तायाः" इत्यत्रान्तग्रहणं किमर्थम्(), अतिशच्छब्दस्य न प्राग्वतीयत्वात्? प्रत्ययग्रहणपरिभाषयैव (पु।प।ल।वृ।४४) तदन्तविधिर्भविष्यति/ एवदेव तर्हि प्रयोजनम्()--अनयचा परिभाषया तदन्तविधिर्मा भूदिति। किञ्च स्यात्()? इहैकसप्तत्या क्रीत इति प्रतिषेधो न स्यात्(); एकसप्तदशतस्तिप्रत्ययस्याविधानात्()। अन्तग्रहणे तु क्रियमाणे सति समुदायस्यान्ते तिशब्दः श्रुयत इत्यत्रापि प्रतिषेधः सिद्धो भवति॥
बाल-मनोरमा
सङ्ख्याया अतिशदन्तायाः कन् १६६५, ५।१।२२

सह्ख्यायाः। तिश्च शश्च तिशतौ, तौ अन्ते यस्याः सा तिशदन्ता, न तिशदन्ता अतिशदन्ता। द्वन्द्वगर्भबहुव्रीहिगर्भो नञ्तत्पुरुषः। साप्ततिक इति। सप्तत्या क्रीत इत्यर्थः। "तेन क्रीत"मिति ठञ्। चात्वारिंशत्क इति। चत्वारिंशता क्रीत इत्यर्थः। "तेन क्रीत"मिति ठञष्ठस्य तकारात्परत्वात्कः।

तत्त्व-बोधिनी
सङ्ख्याया अतिशदन्तायाः कन् १२८५, ५।१।२२

त्यन्तशदन्ताया इति। त्यन्तसहिता शदन्तेत्युत्तरपदलोपी समासः।थ पञ्चक इति। लौकिक्याः सङ्ख्याया उदाहरणम्। बहुक इति। पारिभाषिक्याः। साप्ततिक इति। ठञो ञित्त्वादादिवृद्धिः। ठस्येकादेशे "यस्येति चे"तीकारलोपः। अर्थवतस्तिशब्दस्य ग्रहणाड्डत्यवयवस्य तिशब्दस्य पर्युदासो न भवतिष। कतिकः। चात्वारिंशत्क इति। "इसुसुक्तान्तात्कः"।