पूर्वम्: ५।२।१०१
अनन्तरम्: ५।२।१०३
 
सूत्रम्
अण् च॥ ५।२।१०२
काशिका-वृत्तिः
अण् च ५।२।१०३

तपःसहस्राभ्याम् अण् च प्रत्ययो भवति। तापसः। साहस्रः। योगविभाग उत्तरार्थः, यथासङ्ख्यार्थश्च। अण्प्रकरणे ज्योत्स्नादिभ्य उप्सङ्ख्यानम्। ज्योत्स्ना विद्यते ऽस्मिन् पक्षे ज्यौत्स्नः पक्षः। तामिस्रः। कौण्डलः। कौतपः। वैसर्पः। वौपादिकः।
न्यासः
अण्? च। , ५।२।१०२

"अण्प्रकरणे" इत्यादि ज्योत्स्नादिराकृतिगणः। येभ्यो मतुबर्थेऽण्? दृश्यते ते ज्योत्स्नादयो द्रष्टव्याः। उपसंख्यानशब्दश्चायं प्रतिपादने वत्र्तते। तत्रेदं प्रतिपादनम्()--उत्तरसूत्रे चकारोऽनुक्तसमुच्चयार्थः, तेन ज्योत्स्नादिब्योऽपि भविष्यतीति। "कौण्डलः" इति। कुण्डले योर्हति स एवमुच्यते। अन्यस्तु कुण्डलीत्येव भवति॥
बाल-मनोरमा
अण् च १८८५, ५।२।१०२

अण्च। "तपःसहरुआआभ्यां मत्वर्थे" इति शेषः। ननु "तपःसहरुआआभ्यां विनीन्यणः" इत्येकमेव सूत्रमस्तु। नच तपःसहरुआआभ्यां विनीन्योर्यथासंख्यार्थं पृथक्सूत्रकरणम्, अन्यथा त्रयोऽपि प्रत्यया द्वाभ्यां स्युरिति वाच्यं, "तपःसहरुआआभ्यामण्विनीनी" इति सूत्रकरणे भिन्नविभक्त्युच्चारणादेव अण उभयसम्बन्धस्य, विनीन्योर्यथासंख्य(त्व)स्य च सिद्धेरित्यत आह--योगविभाग उत्तरार्थ इति। उत्तरसूत्रे अण एवानुवृत्त्यर्थ इत्यर्थः।

ज्यौत्स्न इति। "शुक्लपक्ष" इति शेषः। ज्योत्स्ना=चन्द्रिका। सा अस्यास्तीति विग्रहः। तामिरुआ इति। "कृष्णपक्ष" इति शेषः। तमिरुआआः=तमोयुक्ता रात्रयः। ता अस्य सन्तीति विग्रहः। ज्योत्स्नादित्वादण्।

तत्त्व-बोधिनी
अण् च १४४९, ५।२।१०२

उत्तरार्थ इति। विनीन्योर्यथा सङ्ख्यप्रवृत्त्यर्थश्चेत्यपि बोध्यम्।

ज्योत्स्नादिभ्य उपसङ्ख्यानम्। ज्यौत्स्न इति। शुक्लपक्षः। तामिरुआ इथि। कृष्णपक्षो, नरकविशेषश्च। तमःसमूहस्तमिरुआम्। "ज्योत्स्नातमिरुओ"ति निपातनाम्नत्वर्थीयो रः। तत्र ह्रलयवभूतानि तमांसि विद्यन्ते। तदस्मिन्नस्तीति विग्रहे रान्तादण्। स्त्रियां---तामरुआई। "तमिरुआआ तामसी रात्रिर्ज्यौत्स्नि चन्द्रिकयान्विता"इत्यमरोक्तौ तु तमिरुओत्येतद्रान्तं न त्वणन्तमिति न विरोधः। एवं च तमिरुआआ रात्रयो अस्मिन् सन्ति "तामिरुआः पक्ष"इत्यपि व्याख्यातुं शक्यम्।