पूर्वम्: ५।२।१०२
अनन्तरम्: ५।२।१०४
 
सूत्रम्
सिकताशर्कराभ्यां च॥ ५।२।१०३
काशिका-वृत्तिः
सिकताशर्कराभ्यां च ५।२।१०४

सिकताशर्कराभ्याम् अण् प्रत्ययो भवति मत्वर्थे। सैकतो घटः। शार्करं मधु। अदेशे इह उदाहरणम्। देशे तु लुबिलचौ भविष्यतः।
न्यासः
सिकताशरह्कराभ्याञ्च। , ५।२।१०३

"आदेश इहोदाहरणम्()" इति। देश उत्तरसूत्रेण लुबिलचोर्विधास्यमानत्वात्()॥
बाल-मनोरमा
सिकताशर्कगम्यां च १८८६, ५।२।१०३

सिकताशर्कराभ्यां च। "मत्वर्थे अ" णिति शेषः। सैकतो घट इति। सिकता अस्य सन्तीति विग्रहः। देशे लुपो वक्ष्यमाणत्वाद्धट इति विशेष्यम्। "अप्सुमनःसमासिकतावर्षाणां बहुत्वं चे"ति लिङ्गानुशासनसूत्रात्सिकताशब्दो नित्यं बहुवचनान्तः।

तत्त्व-बोधिनी
सिकताशर्कराभ्यां च १४५०, ५।२।१०३

सिकताशर्करा। देशविशेषस्य वक्ष्यमाणत्वादाह---घट इति।