पूर्वम्: ५।२।११४
अनन्तरम्: ५।२।११६
 
सूत्रम्
व्रीह्यादिभ्यश्च॥ ५।२।११५
काशिका-वृत्तिः
व्रीह्यादिभ्यश् च ५।२।११६

व्रीह्यादिभ्यः प्रातिपदिकेभ्यः इनिठनौ प्रत्ययौ भवतो मत्वर्थे। मतुब् भवत्येव। व्रीही, व्रीहिकः, व्रीहिमान्। मायी, मायिकः, मायावान्। न च व्रीह्यादिभ्यः सर्वेभ्यः प्रत्ययद्वयम् इष्यते। किं तर्हि? शिखादिभ्य इनिर्वाच्य इकन् यवखदादिषु। परिशिष्टेभ्य उभयम्। शिखा मेखला संज्ञा बलाका माला वीणा वडवा अष्टका पताका कर्मन् चर्मन् हंसा इत्येतेभ्य इनिरेव इष्यते। यवखद कुमारी नौ इत्येतेभ्य इकन्नेव इष्यते। परिशिष्टेभ्यो द्वावपि प्रत्ययौ भवतः। व्रीहिग्रहणं किमर्थम्, यावता तुन्दादिषु व्रीहिशब्दः पठ्यते, तत्र इनिठनौ चकारेण विधीयेते? एवं तर्हि तुन्दादिसु व्रीहिग्रहणम् अर्थग्रहणम् विज्ञायते। शालयो ऽस्य सन्ति शालिनः, शाली, शालिकः, शालिमानिति। व्रीहिशिखादयः पूर्वं पठिताः। यवखद। कुमारी। नौ। शीर्षान् नञः अशीर्षी, अशीर्षिकः।
लघु-सिद्धान्त-कौमुदी
व्रीह्यादिभ्यश्च ११९५, ५।२।११५

व्रीही। व्रीहिकः॥
न्यासः
व्रीह्रादिभ्यश्च। , ५।२।११५

"शिखादिभ्यः" इत्यादि। उभयत्रादिशब्दः प्रकारे। शिष्टप्रयोगे येभ्य इनिरेव दृश्यते, ते शिखादयो द्रष्टव्याः, ते हि तेभ्यष्ठनं विहितवन्तः। एष तु विषयविभाग इतिकरणानुवृत्तेरेव गृह्रते। "वाच्य" इति। अस्य तु व्याख्येय इत्यर्थः। "यवखदादिषु" इति विषयसप्तमी। "एवं तर्हि" इत्यादि। तुन्दादिषु व्रीहिशब्दस्य स्वरूपग्रहणे सतीह तस्य ग्रहणमनर्थकं ज्ञायत इति सामध्र्यात्? तत्र व्रीहिग्रहणेनार्थग्रहणं विज्ञायते। अर्थग्रहणे सति यदिष्टं सिध्यति तद्दर्शयितुमाह--"शालयोऽस्य सन्ति शालिकः" इत्यादि। "शीर्षान्नञः" इति। नञ उत्तरलस्य शीर्षन्नित्येतस्य प्रत्ययो भवति। निपातनाच्छिरसः शीर्षभावः---अशीर्षी, अशीर्षिकः। अन्ये तु शीर्षन्निति शब्दान्तरं पठन्ति। तस्य तु पाठो भाषायामपि यथा स्यादित्येवमर्थः। अन्यथा "शीर्षंश्छन्दसि" (६।१।६०) इति विधानात्? भाषायाम्? अशीर्षिकः, अशीर्षवानिति न स्यात्()॥
बाल-मनोरमा
व्रीह्रादिभ्यश्च १८९७, ५।२।११५

व्रीह्रादिभ्यश्च। "मत्वर्थे इनिठनौ" इति शेषः।

शिखामालेत्यादि। वार्तिकमिदम्। "शिखा, माला, संज्ञा, वीणा, बडवा, बलाका, पताका, वर्मन्, शर्मन् एभ्य इनिरेव, नतु ठनित्यर्थः। यवखलेति। यवखल, नौ, कुमारी एभ्यष्ठनेव, न त्विनिरित्यर्थः। परिशिष्टेभ्यस्तु व्रीह्रादिगणपठितेभ्य उभावित्यर्थसिद्धम्। इदं वृत्तौ स्पष्टम्।