पूर्वम्: ५।२।११५
अनन्तरम्: ५।२।११७
 
सूत्रम्
तुन्दादिभ्य इलच् च॥ ५।२।११६
काशिका-वृत्तिः
तुन्दादिभ्य इलच् च ५।२।११७

तुन्दादिभ्यः प्रातिपदिकेभ्य इलच् प्रत्ययो भवति मत्वर्थे। चकारादिनिठनौ मतुप् च। तुन्दिलः, तुन्दी, तुन्दिकः, तुन्दवान्। उदरिलः, उदरी, उदरिकः, उदरवान्। तुन्द। उदर। पिचण्ड। घट। यव। व्रीहि। स्वाङ्गाद् विवृद्धौ च। तुन्दादिः।
न्यासः
तुन्दादिभ्य इलच्च। , ५।२।११६

यथासम्भवं मतुबादिषु प्राप्तेष्विदमारभ्यते। "चकारादिनिठनौ मतुप्च" इति। एतेन प्रत्ययचतुष्टयं तुन्दादिभ्यस्त्विनिठनावपि। "स्वाङ्गाद्विवृद्धौ" इति। स्वाङ्गद्विवृद्धौ वत्र्तमानात्? प्रत्ययो भवति। वृद्धौ महान्तौ कर्णावस्य स्तः--कर्णिलः, कर्णिकः, कर्णी, कर्णवान्()॥
बाल-मनोरमा
तुन्दादिभ्य इलच्च १८९८, ५।२।११६

तुन्दादिभ्य इलच्च। मतुप्चेति। समुच्चयार्थकाऽन्यतरस्याङ्ग्रहणानुवृत्तेरिति भावः। उदरादयश्चत्वारस्तुन्दादिगणपठिताः। ()आआङ्गाद्विवृद्धाविति। गणसूत्रमिदम्। वृद्धविषयात्वात्स्वाङ्गादिलच्, इनिठनौ मतुप्चेत्यर्थः। कर्णिल इति। वृद्धौ कर्णौ यस्येति विग्रहः।

तत्त्व-बोधिनी
तुन्दादिभ्य इलच्च १४५९, ५।२।११६

तुन्दादिभ्य इलच्च। अन्यतरस्यामित्यनुवर्तनादाह---मतुप्()चेति। अत्र "स्वाङ्गाद्विवृद्धौ"इति पठ()ते। विवृद्ध्युपाधिकात्स्वाङ्गवाचिन इलजादयः स्युः। विवृद्धौ कर्णावस्य ---कर्णिलः कर्णी कर्णिकः कर्णवान्।