पूर्वम्: ५।२।३७
अनन्तरम्: ५।२।३९
 
सूत्रम्
पुरुषहस्तिभ्यामण् च॥ ५।२।३८
काशिका-वृत्तिः
पुरुषहस्तिभ्याम् अण् च ५।२।३८

तदस्य इत्येव, प्रमाणे इति च। पुरुषहस्तिभ्यां प्रथमासमर्थाभ्यां प्रमाणोपाधिकाभ्याम् अस्य इति षष्ठ्यार्थे अण् प्रत्ययो भवति, चकाराद् द्वयसजादयः। पुरुषः प्रमाणम् अस्य पौरुषम्, पुरुषद्वयसम्, पुरुषदध्नम्, पुरुषमात्रम्। हास्तिनम्, हस्तिद्वयसम्, हस्तिदघ्नम्, हस्तिमात्रम्। द्विगोर् नित्यं लुक्। द्विपुरुषम् उदकम्। त्रिपुरुषम् उदकम्। द्विहस्ति। त्रिहस्ति। द्विपुरुषी। त्रिपुरुषी। द्विहस्तिनि। त्रिहसिनी।
न्यासः
पुरुषहस्तिभ्यामण्? च। , ५।२।३८

"हास्तिनम्()" इति। "हनण्यनपत्ये" ६।४।१६४ इति प्रकृतिभावः। "द्विपुरुषी इति। "पुरुषात्? प्रमाणेऽन्यतरसयाम्()" ४।१।२४ इति ङीप्()। "द्विहस्तिनो इति। अत्र ऋन्नेभ्यो ङीप्()" ४।१।५ इति ङीप्()॥
बाल-मनोरमा
पुरुषहस्तिभ्यामण् च १८१५, ५।२।३८

पुरुषहस्तिभ्यामण् च। "उक्तविषये" इति शेषः। चाद्द्वयसजादयस्त्रयः।

तत्त्व-बोधिनी
पुरुषहस्तिभ्यामण् च १४०१, ५।२।३८

पुरुषहस्तिभ्यामण्च। "इनण्यनपत्ये" इति प्रकृतिभावः। हस्ती प्रमाणमस्य हास्तिनम्। अत्र काशिकायामिक्तं "द्विगोर्नित्यं लुक। द्वुपुरुषमुदक"मित्यादि। व्याख्यातं च हरदत्तेन---यद्यपि "प्रमाणे लो द्विगोर्नित्य"मित्यस्य नायमनुवादः, पुरुषहस्तिनोः शमादिवत्प्रमाणत्वेनाऽप्रसिद्धत्वात्, अतएव हि "पुरुषद्वयस"मित्यादौ ""प्रमाणे लः"इति लुङ् न भवति, तथाप्यपूर्वोऽत्र लुग्विधीयते इति। एतच्चाऽसङ्गतम्। "द्विगोर्नित्यं लु"गित्यपूर्ववचनस्य मुनित्रयाऽनुक्तत्वात्। वस्तुतस्तु विधीयत इत्यस्याऽनुमीयत इत्यर्थः। अयं भावः---"द्विगोः" "तद्धितलुकी"त्यनुवर्तमाने "पुरुषात्प्रमाणेऽन्यतरस्या"मिति ङीब्विकल्प्यते, तदेव लुकमनुमापयतीति।