पूर्वम्: ५।२।३८
अनन्तरम्: ५।२।४०
 
सूत्रम्
यद्तदेतेभ्यः परिमाणे वतुप्॥ ५।२।३९
काशिका-वृत्तिः
यत्तदेतेभ्यः परिमाणे वतुप् ५।२।३९

तदस्य इत्येव। यत्तदेतेभ्यः प्रथमासमर्थेभ्यः परिमाणोपाधिकेभ्यः अस्य इति षष्ठ्यर्थे वतुप् प्रत्ययो भवति। यत् परिमाणम् अस्य यावान्। तावान्। एतावान्। प्रमाणग्रहणे ऽनुवर्तमाने परिमाणग्रहणं प्रमाणपरिमाणयोर् भेदात्। डावतावर्थवैशेष्यान् निर्देशः पृथगुच्यते। मात्राद्यप्रतिघाताय भावः सिद्धश्च डावतोः। वतुप्प्रकरणे युष्मदस्मद्भ्यां छन्दसि सादृश्य उपसङ्ख्यानम्। न त्वा वां अन्यो दिव्यो न पीर्थिवो अ जातो न जनिस्यते। त्वावतः पुरूवसो यज्ञं विप्रस्य मावतः। त्वत्सदृशस्य, मत्सदृशस्य इत्यर्थः।
लघु-सिद्धान्त-कौमुदी
यत्तदेतेभ्यः परिमाणे वतुप् ११७२, ५।२।३९

यत्परिमाणमस्य यावान्। तावान्। एतावान्॥
लघु-सिद्धान्त-कौमुदी
संख्याया अवयवे तयप् ११७५, ५।२।३९

पञ्च अवयवा अस्य पञ्चतयम्॥
न्यासः
यत्तदेतेभ्यः परिमाणे वतुप्?। , ५।२।३९

"यावान्()" इति। "आ सर्वनाम्नः" ६।३।९० इत्यकारः। उगिदचाम्()" ७।१।७० इति नुम्(), "अत्वसन्तस्य चाधातोः" ६।४।१४ इति दीर्घः, हल्ङ्यादिसंयोगान्तलोपौ। प्रमाणपरिमाणशब्दौ पर्यायाविति मत्यमानो पश्चोदयेत्()--अत्र कस्मात्? परिमाणग्रहणं क्रियते, यावता प्रमाणग्रहणमनुवत्र्तत एवेति? तं प्रत्याह--"प्रमाणे इति वत्र्तमाने" इत्यादि। स पुनरनयोः प्रमाणपरिमाणयोर्भेदः "परिमाणं तु सर्वतः, आयामस्तु प्रमाणं स्यात्()" इति प्रागेव व्याख्यातः। "डावतावर्थवैशेष्यात्()" इति। "डावतौ" इति पूर्वाचार्यसंज्ञाप्रतिपादितापेक्षोऽयं निर्देशः, ते हि यत्तदेतेब्यो डावतुमेव प्रत्ययं कृतवन्तः। विशिष्यत इति विशेषः, विशेषस्य भावो वैशेष्यम्()। अर्थस्य वैशेष्यमर्थस्य विशिष्टत्वमित्यर्थः। प्रमाणशपब्दस्यान्योऽर्थः, परिमाणशब्दस्य चान्योऽर्थ इति भिन्नार्थत्वमनयोः; तस्मादर्थवैशेष्याड्डावतौ विधातव्ये परिमाणशब्दस्य निर्देशः पृथगुच्यते। उच्यत इति क्रियत इत्यर्थः। किमर्थः पृथिग्निर्देशः क्रियते? इत्याह-"मात्राद्यप्रतिघाताय" इति। पृथिग्निर्देशेनार्थबेदे सिद्धे सति मात्रजादीनां बाधा मा बूदित्येवमर्थः पृथग्निर्देशः क्रियत इत्याह। अथैकत्वे तु प्रकृतिसामान्ये मात्रजादयो विधीयमाना उत्सर्गा भवन्ति, प्रकृतिविशेषात्? तु वतुब्? विधीयमानोऽपवादौ भवति, "अपवादेनोत्सर्गो बाध्यते" इति यत्तदेतेभ्यो मात्र जादयो न स्युः, ततश्च तत्प्रमाणमस्य तन्मात्रमित्यादि न सिध्येत्(), अर्थभेद्युत्सर्गापवादभावो नास्तीति न भवत्येष दोषप्रसङ्गः। किञ्च--"भावः सिद्धश्च डावतोः" इति। "डावतोः" इति पञ्चमी। अर्थभेदे सति वतुप्प्रत्ययान्तान्मात्रजादीनामुत्पत्तिश्च सिद्धा भवति। परिमाणे वतुब्? भवति--यत्? परिमाणमस्य यावानिति। तदन्तात्? परिमाणे मात्रजादयो भवन्ति--यावत्? परिमाणमस्य यावन्मात्रम्()। अथैकत्वे तु "उक्तार्थानामप्रयोगः" (व्या।प।६०) ति मतुपाऽबिहितत्वादस्यार्थस्य तदन्तान्मात्रजादयो न स्यु-। "त्वावतः, मावतः" इति। मपर्यन्तयोर्युष्मदस्मदोः "प्रत्ययोत्तरपदयोश्च" ७।२।९८ इति त्वामादेशौ पूर्ववदात्त्वम्()॥
बाल-मनोरमा
यत्तदेतेभ्यः परिमाणे वतुप् १८१६, ५।२।३९

यत्तदेतेभ्यः। तदस्येत्यनुवर्तते। अस्य तत्परिमाणमित्यर्थे परिमाणवाचिभ्यः प्रथमान्तेभ्यः किम्, यद्, तद्, एतद्, एभ्यो वतुप् स्यादित्यर्थः। यावानिति। यच्छब्दाद्वतुप्। उपावितौ। "आ सर्वनाम्नः" इत्यात्त्वम्, सुः, "उगिदचामि"ति नुम्, "अत्वसन्तस्ये"ति दीर्घः, हल्ङ्यादिसंयोगान्तलोपौ। एवं तावान्, एतावान्।

तत्त्व-बोधिनी
यत्तदेतेभ्यः परिमाणे वतुप् १४०२, ५।२।३९

यत्तदेतेभ्यः। यावानित्यादि। "आ सर्वनाम्नः"इत्यात्वे "उगिदचा"मिति नुम्। "अत्वसन्तस्य चे"ति दीर्घः। हल्ड()आदिलोपसंयोगान्तलोपौ। "प्रमाणे"इत्यनुवर्तमाने परिमाणग्रहणं प्रमाणपरिमाणयोर्भेदात्कृतम्। तथा च वार्तिकम्---"डावतावर्थवैशेष्यान्निर्देशः पृथगुच्यते। मात्राद्यप्रतिघाताय भावः सिद्धश्चडावतोः। इति। अस्यार्थः---इह शास्त्रे वतुपं विधाय तस्मिन् परे आत्वं विहितम्। पूर्वाचार्यास्तु डावतुं विदधिरे, तद्वीत्या निर्देशोऽयं डावताविति। विशेष्यते इति विशेषः, तस्य भावो वैशेष्यं, तस्मात्, अर्थभेदादित्यर्थः। अर्थभेदस्तु---"परिमाणं तु सर्वतः। आयामस्तु प्रमाणं स्या"दिति प्रागेवोक्त इति भावः। नन्वनयोरर्थभेदे सति यावानध्वा यावती रज्जुरित्यादि न सिध्येत्, अत्र ह्रायाममात्रं गम्यते। यद्युपमानाद्भविष्यतीति ब्राऊषे, तर्हि प्रमाणग्रहणमेवानुवर्त्त्यतां, यावानध्वेत्यादिप्रयोगाश्च मुख्याः सन्तु। ये तु परिमाणे प्रयोगाः "यावान् धान्यराशि"रित्यादयः, त एवोपमानाद्भवन्तु। तत्राह---"मात्रादिति"। "यत्तदेतेभ्यः"इति विशेषविहितो हि वतुप् सामान्यविहितान् मात्रजादीन् बाधेत। तेन तन्मात्रमित्यादि न स्यात्। परिमाणग्रहणे सति तु भिन्नोपाधिकत्वाद्वतुपः प्रमाणे विहितमात्रजादिभिः सह बाध्यबाधकभावो नेति भावः। नन्वेवमपि बाधः स्यादेव, "प्रमाणे द्वयस"जित्यत्र प्रस्थमात्रमित्यादिसिद्धये प्रमाणग्रहणस्य परिच्छेदकमात्रपरतया व्याख्यातत्वेन वतुपो यत्तदेतेभ्यो विहितत्वेन विशेषविहितत्वातनपायात्। तस्मात् "यत्तदेतेभ्यो वतुप् चे"त्येव सूत्र्यतां, मास्तु परिमाणग्रहणम्, अस्तु च प्रमाणे इत्यर्थाधिकारः, तेन "यावती रज्जुः" "यावान् धान्यराशि"रित्यादिप्रयोगाः सर्वेऽप्युपचारं विनैव निर्वहन्तीत्यपरमनुकूलमत आह---"भावः सिद्धश्चेति"। डावतोरिति पञ्चम्यन्तम्। अर्थभेदे सति वत्वन्तान्मात्रजादीनामुत्पत्तिः सिध्यति। तत्परिमाणमस्य तावद्धान्यं राशीकृतम्। तावत्प्रमाणमस्य कुड()आदेः "तावन्मात्रम्"। यादृग्राशीकृतस्य धान्यादेर्दैध्र्यं तादृशं कुड()आदेरपीत्यर्थः। एकविषयत्वे तु वतुपैव विशिष्टस्य प्रमेयस्योक्तत्वाद्वतुबन्तान्मात्रजादयो न स्युः। यस्य हि तावत्प्रमाणं तस्यतदपि प्रमाणम्। जानुप्रमाणकं जलादि यस्य प्रमाणं तदपि जानुप्रमाणकमिति वक्तुं शक्यत्वात्। एवं च तावच्छब्द एव प्रयुज्येत न तु "तावन्मात्र"मित्यादि। अन्यथा तत्प्रमाणमस्य तन्मात्रम्। तन्मात्रं प्रमाणमस्य तन्मात्रमात्रमित्येवं मात्रजादिभ्यः प्रत्ययमालाप्रसङ्गात्।