पूर्वम्: ५।२।३९
अनन्तरम्: ५।२।४१
 
सूत्रम्
किमिदंभ्यां वो घः॥ ५।२।४०
काशिका-वृत्तिः
किमिदम्भ्यां वो घः ५।२।४०

किमिदम्भ्याम् उत्तरस्य वतुपो वकारस्य घकारादेशो भवति। कियान्। इयान्। एतदेव चादेशविधानं ज्ञापकं किमिदम्भ्यां वतुप्प्रत्ययो भवति इति। अथ वा योगविभागेन वतुपं विधाय पश्चाद् वो घो विधीयते।
लघु-सिद्धान्त-कौमुदी
किमिदंभ्यां वो घः ११७३, ५।२।४०

आभ्यां वतुप् स्याद् वकारस्य घश्च॥
न्यासः
किमिदम्भ्यां वो घः। , ५।२।४०

"कियान्()। इयान्()" इति। "इदंकिमोरीश्की" ६।३।८९ इति किमः की। "इदम ईश्()" इति। "यस्येति" ६।४।१४८ लोपः। केन पुनः किमिदम्भ्यां विहितस्य वतुपो वकारस्य घत्वं विधीयते? इत्याह--"अथ वा" इत्यादि। "योगविबागेन वा" इति। "किमिदम्भ्याम्()" इत्येतावता योगेन वतुपं विधाय ततः "वो घः" इत्यनेन वतुपो वकारस्य घत्वं विधीयते। अथ वग्रहणं किमर्थम्(), यावता "आदेः परस्य" १।१।५३ इति वकारस्यैव घो विधीयते, ननु चानेकाल्त्वात्? सर्वादेशः प्राप्नोति? नैष दोषः, अकारो ह्रत्रोच्चारणार्थो वर्णमात्रमेव, न त्वादेशः। कुतः पुनरेतद्विज्ञेयम्()? व्याख्यानात्()। तर्हि वकार एवं लघीयानिति युक्तं तस्य स्थानित्वेनोपादनम्()। वकारे त्वस्थानिन्युपात्तै यद्यपि समुदायादेशः, तथापि न दोषः; द्वयोरकारयोः पररूपं भविष्यति॥
बाल-मनोरमा
किमिदंभ्यां वो घः १८१७, ५।२।४०

किमिदंभ्यां वो घः। तदस्येति, परिमाणे वतुविति चानुवर्तते। तदाह--आभ्यां वतुप् स्यादिति। आभ्यां प्रथमान्ताभ्याम् "अस्य तत्परिमाण"मित्यर्थे वतुप्स्यादित्यर्थः। वस्य च घ इति। वकारस्य घकार इत्यर्थः। कियानिति। किं परिमाणमस्येति विग्रहः। किंशब्दाद्वतुप्। उपावितौ। वकारस्य घकारः। इयादेशः। किम् इयत् इति स्थिते "इदङ्किमोरीश्की" इति किमः कीभावे "यस्येति चे"ति ईकारलोपे कियच्छब्दात्सौ "उगिदचा"मिति नुमि अत्वसन्तस्ये"ति दीर्घे, हल्ङ्यादिसंयोगान्तलोपाविति भावः। इयानिति। इदंशब्दाद्वतुपि वकारस्य घकारे इयादेशे इदम् इयत् इति स्थिते "इदङ्किमोरीश्की"ति शित्त्वादिदम ईकारे सर्वादेशे "यस्येति चे"ति ईकारस्य लोपे इयदिति प्रत्ययमात्रं शिष्यते। ततः सौ नुमादि पूर्ववत्।

तत्त्व-बोधिनी
किमिदंभ्यां वो घः १४०३, ५।२।४०

किमिदंभ्याम्। वतुप्स्यादिति। वकारस्य घविधिसामथ्र्याद्वतुपरमनुवर्त्त्य सोऽप्यत्र विधीयत इति भावः। "आदेः परस्ये"त्येव सिद्धे "वः" इथि वचनमादेशप्रतिपत्त्यर्थम्। इतरथा घः प्रत्ययान्तरं विज्ञायते। कियामिति। "इदंकिमोरीश्की" "यस्येति चे"ति लोपः। इयानिति। ईसादेशस्य "यस्ये"ति लोपे प्रत्ययमात्रमवशिष्यते। पठन्ति च ----"उदितवति परस्मिन् प्रत्यये शास्त्रयोनौ, गतवति विलयं च प्रकृतेऽपि प्रपञ्चे। सपदि पदमुदीतं केवलः प्रत्ययो यत्तदियदिति मिमीते को ह्मदा पण्डितोपि।" वैयाकरणानामौपनिषदानां च प्रक्रियामाश्रित्य प्रवृत्तो व्द्यर्थोऽयं श्लोकः।