पूर्वम्: ५।२।४५
अनन्तरम्: ५।२।४७
 
सूत्रम्
शदन्तविंशतेश्च॥ ५।२।४६
काशिका-वृत्तिः
शदन्तविंशतेश् च ५।२।४६

तदस्मिन्नधिकम् इत्यनुवर्तते, डः इति च। शदन्तात् प्रातिपदिकात् विंशतेश्च डः प्रत्ययो भवति तदस्मिन्नधिकम् इत्येतस्मिन् विषये। त्रिंशदधिका अस्मिञ् छते त्रिंशं शतम्। शद्ग्रहने ऽन्तग्रहनं प्रत्ययग्रहणे यस्मात् स तदादेरधिकार्थम्। एकत्रिंश शतम्। एकचत्वारिंशं शतम्। सङ्ख्याग्रहणं च कर्तव्यम्। इह मा भूत्, गोत्रिंशदधिका अस्मिन् गोशते इति। विंशतेश्च। विशं शतम्। तदन्तादपि इति वक्तव्यम्। एकविंशं शतम्। सङ्ख्याग्रहणं च कर्तव्यम्। इह मा भूत्, गोविंशतिरधिका ऽस्मिन् गोशते इति।
न्यासः
शदन्तर्विशतेश्च। , ५।२।४६

ननु च "पङ्()क्ति" ५।१।५८ इत्यादौ सूत्रे तिं()रशदादयः शब्दाः शत्प्रत्ययान्ताः, ततश्च प्रत्ययग्रहणपरिभाषयैव तदन्तात्? प्रत्ययो लभ्यते, तत्? किमन्तग्रहणेन? इत्याह--"शद्()ग्रहणेऽन्तग्रहणम्()" इत्यादि। यद्यन्तग्रहणं न क्रियेत, तदा प्रत्ययग्रहणपरिभाषया यस्मात्? स विहितस्तदादेरेव स्यान्(); नाधिकात्()। अतोऽधिकादपि यथा स्यादित्येवमर्थमन्तग्रहणम्()। यदि तर्हि यस्मात्? प्रत्ययो विहितस्तदादेरधिकार्थमन्तग्रहणं केवलान्न प्राप्नोति? नैष दोषः; चकारोऽत्र क्रियते, स चानुक्तसमुच्चयार्थः, तेन केवलादपि भविष्यति। "संख्याग्रहणञ्च कत्र्तव्यम्()" इति। संख्या गृह्रते येन तत्? संख्याग्रहणं कत्र्तव्यम्()। किं पुनः कत्र्तव्यम्()? व्याख्यानम्()। तत्रैवं व्याख्यानम्()--"संख्याया अवयवे तयप्()" ५।२।४२ इत्यतः संख्याया इत्यनुवत्र्तते, तेन संख्याधिकादेव भविष्यति, नान्याधिकात्()। "विंशतेश्च" इत्यादि। विंशतिशब्दाच्च तदन्ताच्च प्रातिपदिकाङ्डप्रत्ययो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रैदं व्याख्यानम्()--विंशतिशब्दात्तावत्? साक्षात्? सूत्रोपात्तात प्रत्ययो भवति, तदन्तादपि; चकारस्यानुक्तसमुच्चयार्थत्वादिति। "संख्याग्रहणं च" इत्यादौ पूर्व एवार्थः। व्याख्यानमपि पूर्वकमेव॥
बाल-मनोरमा
शदन्तविंशतेश्च १८२३, ५।२।४६

शदन्तविंशतेश्च। शेषपूरणेन सूत्रं व्याचष्टे--डः स्यादुक्तेऽर्थेइति। दशान्तत्वाऽभावात्पूर्वेणाऽप्राप्तिः। तिं()रशं शतमिति। हे सति "टि"रिति टिलोपः। विंशमिति। विंशतिरिस्मिन्नधिका इति विग्रहः। "ति विंशते"रिति तिशब्दस्य लोपः। अन्तग्रहणादेकतिं()रशं शतमिति सिद्धम्। अन्यथा प्रत्ययग्रहणपरिभाषया तदादिनियमः स्यात्। "विंशतावप्यन्तग्रहण"मिति वार्तिकादेकविंशं शतमित्यादि सिद्धम्।