पूर्वम्: ५।२।४६
अनन्तरम्: ५।२।४८
 
सूत्रम्
संख्याया गुणस्य निमाने मयट्॥ ५।२।४७
काशिका-वृत्तिः
सङ्ख्याया गुणस्य निमाने मयट् ५।२।४७

तदस्य इत्यनुवर्तते तदस्य सञ्जातम् इत्यतः। तदिति प्रथमासमर्थात् सङ्ख्यावाचिनः प्रातिपदिकातस्य इति षष्ठ्यर्थे मयट् प्रत्ययो भवति यत् तत् प्रथमासमर्थं गुणस्य चेन् निमाने वर्तते। गुणो भागः निमानं मूल्यम्। गुणो येन निमीयते मूल्यभूतेन सो ऽपि सामर्थ्याद् भाग एव विज्ञायते। यवानां द्वौ भागौ निमानम् अस्य उदश्विद्भागस्य द्विमयमुदश्विद् यवानाम्। त्रिमयम्। चतुर्मयम्। भागे ऽपि तु विधीयामानः प्रत्ययः प्राधान्येन भागवन्तमाचष्टे। तेन सामान्याधिकरण्यं भवति द्विमयमुदश्वितिति। गुणस्य इति चैकत्वं विवक्षितं, तेन इह न भवति, द्वौ भागौ यवानां त्रय उदश्वितः इति। भूयसश्च वाचिकायाः सङ्ख्यायाः प्रत्यय इष्यते। इह न भवति, एको भागो निमानमस्य इति। भूयसः इति च प्रत्ययार्थात् प्रकृत्यर्थस्य अधिक्यमात्रं विवक्षितम्। बहुत्वमतन्त्रं, तेन द्विशब्दादपि भवति। गुणशब्दः समानावय्ववचनः। तेन इह न भवति, द्वौ भागौ यवानाम् अध्यर्ध उदश्वितः इति। निमेये चापि दृश्यते। निमेये वर्तमानायाः सङ्ख्याया निमाने प्रत्ययो दृश्यते। उदश्वितो द्वौ भागौ निमेयमस्य यवभागस्य द्विमया यवा उदश्वितः। त्रिमया यवा उदश्वितः। चतुर्मयाः। गुणस्य इति किम्? द्वौ व्रीहियवौ निमानमस्य उदश्वितः। निमाने इति किम्? द्वौ गुणौ क्षीरस्य एकस्तैलस्य, द्विगुणं पच्यते तैलं क्षीरेण इत्यत्र मा भूत्।
न्यासः
संख्याया गुणस्य निमाने मयट्?। , ५।२।४७

"गुणो येन निमीयते" इति। परिवर्त्त्यते, विक्रीयत इत्यर्थः। "सोऽपि" इत्यादि। न हि तस्य भागत्वमन्तरेण निमेयस्य गुण इत्येव निर्दिष्टस्य भागत्वमध्यवसातुं शक्यम्()। यदा हि मूलस्य भागत्वं नास्ति, भागव्यपदेशो न प्रवत्र्तत एव। तेन यद्यपि निमानस्य भागता नोक्ता, तथापि सामथ्र्यात्? सा प्रतीयते। "यवानां द्वौ भागौ निमानमस्य" इति। ननु चोभयत्रापि परिवत्र्तनम्(), तथापि मूल्य एव निमानशब्दो रूढ इति यन्मूल्यत्वेन विवक्षितं तदेव निमानं भवति, नेतरत्()। "यवानाम्()" इति। भागापेक्षया षष्ठी। यद्येवम्(), परापेक्ष उवश्चिच्छब्दे तद्धितस्य वृत्तिर्विरुध्यते। ननूद()इआद्भागे प्रत्ययः, नोद()इआति, तत्कथं द्विमयमुद()इआदिति प्रत्ययान्तस्योद()इआच्छब्देन सामानाधिकरण्यम्()? इत्यत आह--"भागेऽपि तु" इत्यादि। अत्र पुनरभिधानशक्तिस्वाभाव्यं हेतुः। यथैवाणादयोऽपत्यापत्यवत्सम्बन्धेऽपि विधीयमाना अभिधानशक्तिस्वाभाव्यात्? प्राधान्येन सम्बन्धिनमाचक्षते--औपगवो दाक्षिरिति, तथायमपि भागे विधीमानो भागवन्तमुद()इआदादिकमाचष्टे। "गुणस्येति चैकत्वं विवक्षितम्()" इति। गुणस्येति यैकसंख्या सा विवक्षिता। ननु च "तद्धिताः ४।१।७६ इति निर्देशेऽपि बहुवचनमप्रमाणम्(), तस्याविवक्षितत्वात्()" इत्युक्तम्(), तत्कथमिहैकत्वविवक्षा युज्यते? नैष दोषः; इह हि षष्ठीसमासं कृत्वा गुणनिमान एव कत्र्तव्यम्(), एवं हि लघु सूत्रं भवति। सोऽयमेवं वक्तव्ये सति यद्गुणस्येत्येकवचनमुच्चारयति, तेनैतत्? सूचयति--विवक्षितमत्रैकत्वमिति तेनेत्यादिनैकत्वविवक्षायाः फलं दर्शयति एकत्वविवक्षायां ह्रेतत्? प्रयोजनम्()--एकस्य गुणस्य निमाने वत्र्तमानाद्यथा स्यात्()। "द्वौ भागौ यवानां त्रय उद()इआतः" इति। अत्र त्रयाणां भागानां निमाने द्विशब्दो वत्र्तत इति न भवति प्रत्ययः। ननु च सत्यामप्येकत्वविवक्षायां नैवान्न प्रत्ययेन भवितव्यम्(), यतः "भूयसश्च वाचिकायाः संख्यायाः प्रत्यय इष्यते" इति वचनम्()। न ह्रत्र द्विशब्दो भूयसो वाचकः? एवं तर्हि यवानां यौ द्वौ भागौ, ताविह निमेयत्वेन विवक्ष्येते। ये त्रय उद()इआतो भागास्ते निमानत्वेन। तत्र यद्येकत्वविवक्षा न स्यात्? तदा त्रिषूद()इआद्गुणेषु वत्र्तमानात्? प्रत्ययः स्यात्()। भूयसश्चेत्यपि प्रत्ययार्थात्? प्रकृत्यर्थस्य भूयसो वाचिकायाः प्रत्यय इष्यते, नान्यतः। "इह न भवति" इति। अनभिषानात्()। "तदस्मिन्नधिकम्()" ५।२।४५ इत्यादेः सूत्रादितिकरणानुवृत्तेर्वा। यदि भूयसो वाचिकायाः संख्याया इष्यते यवानां द्वौ भागौ निमानमस्येत्यत्र न प्राप्नोति? इत्यत आह--"भूयस इति च" इत्यादि। एवमपि हि प्राप्नोति--द्वौ यवानामष्यद्र्ध उद()इआत इति, अस्ति ह्रत्र प्रत्यर्थात्? प्रकृत्यर्थस्याधिक्यम्()? इत्यत आह--"गुणशब्दः" इत्यादि। गुणशब्दो ह्रयं भागवचनोऽपि समतामपि तस्य भागस्य ब्राऊते, न चाष्यद्र्धशपब्देन समभाग उच्यते। "निमेये चापि दृश्यते" इति। केन पुनर्विहितो दृश्यते? अनेनैव। कथम्()? द्वे अत्र वाक्ये; तत्रैकस्मिन्? वाक्ये निमानशब्दः करणसाधनः--निमीयतेऽनेनेति निमानम्(); द्वितीये तु कर्मसाधनो निमीयत इति निमानम्(); "कृत्यल्युटो बहुलम्()" ३।३।११३ इति कर्मणि ल्युट्()। यदा करणसाधनस्तदा गुणस्येति कर्मणि षष्टी, यदा तु कर्मसाधनस्तदा कत्र्तरि। गुणो हि निमानक्रियाकरणमिति कर्त्तृत्वेन विवक्ष्यते। भवति हि करणस्य कर्त्तृत्वेन विवक्षा, यथा--साध्यसिश्छिनत्तीति। तत्रैकेन वाक्येन निमाने पत्र्तमानायाः संख्याया निमेयेऽभिधेये प्रत्ययो विधीयते। अपरेण निमेये वत्र्तमानाया निमानेऽभिधेयेऽपि प्रत्ययोऽभिधीयते। वाक्यभेदस्य च संख्याग्रहणं निबन्धनम्()--"संख्याया अवयवे तयप्()" ५।२।४२ इत्यतः। एवञ्च संख्याग्रहणमनुवत्र्तते। इदमिह द्वितीयम्()। तत्र यद्यत्रैकं वाक्यं स्याद्()द्वितीयं संख्याग्रहणमनर्थकं स्यात्(), सौत्रानुमिताभ्यां तु द्वे वाक्ये क्रियमाणे तदर्थवद्भवति। तस्माद्द्वे अत्र वाक्ये। "द्वौ व्रीहियवौ" इत्यादि। अत्र नोद()इआद्भागस्य द्वौ व्रीहियवौ निमानत्वेन विवक्षितौ, किं तर्हि? उद()इआतः। एवं "द्वौगुणौ" इत्यादि। अत्र प्रथमासमर्थो गुणस्य निमानेन वत्र्तते। न हि क्षीरस्य भागद्वयेन तैलस्य भागो निमीयते। मयटष्टित्करणं ङीबर्थम्()--द्वौ गुडस्यैको द्राक्षाया द्विमयी द्राक्षेति॥
बाल-मनोरमा
सङ्ख्याया गुणस्य निमाने मयट् १८२४, ५।२।४७

सङ्ख्याया गुणस्य "तदस्ये"त्यनुवर्तते। गुणः=भागः, अंशः। निमीयते क्रीयतेऽनेनेति निमानं=मूल्यद्रव्यम्। "मेङ् प्रणिदाने"। करणे ल्युट्। तदाह--भागस्य मूल्य इत्यादि। षष्ठ()र्थे इति। अस्येत्यर्थे इत्यर्थः। "यवानां द्वौ भागौ निमानमस्योद()इआद्भागस्ये"ति विग्रहवाक्यम्। द्वाभ्यां यवप्रस्थाभ्याम् एक उद()इआत्प्रस्थः क्रियते यत्र तत्रेदं वाक्यं प्रयुज्यते। "द्विमयमुम()इआद्यवाना"मित्युदाहरणम्। "यवाना"मिति संबन्धसामान्ये षष्ठी। यवप्रस्थद्वयेन क्रेतव्यमुद()इआदित्यर्थः। द्विशब्दस्य भागवृत्तेर्नित्यसापेक्षत्वेऽपि प्रत्ययः। द्वौ व्रीहियवौ निमानमस्योद()इआत इति। द्वित्वसङ्ख्याविशिष्टौ व्रीहियवराशी यौ तौ अस्य उद()इआतो निमानमित्यर्थः। अत्र उद()इआद्यावत् तदपेक्षया व्रीहियवराश्योर्द्वि गुणत्वं न विवक्षितं, किंतु राशद्वित्वमेव विवक्षितमिति द्विशब्दस्य भागवृत्तित्वाऽभावान्न प्रत्ययः।

तत्त्व-बोधिनी
सङ्ख्याया गुणस्य निमाने मयट् १४०९, ५।२।४७

सङ्ख्याया गुणस्य। गुणो---भागः। निमीयते=क्रीयतेऽनेनेति निमानं=मूल्यम्। "मेङ् प्रणिदाने---इत्यस्मान्निपूर्वात्करणे ल्युट्। तदाह---भागस्य मूल्ये इति। षष्ठ()आर्थे इति। यद्यपि "तदस्मिन्नधिक "मित्यतः "त"दित्यनुवृत्तौ प्रथमान्तादित्ययमेवार्थो लभ्यते, तथापि मण्डूकप्लुत्या। "तदस्य संजात"मित्यतः "तदस्य"इत्यनुवर्तनात् "षष्ठ()र्थे"इत्येतदपि लभ्यत इति भावः। द्विमयमिति। द्विशब्दस्य सम्बन्धिशब्दत्वेन नित्यसापेक्षत्वात् "यवाना"मिति पदे सत्यपि तद्धितोत्पत्तिरिहाऽविरुद्धेति ज्ञेयम्। नन्वेवमपि प्रत्ययान्तस्योद()इआच्छब्देन सामानाधिकरण्यं दुर्लभम्। यावतोद()इआद्भागे प्रत्ययो विहितो, नोद()इआति। अत्राहुः----भागेऽपि विधीयमानः प्रत्ययोऽभिदानस्वाभाञ्याद्भागवन्तमाचष्टे। तेन सामानाधिकरण्यं भवतीति। "गुणनिमाने"इति वक्तव्ये व्यस्तोच्चारणात् "एकत्वं गुणस्ये"त्यत्र विवक्षितम्। तेनेह न भवति "यवाना द्वौ भागौ निमानमेषामुद()इआतस्त्रायाणां भागाना"मिति। "भूयसश्च वाचिकायाः सङ्ख्यायाः प्रत्यय इष्यते"। इह न भवति। एको भागो निमानमस्येति। "भूयस"इति च प्रत्ययार्थादाधिक्यमात्रं प्रकृत्यर्थस्य विवक्षितं, न तु बहुत्वम्। तेन द्विशब्दादपि भवत्येव। तस्य पूरणे। "तस्ये"ति षष्ठ()न्तानुकरणम्। एकत्वं त्वविवक्षितम्। एकस्य पूरणाऽसम्भवात्। पूर्यतेऽनेनेति पूरणः। ण्यन्तात्करणे ल्युट्। एकादशानामिति। उद्भूतवयवभेदः समुदायः प्रकृत्यर्थः। अवयवः प्रत्ययार्थः। इह यस्मात्सङ्ख्यावाचिनः प्रत्ययविधिस्तदीयप्रवृत्तिनिमित्तस्य एकादशत्वादेः पूरणे प्रत्ययः। यथा "अतिशायने", "याप्ये"इत्यादिषु प्रवृत्तिनिमित्तस्यैवातिशयादिकं गृह्रते, अन्तरङ्गत्वात्, तथेहापि। तेन "एकादशानां घटानां पूरणो जलादि"रित्यत्र नातिप्रसङ्गशषङ्कालेशोऽपीति भावः। ननु यदि प्रवृत्तिनिमित्तस्य पूरणे प्रत्ययः, तह्र्रत्र एकादशत्वस्य पूरण इति विग्रहो वक्तुं युक्त इति चेत्। अत्राहुः---"वैयाकरणपाशः"इत्यत्र यथा "याप्यो वैयाकरणः"इति विग्रहः, न तु "याप्यं वैयाकरणत्व"मिति, तथेहापि बोध्यमिति। एवं च व्युत्क्रमेणाध्यायेषु गम्यमानेषु "वृद्धिरादै"जित्यध्यायो यदा चरमं गण्यते तदा सोऽप्यष्टमो भवत्येव।