पूर्वम्: ५।२।५३
अनन्तरम्: ५।२।५५
 
सूत्रम्
त्रेः सम्प्रसारणम् च॥ ५।२।५४
काशिका-वृत्तिः
त्रेः सम्प्रसारणं च ५।२।५५

त्रिशब्दात् तीयः प्रत्ययः भवति तस्य पूरणे इत्येतद् विषये। डटो ऽपवादः। तत्संनियोगेन त्रेः संप्रसारणं च भवति। त्रयाणाम् पूरणः तृतीयः। हलः (*६,४।२।) इति संप्रसारणस्य दीर्घत्वं न भवति। अणः इति तत्र अनुवर्तते ढ्रलोपे इत्यतः। पूर्वेण च णकारेण अण्ग्रहणं।
लघु-सिद्धान्त-कौमुदी
त्रेः संप्रसारणं च ११८३, ५।२।५४

तृतीयः॥
न्यासः
त्रेः सम्प्रसारणञ्च। , ५।२।५४

"अण इति तत्र वत्र्तते" इति। "ढूलोपे पूर्वस्य दीर्घोऽणः" ६।३।११० इत्यतः। ननु च परेण णकारेणाण्ग्रहण ऋकारोऽप्यण्? भविष्यति? इत्यत आह--"पूर्वेण च" इत्यादि। अत्र "त्रेस्तु च" इत्येवं कस्मान्नोक्तम्()? अशक्यमेवं वक्तुम्(), एवं ह्रुच्यमाने सन्देहः स्यात्? - किमयमादेशः, उत्त प्रत्यय? इति॥
बाल-मनोरमा
त्रे संप्रसारणं च १८३१, ५।२।५४

त्रेः संप्रसारणं च। त्रेस्तीयः स्यात्प्रकृतेः सम्प्रसारणं चेत्यर्थः। तृतीय इति। त्रयाणां पूरण इति विग्रहः। तीयप्रत्यये सति रेफस्य सम्प्रसारणमृकारः। "सम्प्रसारयणाच्चे"ति पूर्वरूपम्। "हलः" इति दीर्घस्तु न भवति, "ढ्रलोपे" इत्यतोऽण इत्यनुवृत्तेः।

तत्त्व-बोधिनी
त्रेः संप्रसारणं च १४१३, ५।२।५४

तृतीय इति। रेफस्य ऋकारः संप्रसारणम्। "हलः"इति दीर्घस्तु न भवति, "ढ्रलोपे"इति सूत्रादण इत्यनुवृत्तेः "त्रेस्तृ च"इति नोक्तं, प्रत्ययो मा विज्ञायीति।