पूर्वम्: ५।२।५४
अनन्तरम्: ५।२।५६
 
सूत्रम्
विंशत्यादिभ्यस्तमडन्यतरस्याम्॥ ५।२।५५
काशिका-वृत्तिः
विंशत्यादिभ्यस् तमडन्यतरस्याम् ५।२।५६

विंशत्यादिभ्यः परस्य डटः तमडागमो भवत्यन्यतरसयाम्। पूरणाधिकारात् डट्प्रत्यय आगमी विज्ञायते। विंशतेः पूरणः विंशतितमः, विंशः। एकविंशतितमः, एकविंशः। त्रिविंशतितमः, त्रिविंशः। त्रिंशत्तमः, त्रिंशः। एकत्रिंशत्तमः, एकत्रिंशः। विंशत्यादयो लौकिकाः सङ्ख्याशब्दा गृह्यन्ते, न पङ्क्त्यादिसूत्रसंनिविष्टाः। तद्ग्रहणे ह्येकविंशतिप्रभुऋतिभ्यो न स्यात्। ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधात्। एवं च सति षष्ट्यादेश्च असङ्ख्यादेः ५।२।५७ इति पर्युदासोयुज्यत एव।
न्यासः
विंशत्यादिभ्यस्तमडन्यतरस्याम्?। , ५।२।५५

"विंशत्यादिभ्यः परस्य" इत्यादि। ननु च तीयप्रत्ययेन डड्? व्यवहितः, तत्कथं तमडागमः शक्यो विज्ञातुम्()? अत आह--"पूरणाधिकारात्()" इति। पूरणार्थे यो विहितसतस्य विंशत्यादिभ्यः परस्य तमङ्()विधीयते, स नान्यो डटः सम्भवतीति डडेव विज्ञायते। "विंशात्यादयो लौकिकाः संख्याशब्दा गुह्रन्ते" इति। व्याप्तेन्र्यायात्()। ते पुनर्विशत्येकविंशतिप्रभृतयः संगृहीता भवन्ति। किं पुनः स्याद्यदि पड्क्त्यादिसूत्रे ५।१।५८ तेषामसन्निविष्टत्वात्()।
बाल-मनोरमा
विंशत्यादिभ्यस्तमडन्यतरस्याम् १८३२, ५।२।५५

विंशत्यादिभ्यः। तमटि टकार इत्। मकारादकार उच्चारणार्थः। अत्र "पङ्क्तिविंशती"ति सूत्रानुक्रान्ता एव विंशत्यादयो गृह्रन्ते नतु लोकप्रसिद्धा एकविशत्यादयोऽपि, विप्रकर्षादिति कैयटः। एकविंशतितम" इत्यत्र तु तदन्तविधिना तमडित्यग्रे वक्ष्यते।

तत्त्व-बोधिनी
विंशत्यादिभ्यस्तमडन्यतरस्याम् १४१४, ५।२।५५

विंशत्यादिभ्यः। इह प्रत्यासत्त्या "पङ्क्ती"त्यादिसूत्रे निपातिता विंशत्यादयो गृह्रन्ते, न लोकप्रसिद्धाः, विप्रकृष्टत्वादिति। भाष्यमतम्। वृत्तिकृता तु विंशत्यादयो लौकिका एव सङ्ख्याशब्द गृह्रन्तं, न पङ्क्त्यदिसूत्रनिर्दिष्टाः, तद्ग्रहणं ह्रेकविंशतिप्रभृतिभ्यो न स्यात्, ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधात्। एवं च सति "षष्ठ()आदेश्चाऽसङ्ख्यादे"रिति पर्युदासो युज्यत एवेत्युक्तम्। एकविंशतितम इति। यद्यपि भाष्यमते तदन्तविधिर्दुर्लभस्तथापि "षष्ट()आदेशश्चे"ति सूत्रे सङ्ख्यादिपर्युदासो ज्ञापयति---"इह प्रकरणे तदन्तानामपि ग्रहण"मिति। एवं च सति एकन्नविंशतेः पूरण एकान्नविंशतितम इत्यपि सिध्यति।"लौकिकानां ग्रहण"मिति वृत्तिमते ति नैतत्सिध्येत्। विंशतिसंख्यातः प्राग्भावित्वादस्याः संख्यायाः। एतच्च कैयटहरदत्तग्रन्थयोः स्पष्टम्। ननु "अनारम्भो वा प्रतिपदिकविज्ञानाद्यथा सहरुआआदिषु" इति वदता कात्यायनेन पङ्क्त्यादिसूत्रस्य प्रत्याख्यातत्वा "त्तत्सूत्रे"निपातिता विंशत्यादयो गृह्रन्ते"इति भाष्यमतमयुक्तमिति चेदत्राहुः---यद्यपि प्रत्याख्यातं तथापीहार्थमावश्यकं तत्। अतएव तत्र भाष्यकृता "नाऽसूया कर्तव्या यत्रानुगमः क्रियते"इत्युक्तम्। अतः कात्यायनोक्तप्रत्याख्यानं नादर्तव्यमिति। शततम इति। यद्यपीदं "षष्ट()आदेश्चे"त्युत्तरसूत्रेणैव सिध्यति, तथापि संख्याद्यर्थ "नित्यं शतदी"त्यावश्यकमिति ध्वनयन्नुदाहरति---एकशततम इति। मासादेरिति। संख्यावाचित्वाऽभावेऽपीति भावः।