पूर्वम्: ५।२।६२
अनन्तरम्: ५।२।६४
 
सूत्रम्
आकर्षादिभ्यः कन्॥ ५।२।६३
काशिका-वृत्तिः
आकर्शादिभ्यः कन् ५।२।६४

तत्र इत्येव, कुशलः इति च। आकर्शादिभ्यः प्रातिपदिकेभ्यः सप्तमीसमर्थेभ्यः कुशलः इत्येतस्मिन्नर्थे कन् प्रत्ययो भवति। आकर्षे कुशलः आकर्षकः। त्सरुकः। आकर्ष। त्सरु। पिप्पसा। पिचण्ड। अशनि। अश्मन्। विचय। चय। जय। आचय। अय। नय। निपाद। गद्गद। दीप। ह्रद। ह्राद। ह्लाद। शकुनि। आकर्शादिः।
न्यासः
आकर्षादिभ्यः कन्?। , ५।२।६३

आकर्षादिषु यद्()वृद्धं ततश्छे प्राप्ते शेषेभ्यस्त्वणि कन्विधीयते। प्रत्ययान्तरकरणम्()--यदत्रोकारान्तं तस्यात्र गुणो मा भूत्(), यच्चेकारान्तं तस्य "यस्येति" ६।४।१४८ लोपो मा भूदित्येवमर्थम्()। वुनि तु सति तदुभयं प्रसज्येत। तत पुनरिहाशिष्टं प्रसज्येत। तस्य पुनर्वनि कनि वा सति न कश्चिद्विशेष इति न तत्प्रत्ययान्तरं प्रयोजयति॥
बाल-मनोरमा
आकर्षादिभ्यः कन् १८४०, ५।२।६३

आकर्षादिभ्यः कन्। आकर्षक इति। यद्यपि वुनैवाऽनुवृत्तेनेदं सिध्यति तथापि शकुनिक" इत्यद्यर्थं कन्ग्रहणम्।

तत्त्व-बोधिनी
आकर्षादिभ्यः कन् १४१७, ५।२।६३

आकर्षादिभ्यः कन्। वुना सिद्धे कन्()ग्रहणं इदुदन्तार्थम्। शकुनिकः। अशनिकः। त्सरुकः। मुख्यः पाठ इति। "आकषन्त्यस्मिन् सुवर्णादिकमित्याकषः। "पुंसि संज्ञायां घः"इति व्याख्याय, ये तु "आकर्षादिभ्यः" इति सरेफं पठन्ति, तेषाम् "आकर्ष"इति घञि रूपम्"----इति हरदत्तेनोक्तत्वादिति भावः।