पूर्वम्: ५।२।६३
अनन्तरम्: ५।२।६५
 
सूत्रम्
धनहिरण्यात् कामे॥ ५।२।६४
काशिका-वृत्तिः
धनहिरण्यात् कामे ५।२।६५

तत्र इत्येव, कनिति च। धनहिरण्यशब्दाभ्यां तत्र इति सप्तमीसमर्थाभ्यां कामे इत्यस्मिन्नर्थे कन् प्रत्ययो भवति। कामः इच्छा, अभिलाषः। धने कामः धनको देवदत्तस्य। हिरण्यको देवदत्तस्य।
न्यासः
धनहिरण्यात्कामे। , ५।२।६४

"धने कामः" इति। धनविषय इच्छेत्यर्थः॥
बाल-मनोरमा
धनहिरण्यात्कामे १८४१, ५।२।६४

धनहिरण्यात्कामे। तत्रेत्यनुवर्तते। धनशब्दाद्धिरण्यशब्दाच्च सप्तम्यन्तात्कामे वाच्ये कन्स्यादित्यर्थः। काम इच्छेति। नतु कामयिता, व्याख्यानादिति भावः।

तत्त्व-बोधिनी
धनहिरण्यात्कामे १४१८, ५।२।६४

धने काम इति। "तत्रे"त्यनुवर्तनात्सप्तम्यन्तात्प्रत्यय इति भावः। उदरात्। आद्यूनशर्दार्थमाह।