पूर्वम्: ५।२।९५
अनन्तरम्: ५।२।९७
 
सूत्रम्
सिध्मादिभ्यश्च॥ ५।२।९६
काशिका-वृत्तिः
सिध्माऽदिभ्यश् च ५।२।९७

लजन्यतरस्याम् इति वर्तते। सिध्मादिभ्यः प्रातिपदिकेभ्यो लच् प्रत्ययो भवत्यन्यतरस्यां मत्वर्थे। सिध्मलः, सिध्मवान्। गडुलः, गडुमान्। अन्यतरस्यां ग्रहणेन मतुप् समुच्चीयते, न तु प्रत्ययो विकल्प्यते। तस्मातकारान्तेभ्यः इनिठनौ प्रत्ययौ न भवतः। सिध्म। गडु। मणि। नाभि। जीव। निष्पाव। पांसु। सक्तु। हनु। मांस। परशु। पार्ष्णिधमन्योर् दीर्घश्च। पार्ष्णीलः। धमनीलः। पर्ण। उदक। प्रज्ञा। मण्ड। पार्श्व। गण्ड। ग्रन्थि। वातदन्तबलललाटानामूङ् च। वातूलः। दन्तूलः। बलूलः। ललाटूलः। जटाघटाकलाः क्षेपे। जटालः। घटालः। कलालः। सक्थि। कर्ण। स्नेह। शीत। श्याम। पिङ्ग। पित्त। शुष्क। पृथु। मृदु। मञ्जु। पत्र। चटु। कपि। कण्डु। संज्ञा। क्षुद्रजन्तूपतापाच् च इष्यते। क्षुद्रजन्तु यूकालः। मक्षिकालः। उपताप विचर्चिकालः। विपादिकालः। मूर्च्छालः। सिध्मादिः।
न्यासः
सिध्मादिभ्यश्च। , ५।२।९६

यद्यन्यतरस्यांग्रहणेन लज्विकल्पेत, तेन पक्षे यथाप्राप्तमेव स्यादित्यकारान्तात्? सिध्मादेरिनिठनौ स्याताम्()। अत इमं दोषं परिहर्तुमाह--"अन्यतरस्यांग्रहणेन" इत्यादि। अनेकार्थत्वान्निपातानामन्यतरस्यामिह समुच्चते वत्र्तते। तथा च वार्तिककारेणोक्तम्()--"अन्यतरस्यामिति समुच्चयः" इति। मतुबिह स्वरितत्वात्? सन्निहित इति स एव समुच्चीयते, न तु यथाप्राप्तं प्रत्ययान्तरमित्येके। अन्ये त्वाहुः---"अन्यतरस्यांग्रहणं विकल्पार्थमेव। न चेनिठनावुभौ क्रियेते; तयोर्महाविभाषयैव सिद्धत्वात्()। तर्हि प्रत्ययान्तरं पक्षे विधीयते? तदपि न; यथाप्राप्तमापादयित्तुं सन्निहितप्रत्यासत्तेः मतुबेव। तदेवमन्यतरस्यांग्रहणे सति मतुबेव विकल्प्यत इत्यभिप्रायेणान्यतरस्यांग्रहणेन समुच्चीयत इत्युक्तम्()" इति। "न तु प्रत्ययो विकल्प्यते" इति। ननु च लचो भावाभावौ क्रियेते इत्यर्थः। "तस्मात्()" इत्यादि। यत एवमन्यतरस्यांग्रहणेन मतुप्? समुच्चीयते, न तु प्रत्ययो विकल्प्यते, तस्माद्येऽत्राकारान्ताः पठ()न्ते तेभ्य इनिठनौ न भवतः। "पा()ष्णश्रमन्योर्दीर्घश्च" इति। पा()ष्ण, धमनि इति शब्दाभ्यां लज्भवति, तयोश्च दीर्घः--पार्ष्णीलः, धमनीलः। "वातदन्तबलललाटानामूङ् च" इति। वातादीनां, तस्य च लच ऊङगगमः। वातूलः। दन्तूलः। बलूलः। ललाटूलः। "जटाघटाकलाः क्षेपे" गम्यमाने। जटालः, घटालः, कलालः। क्षेप इति किम्()? जटावान्()। "क्षुद्रजन्तूपतापाच्च" इति। क्षुद्रजन्तूपतापाच्च" इति। क्षुद्रजन्तुः=नकुलादिः। उपतापः=रोगः॥ "कामवति बलवति चार्थे" इति। मत्वन्तयोर्निर्देशेन कामबशब्दावर्शाअद्यकारान्तावुपात्ताविति दर्शयति। ननु च वत्सांसशब्दौ नैव कामबलयोर्वर्तेते, किं तर्हि? वयोविशेषे प्राण्यङ्गविशेषे च, तत्कथं ताभ्यां कामवान्? बलवांश्चोच्यते? इत्याह--"वृत्तिविषये" इत्यादि। कथमेतज्ज्ञायते? इत्याह--"न ह्रत्र" इत्यादि। वत्सशब्दस्य वाक्ये यो वयोविशेषलक्षणोऽर्थः प्रसिद्धः, अंसशब्दस्य च यः प्राण्यङ्गलक्षणविषयः स यस्मादत्र वृत्तौ न विद्यते न ज्ञायत इत्यर्थः। अथ वा--न विद्यत इति नास्तीत्यर्थः। अनेन वाक्ये यौ तयोरथा प्रसिद्धौ वयःप्राण्यङ्गविशेषात्मकौ, तयोर्वृत्तावभावो दर्शितः। इदानीं यौ तयोरभिमतावर्थो तयोर्भावं दर्शयितुमाह--"वत्सलः" इत्यादि। "स्नेहवान्()" इति। कामवानित्यर्थः। तदेवं यस्माद्वत्सांसशब्दयोर्वाक्ये वयःप्राण्यङ्गलक्षणोऽर्थो न विद्यते, ततश्चवत्सलांसलशब्दाभ्यां यथोक्तः स्नेहवान्? बलवांश्चोच्यते, ततो ज्ञायते--वत्सांसशब्दौ वृत्तिविषये कामबलयोर्वत्र्तमानौ तद्वति प्रत्ययमुत्पादयत इति। अन्यतरस्यांग्रहणं सर्वत्र चात्र प्रकरणे मतुप्समुच्चयार्थे वत्र्तते। ततो मतुपा भवितव्यमिति यो मन्यते, तं प्रत्याह---"न चायम्()" इत्यादि। अनेनैव च हेतुना वाक्यमपि न भवतीति वेदितव्यम्()। व्काये हि नैवायमर्थः सम्भवति
बाल-मनोरमा
सिध्मादिभ्यश्च १८७९, ५।२।९६

सिध्मादिभ्यश्च। लज्वा स्यादिति। "मत्वर्थे" इति शेषः। अन्यतरस्यामिति। पूर्वसूत्रादन्यतरस्यामित्यनुवृत्तं न लच्प्रत्ययविकल्पार्थकं, किन्तु मतुप्प्रत्ययसमुच्चयार्थकमेव, अन्यतरस्यामित्यस्याव्ययत्वेनाऽनेकार्थकत्वात्। ततश्च सिध्मादिभ्यो लच्, मतुप्च स्यादिति लभ्यते। नचान्यतरस्यामित्यस्याऽत्र लच्प्रत्ययविकल्पार्थकत्वेऽपि तदभावे मतुप्सिद्ध इति वाच्यम्, "लजभावे मतुबेव भवति, नतु अत इनिठनौ" इत्येतदर्थ समुच्चयविधानात्। तदाह--तेनेति। सिध्मादिषु ये अकारान्तास्तेभ्य इनिठनौ नेत्यर्थः। एतत्सर्वं भाष्ये स्पष्टम्। सिध्म, गडु, मणि, विजय, [निष्पाव]पांसु, हनु, पा()ष्ण इत्यादयः सिध्मादिषु पठिताः। एवंच लज्वा स्यादिति विवरणवाक्ये वाशब्दश्चार्थे। इदमन्यतरस्याङ्ग्रहणमुत्तरसूत्रेषु सर्वत्र मत्वर्थीयविधिष्वनुवर्तते, नतु रूढशब्देषु। अतो न तेषु मतुप्समुच्चय इत्यास्तां तावत्। वातदन्तबलललाटानामूङ् चेति। सिघ्मादिगणसूत्रमिदम्। एभ्यो लच्, प्रकृतेरूङ् चादेशः। ङकारस्तु #आदेशत्वसूचनार्थः। अन्यथा प्रत्ययत्वशङ्का स्यात्। वातूलः। एवं दन्तूलः, बलूलः ललाटूलः।

तत्त्व-बोधिनी
सिध्मादिभ्यश्च १४४४, ५।२।९६

सिध्मादिभ्यश्च। सिध्म, गडु, मणि, विजय, निष्पाव, पांसु, हनु, पाष्ण्र्यादयः सिध्मादयः। समुच्चयार्थमिति। निपातानामनेकार्थत्वादिति भावः। न च इनिठनावप्यन्यतरस्याङ्ग्रहणेन समुच्चीयेतामिति शङ्क्यम्। तयोरप्रकृतत्वात्। मतुप्प्रत्ययस्तु समुच्चीयते। तस्य प्रकृतत्वात्। अस्ति चेह लिङ्गं "केशाद्वः"इत्यत्रान्यतरस्याङ्ग्रहणम्। तद्धि इनिठनोः प्राप्त्यर्थं क्रियते। प्रकृतस्याऽन्यतरस्याङ्ग्रहणस्य विकल्पार्थत्वे तदनुवृत्त्यैव सिद्धौ किं तेन ;()। क्रियमाणं तु पूर्वस्यान्यतरस्यांग्रहणस्य समुच्चयार्थतां ज्ञापयत्येव। तथा च वार्तिकं---"लजन्यतरस्यामिति समुच्चयः"इति। अयं भावः---"प्राणिस्था"दिति सूत्रेण लचि विकल्पिते पक्षे मतुबिति चूडालश्चूडावानिति रूपद्वयं यद्यपि सिध्यति, तथापि सिध्मादिषु येऽदन्तास्तेषु इनिठनोः प्रवृत्त्या दोषः। समुच्चयार्थत्वे तु न दोष इति। एवं च "लज्वा स्या"दिति वृत्तौ वाशब्दः समुच्चये बोध्यः। "वा स्याद्विकल्पोपमयोरे वार्थेऽपि समुच्चये"इत्यमरः। वातदन्तेत्यादि। सिध्माद्यन्तर्गणसूत्रम्। ऊङ् चेति। ङित्त्वादन्तादेशः। ऊकारमात्रोक्तावन्तादेशत्वसिद्धावपि प्रत्ययत्वशङ्कानिवारणाय ङानुबन्धः कृतः। न च षष्ठ()न्ताद्विहितस्य प्रत्ययत्वं नेति शङ्क्यम्, "अहंशुभमोर्युस्", "गोपयसोर्य"दित्यादौ प्रत्ययत्वाभ्युपगमात्। वातूल इति। अन्तोदात्तमिदम्। प्राचा तु "बलादूतलः", "वाताच्चे"ति पठित्वा वातूल इत्युक्तं, तदुपेक्ष्यम्, प्रत्ययस्वरेण मध्योदात्तत्वप्रसङ्गात्। गणसूत्रबलेनाऽन्तोदात्तत्वमेवेष्यत इत्याहुः। "पा()ष्णधमन्योर्दीर्घश्च"। "क्षुद्रजन्तूपतापाच्चे"त्यपि गणे पठ()ते। पार्ष्णीलः। धमनीलः। क्षुद्रजन्तुः---यूकालः। मक्षिकालः। उपतापो रोगः। विपादिकालः।