पूर्वम्: ५।२।९६
अनन्तरम्: ५।२।९८
 
सूत्रम्
वत्सांसाभ्यां कामबले॥ ५।२।९७
काशिका-वृत्तिः
वत्सांसाभ्यां कामबले ५।२।९८

वत्सांसशब्दाभ्याम् लच् प्रत्ययो भवति यथासङ्ख्यं कामवति बलवति च अर्थे। वत्सलः। अंसलः। वृत्तिविषये वत्सांसशब्दौ स्वभावात् कामबलयोर् वर्तमानौ तद्वति प्रत्ययम् उत्पादयतः। न ह्यत्र वत्सार्थः अंसार्थो वा विद्यते। वत्सलः इति स्नेहवानुच्यते, वत्सलः स्वामी, वत्सलः पिता इति। अंसलः इति च उपचितमांसो बलवानुच्यते। न च अयम् अर्थो मतुपि सम्भवति इति नित्यं लजेव भवति। अन्यत्र अंसवती गौः, अंसवान् दुर्बलः।
बाल-मनोरमा
वत्साऽसाभ्या कामबले १८८०, ५।२।९७

वत्सासाभ्यां लच्स्यादिति। "मत्वर्थे" इति शेषः। कामबलशब्दौ तद्वति लाक्षणिकावित्यभिप्रेत्याह--कामवति बलवति चेति।

तत्त्व-बोधिनी
वत्साऽसाभ्यां कामबले १४४५, ५।२।९७

वत्सांसाभ्याम्। कामवतीति। कामबलशब्दौ सूत्रे अर्शाअद्यजन्ताविति भावः। वत्सल इति। स्नेहवानित्यर्थः। ननु वत्सांसशब्दौ वयोविशेषे प्राण्यङ्गविशेषे च रूढौ, न कामबलयोः, तत्कथं ताभ्यां लजन्ताभ्यां कामवान्()बलवांश्चेच्यत इति चेत्। अत्राहुः---वृत्तिविषये वत्सांसशब्दौ स्नेहबलयोर्वर्तते इति। अ()स्मस्तु प्रकरणे सर्तर् समुच्चीयमानोऽपि मतुबिह नेष्यते, मतु बन्तेनोक्तार्थस्याऽप्रतीतेः। किं त्वर्थान्तरमेव तेन प्रतीयते। वत्सवती गौः। अंसवान् दुर्लब इति।