पूर्वम्: ५।३।१३
अनन्तरम्: ५।३।१५
 
सूत्रम्
इतराभ्योऽपि दृश्यन्ते॥ ५।३।१४
काशिका-वृत्तिः
इतराभ्ह्यो ऽपि दृश्यन्ते ५।३।१४

सप्तमीपञ्चम्यपेक्षम् इतरत्वम्। इतराभ्यो विभक्तिभ्यस् तसिलादयो दृश्यन्ते। दृशिग्रहणम् प्रायिकविध्यर्थं, तेन भवदादिभिर् योग एव एतद् विधानम्। के पुनर् भवदादयः? भवान् दीर्घायुरायुष्मान् देवानां प्रियः इति। स भवान्, ततो भवान्, तत्र भवान्। तं भवन्तं, तत्र भवन्तम्, ततो भवन्तम्। तेन भवता, तत्र भवता, ततो भवता। तस्मै भवते, तत्र भवते, ततो भवते। तस्माद् भवतः, तत्र भवतः , ततो भवतः। तस्मिन् भवति, तत्र भवति, ततो भवति। एवं दीर्घयुःप्रभृतिष्वप्युदाहार्यम्।
लघु-सिद्धान्त-कौमुदी
इतराभ्योऽपि दृश्यन्ते १२११, ५।३।१४

पञ्चमीसप्तमीतरविभक्त्यन्तादपि तसिलादयो दृश्यन्ते। दृशिग्रहणाद्भवदादियोग एव। स भवान्। ततो भवान्। तत्र भवान्। तम्भवन्तम्। ततो भवन्तम्। तत्र भवन्तम्। एवं दीर्घायुः, देवानाम्प्रियः, आयुष्मान्॥
न्यासः
इतराभ्योऽपि दृश्यन्ते। , ५।३।१४

"पञ्चमीसप्तम्यपेक्षमितरत्वम्()" इति। तदनन्तरमितरशब्दस्य ज्ञातत्वात्()। अथ दृशिग्रहणं किमर्थम्(), यावता "इतराभ्योऽपि" इत्येतावतैव सिद्धम्()? इत्याह--"दृशिग्रहणम्()" इत्यादि। प्रायिको विधिर्यता स्यादित्येवमर्थं वृशिग्रहणम्()। तस्मिस्तु सति शिष्टप्रयोगेऽनुगम्यमाने यत्र दृश्यते तत्र भवति, नान्यत्रेत्येषोऽर्थो लभ्यते। तेन प्रायिकत्वं विधेः सिध्यति। "तेन" इत्यादि। दृशिग्रहणे तु सति यत्रेतराभ्यः शिष्टप्रयोगो दृश्यते ताभ्य एव तसिलादिभिर्भवितव्यम्()। भवदादियोग एवेतराभ्यो दृश्यन्ते, तेनेतरत्रैव तद्विधानम्()। यदि ह्रन्येभ्योऽपि तसिलादयो भवन्ति, पूर्वं पञ्चमीसप्तमीभ्यां विधानमनर्थकम्()? नैतदस्ति; नियोगतो हि ताभ्यामिष्यते, इतराभ्यो भवदादियोगे। एतच्च पूर्वस्मिन्? विधावस्मिश्च सत्युभयं लभ्यत इति कुत आनर्थक्यम्()!॥
बाल-मनोरमा
इतराभ्योऽपि दृश्यन्ते १९३८, ५।३।१४

इतराभ्यो।ञपि दृश्यन्ते। पञ्चमीसप्तमीतरविभक्तिभ्योऽपीत्यर्थः। फलितमाह--पञ्चमीसप्तमीतरविभक्त्यन्तादपीति। "किमादे"रिति शेषः। एवमिति। स दीर्घायुः, ततो दीर्घायुः, तत्र दीर्घीयुरित्याद्यूह्रमित्यर्थः।