पूर्वम्: ५।३।१४
अनन्तरम्: ५।३।१६
 
सूत्रम्
सर्वैकान्यकिंयत्तदः काले दा॥ ५।३।१५
काशिका-वृत्तिः
सर्वएकान्यकिंयत्तदः काले दा ५।३।१५

सप्तम्याः इति वर्तते, न तु इतराभ्यः इति। सर्वादिभ्यः प्रातिपदिकेभ्यो दा प्रत्ययो भवति। त्रलो ऽपवादः। सर्वस्मिन् काले सर्वदा। एकदा। अन्यदा। कदा। यदा। तदा। काले इति किम्? सर्वत्र देशे।
लघु-सिद्धान्त-कौमुदी
सर्वैकान्यकिंयत्तदः काले दा १२१२, ५।३।१५

सप्तम्यन्तेभ्यः कालार्थेभ्यः स्वार्थे दा स्यात्॥
न्यासः
सर्वैकान्यकिंयत्तदः काले दा। , ५।३।१५

"सप्तम्या इत्यनुवत्र्तते" इति। तस्याः स्वरितत्वात्()। "न त्वितराभ्यः" इति। तद्विफर्ययात्()। "त्रलादेरपवादः" इति। यतासम्भवम्()। तत्र किंशब्दात्? "किमोऽत्()" ५।३।१२ इति प्राप्तस्यात्प्रत्ययस्यापवादः। केषाञ्चिन्मतेन तरलोऽपि। तच्छब्दादपि "तयोदर्दाहिलौ च च्छन्दसि" ५।३।२० इति। शेषेभ्यस्तु त्रलः। "कदा" इति। किमः कादेशः॥
बाल-मनोरमा
सर्वैकान्यकिंयत्तदः काले दा १९३९, ५।३।१५

सर्वैकान्य। सप्तम्यन्तेभ्य इति। "सर्वादिभ्य" इति शेषः। "सप्तम्या" इत्येवानुवर्तते, व्याख्यानादिति भावः। सदा सर्वदेति। "सर्वस्य सोऽन्यतरस्यां दी"ति सभावविकल्पः। कदेति। किंशब्दाद्दाप्रत्यये सति तस्य "किमः कः" इति कादेशः।