अधुना। "इदम" इति, सप्तम्या" इति, "काले" इति चानुवर्तते। तदाह--इदम इति। इशिति। "इदम इ" शित्यनेने"ति शेषः। अधुनेति। "इय"दितिवत्प्रत्ययमात्रं शिष्यते। पठन्ति चाभियुक्ताः "उदितवति परस्मिन्प्रत्यये शास्त्रयोनौ, गतवति विलयं च प्राकृते।ञपि प्रपञ्चे। सपदि पदमुदीतं केवलः प्रत्ययो यत् तदियदिति मिमीते कोऽधुना पण्डितोऽपि?।" इति वैयाकरणीमौपनिषर्दी च प्रक्रियामाश्रित्य प्रवृत्तो द्व्यर्थोऽयं श्लोकः।
अधुनाप्रत्यय इति। निपातनान्मध्योदात्तोऽयम्। भाष्यमतं चेदम्। वृत्तिकारस्त्वाह---इदमो अश्भावो धुना च प्रत्यय इति। तत्र "ऊडिद"मित्यादिना विभक्तितस्वरः, स च "आदेः परस्ये"त्यादेर्भवतीति हरदत्तः।
तदो दावचनमनर्थकं विहितत्वात्। दावचनमिति। "तदश्चे
"त्येव सूत्रं पठनीयमिति भावः।