पूर्वम्: ५।३।१५
अनन्तरम्: ५।३।१७
 
सूत्रम्
इदमो र्हिल्॥ ५।३।१६
काशिका-वृत्तिः
इदमो र्हिल् ५।३।१६

सप्तम्याः इत्येव, काले इति च। इदमः सप्तम्यन्तात् काले वर्तमानात् र्हिल् प्रत्ययो भवति। हस्य अपवादः। लकारः स्वरार्थः। अस्मिन् काले एतर्हि। काले इत्येव, इह देशे।
लघु-सिद्धान्त-कौमुदी
इदमो र्हिल् १२१४, ५।३।१६

सप्तम्यन्तात् काल इत्येव॥
न्यासः
इदमो हिल्?। , ५।३।१६

"हस्यापवादः" इति। "इदमो हः" ५।३।११ इति प्राप्तस्य। "लकारः स्वरार्थः" इति। "लिति"(६।१।१९३) प्रत्ययात्? पूर्वस्योदात्तत्वं यथा स्यात्()। ननु च यथा इत इत्यत्र--"ऊडिदम्()" ६।१।१६५ इत्यादिना विभक्तिस्वरो भवति, तथेहापि तेनैव भवितव्यम्()? नैतदस्ति; तथा हि युक्तमित इत्यत्र यद्विभक्तिस्वरो भवतीति; तसिलो लित्त्वस्य परितः, अभित इत्यतर चरितार्थत्वात्(), अस्य तु हिलो लित्करणमकृतार्थम्()। तद्यदि विभक्तिस्वरेम बाध्येत तस्यानर्थक्यं स्यात्()। तस्माल्लित्स्वर एव भवति॥
बाल-मनोरमा
इदमो र्हिल् १९४०, ५।३।१६

इदमो र्हिल्। इदमः--र्हिल् इति च्छेदः। एतर्हीति। इदम्()शब्दात् र्हिल्। "एतेतौ रथो"रित्येतादेशः।

तत्त्व-बोधिनी
इदमो र्हिल् १४७८, ५।३।१६

एतर्हीति। "एततौ रथोः"एत्येतादेशः।